राष्ट्रिय

Source: TW

“राष्ट्रिय” इति शब्दः

राष्ट्र इति शब्दात् “तस्य इदम्” इत्यस्मिन् अर्थे (इत्युक्ते, सम्बन्धसामान्ये) ४.२.९३ राष्ट्रावारपाराद्घखौ इत्यनेन घ-प्रत्ययः भवति । प्रक्रियायाम् ७.१.२ आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् इत्यनेन घ-प्रत्ययस्य इय-आदेशः भवति ।

राष्ट्रस्य इदम् = राष्ट्र + घ → राष्ट्र + इय → राष्ट्र् + इय → राष्ट्रिय । अत्र (ह्रस्वः) इकारः श्रूयते ।

यथा - राष्ट्रस्य अयं ध्वजः = राष्ट्रियध्वजः । राष्ट्रस्य इयं समस्या = राष्ट्रियसमस्या । राष्ट्रस्य इदं गीतम् = राष्ट्रियगीतम् ।

राष्ट्रीय

राष्ट्र इति शब्दात् “तस्मै हितम्” (favorable to it) इत्यस्मिन् अर्थे ५.१.१ प्राक्क्रीताच्छः इति सूत्रेण छ-प्रत्ययः भवति । प्रक्रियायाम् ७.१.२ आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् इत्यनेन छ-प्रत्ययस्य ईय-आदेशः भवति ।
राष्ट्राय हितम् = राष्ट्र + छ → राष्ट्र + ईय → राष्ट्र् + ईय → राष्ट्रीय । अत्र (दीर्घः) ईकारः श्रूयते ।
यथा — राष्ट्रीयनिर्णयः (राष्ट्रस्य हितार्थम् कृतः निर्णयः) । राष्ट्रीययोजना (राष्ट्रस्य हितार्थम् कृता योजना) । राष्ट्रीयचिन्तनम् (राष्ट्रस्य हितार्थं कृतं चिन्तनम्) ।

एतेषु सर्वेषु अपि उदाहरणेषु “राष्ट्रिय” इति ह्रस्वघटितः प्रयोगः अपि साधु, यतः तेन सामान्यसम्बन्धः निर्दिश्यते । यथा, राष्ट्रसम्बन्धी निर्णयः = राष्ट्रियनिर्णयः ।

सम्बन्धसामान्ये

सम्बन्धसामान्ये (यत्र हितस्य निर्देशः नास्ति) तत्र तु छ-प्रत्ययः न भवति, अतः दीर्घघटितं रूपम् अपि न प्रयोक्तव्यम् । तत्र केवलं घ-प्रत्ययः एव भवितुम् अर्हति । यथा, राष्ट्रियप्रश्नः, राष्ट्रियसमस्या, राष्ट्रियस्थितिः, राष्ट्रियवार्ता ।

“महाराष्ट्रीय” इति शब्दः

४.२.९३ राष्ट्रावारपाराद्घखौ इति सूत्रे
“राष्ट्र” इति शब्दस्य स्पष्टं निर्देशं कृत्वा तस्मात् सम्बन्धसामान्ये घ-प्रत्ययः पाठितः अस्ति ।
परन्तु १.१.७२ येन विधिस्तदन्तस्य अस्मिन् सूत्रे पाठिते “समासप्रत्ययविधौ प्रतिषेधः” इति वार्त्तिकेन प्रत्ययविधाने तदन्तविधिः प्रतिषिद्ध्यते,
अतः अयं घ-प्रत्ययः “राष्ट्रशब्दः यस्य अन्ते अस्ति” तादृशानां शब्दानां विषये,
यथा महाराष्ट्र, स्वराष्ट्र, लघुराष्ट्र इत्येतेषां विषये नैव प्रवर्तते ।

अतएव “महाराष्ट्र” शब्दात् सम्बन्धसामान्यस्य निर्देशार्थम् ४.१.८३ प्राग्दीव्यतोऽण् इति अण्-प्रत्ययं कृत्वा महाराष्ट्र + अण् → माहाराष्ट्र इति शब्दः सिद्ध्यति । महाराष्ट्रस्य इदम् माहाराष्ट्रम् । एवमेव, स्वराष्ट्रस्य इदं स्वाराष्ट्रम् ।

यदि कुत्रचित् “महाराष्ट्रिय” इति प्रयोगः दृश्यते, तर्हि तत्र
महान् च असौ राष्ट्रियश्च = महाराष्ट्रिय इति कर्मधारयसमासः मन्तव्यः ।+++(4)+++

“वा नामधेयस्य वृद्धसंज्ञा वक्तव्या” इति वार्त्तिकेन “महाराष्ट्र” इति शब्दस्य विकल्पेन वृद्धम् इति संज्ञा भवितुम् अर्हति ।+++(5)+++
तथा क्रियते चेत् सम्बन्धसामान्ये ४.२.११४ वृद्धात् छः इत्यनेन छ-प्रत्ययः सम्भवति, येन महाराष्ट्र + छ → महाराष्ट्रीय इति दीर्घघटितं रूपं साधुत्वं प्राप्नोति ।

तस्मै हितम् (favorable to it) इत्यस्मिन् अर्थे तु
महाराष्ट्रशब्दात् ५.१.१ प्राक्क्रीताच्छः इति सूत्रेण छ-प्रत्ययः अवश्यं भवति,
यतः तस्मिन् सूत्रे “राष्ट्र”शब्दविशिष्टं प्रत्ययविधानं नैव क्रियते ।
अतः “महाराष्ट्रस्य हितार्थं कृतः निर्णयः = महाराष्ट्रीयनिर्णयः” इति प्रयोगः सङ्गच्छते । अत्र दीर्घः ईकारः अस्ति इति स्मर्तव्यम् ।

“अन्ताराष्ट्रीय” इति शब्दः

[[२०९]]

“राष्ट्रे” इत्यस्मिन् अर्थे “अन्तर्” इति अव्ययेन सह २.१.६‌ अव्ययं विभक्तिसमीप… इत्यनेन सूत्रेण विभक्यर्थे अव्ययीभावसमासः सम्भवति । राष्ट्रे इत्येव अन्ताराष्ट्रम् ।

“द्वयोः राष्ट्रयोः मध्ये विद्यमानम्” इति अर्थम् स्पष्टीकर्तुम्
“अन्तर्” इति शब्देन सह “राष्ट्रम्” इत्यस्य समासं कृत्वा
अन्ताराष्ट्रम् इति शब्दः सिद्ध्यति ।

अत्र केवलसमासं कृत्वा
अन्तर् इति शब्दस्य कथञ्चित् पूर्वनिपातः कर्तव्यः ।
तस्मात् “४.३.१२० तस्येदम् इत्यनेन” अण्-प्रत्यये कृते
आन्ताराष्टम् इति शब्दः सिद्ध्यति ।
द्वयोः राष्ट्रयोः मध्ये विद्यमानस्य इदम् = International = आन्ताराष्टम् ।

“राष्ट्रस्य इदम् राष्ट्रियम्” इति घ-प्रत्ययान्ते राष्ट्रियशब्दे सिद्धे,
ततः “द्वयोः राष्ट्रिययोः मध्ये विद्यमानम्” इति अर्थं स्पष्टीकर्तुम्
“अन्तर्” शब्दस्य “राष्ट्रिय” शब्देन सह केवलसमासं कृत्वा
अन्ताराष्ट्रिय इति शब्दः सिद्ध्यति ।
परन्तु अस्य अर्थः “एकस्यैव राष्ट्रस्य सम्बन्धिनौ यौ द्वौ, तयोर्मध्ये” इति भवति ।+++(4)+++

अतः, अन्ताराष्ट्रीयः इत्यस्य साधुत्वज्ञापनं क्लेशाय !
यदि अयं कुत्रचित् शिष्टैः प्रयुक्तः दृश्यते,
तर्हि ४.२.१३८ गहादिभ्यश्च इत्यस्मिन् सूत्रे विद्यमानम् गहादिगणम् आकृतिगणं स्वीकृत्य,
तत्र “अन्ताराष्ट्र” इति शब्दं संस्थाप्य,
तस्मात् शब्दात् ४.३.१२० तस्येदम् इत्यस्मिन् अर्थे
४.२.१३८ गहादिभ्यश्च इत्यनेन छ-प्रत्ययं कृत्वा
अन्ताराष्ट्रीय इति शब्दस्य साधुत्वं ज्ञापयितुम् शक्यम् ।