रघुवंशम्

रघुवंशम् इत्यस्य साधुत्वम्

२५४

रघूणां वंशः = रघुवंशः । इदं वंशस्य अभिधानम् । अत्रापि रघूणाम् = राघवाणाम् इत्यर्थः । रघुशब्दप्रयोगे सत्यपि लाक्षणिकत्वात् राघवार्थस्यैव प्रतीतिः इति आशयः ।

वंशशब्दः पुंलिङ्गे प्रयुज्यते । वंशोऽन्ववायः सन्तानः इत्यमरः । अतः वंशवाचकः “रघुवंशः” इति शब्दः अपि पुंलिङ्गे ।

रघुवंशम् अधिकृत्य कृतः ग्रन्थः रघुवंशम् ।
अत्र आदौ ४.३.८७ अधिकृत्य कृते ग्रन्थे इत्यनेन
अत्र रघुवंशशब्दात् अण्-प्रत्ययः भवति ।
ततः “लुबाख्यायिकाभ्यो बहुलम्” इति वार्त्तिकेन अस्य अण्-प्रत्ययस्य लुप् क्रियते ।+++(5)+++
अतः ग्रन्थस्य अभिधानम् अपि “रघुवंश” इत्येव ।

१.२.५१ लुपि युक्तवद् व्यक्तिवचने
इत्यनेन प्रत्ययान्तशब्दस्य लिङ्गम् अपि प्रकृतिसदृशम् एव भवेत् ।+++(5)+++
परन्तु काव्यवाचकः रघुवंशशब्दः तु नपुंसकलिङ्गे प्रयुज्यते ।
अतः अत्र लिङ्गं लोकाश्रयत्वात् सिद्धम् इत्युच्यते ।

अथ वा, “काव्यस्य विशेषणत्वात् नपुंसकता” इति केचन वदन्ति ।
“काव्यम्” शब्दस्य विशेषणत्वेन अस्य नपुंसकत्वम् इत्याशयः ।
बहूनां काव्यानां नामानि नपुंसके सन्ति ।
यथा, मेघदूतम्, कुमारसम्भवम्, किरातार्जुनीयम् आदयः ।