रावण

Source: TW

“रावण” इति शब्दः

रावयति (भीषयति) इति रावणः ।
रु (शब्दे, अदादिः) + णिच् + ल्यु → रावण ।
३.१.१३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः
इत्यत्र विद्यमाने नन्द्यादिगणे ण्यन्तस्य रु-धातोः ग्रहणं कृत्वा
तस्मात् ल्यु-प्रत्ययं कृत्वा व्युत्पत्तिः दीयते ।

यस्माद् लोकत्रयं चैतद् रावितं भयमागतम् ।
तस्मात्त्वं रावणो नाम नाम्ना वीरो भविष्यसि — इति रामायणे ।

४.१.११२ शिवादिभ्योऽण् इति सूत्रे निर्दिष्टे शिवादिगणे “रवण” इति शब्दः वर्तते ।
अतः अनेन सूत्रेण रवणशब्दात् अपत्यार्थे अण्-प्रत्ययः भवति ।
रवणस्य अपत्यं पुमान् = रवण + अण् → रावण ।

कुत्रचित्, द्रु (गतौ, भौवादिकः) + णिच् + ल्यु → द्रावण इति व्युत्पत्तिम् उक्त्वा,
सुखोच्चारणार्थम् दकारलोपं कृत्वा
(६.३.१०९ पृषोदरादीनि यथोपदिष्टम् इत्यत्र तादृशं निर्देशं कृत्वा)
“रावण” इत्यस्य सिद्धिः वैयाकरणैः ज्ञाप्यते ।+++(4)+++

“विद्रवन्ति भयत्रस्ताः सुराः शुक्रपुरोगमाः” इति रामायणे उत्तरकाण्डे प्रयोगः अस्ति ।
अस्यैव आधारेण — यः देवान् अन्यत्र द्रावयति (गमयति / पलाययते) सः रावणः इत्याशयः ।
यस्माद् लोकत्रयं चैतद् द्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना वीरो भविष्यसि — इति पाठभेदः ।
उपायस्य उपायान्तर-अदूषकत्वम् इति न्यायेन सर्वाः अपि एताः व्युत्पत्तयः प्रामाणिकाः एव ज्ञेयाः ।

४.१.११२ शिवादिभ्योऽण् इत्यत्र तत्त्वबोधिन्याम् तु — विश्रवण-रवण-शब्दौ अत्र पठ्येते, तौ च विश्रवस्-शब्दस्य आदेशौ ।
विश्रवसः अपत्यं वैश्रवणः, रावणः ।
अतः “रवणस्य अपत्यम्” इत्यस्य स्थाने “विश्रवसः अपत्यम्” इति वृत्तिः युक्ततरा — इति तत्त्वबोधिनीकारस्य मतम् ।
अमरकोशस्य सुधाव्याख्याने अपि “विश्रवसो विश्रवणरवणादेशौ निपातितौ” इति निर्देशः वर्तते । मल्लिनाथेन अपि रघुवंशव्याख्याने, शिशुपालवधस्य व्याख्याने च अस्य समर्थनं कृतम् अस्ति —

— रघुवंशे १२.९१
— शिशुपालवधे १.४८