Source: TW
‘पथ’ इति शब्दः
२२९, २३०
पथिन् इति इन्नन्तः शब्दः “मार्गः” इत्यस्मिन् अर्थे प्रयुज्यते । पन्थाः, पन्थानौ, पन्थानः इति रूपाणि ।
पथेँ (गतौ, भ्वादिः) + इनि (पथिमथिभ्यामिनिः इति उणादिसूत्रम्) → पथिन् ।
पथन्ते अनेन इति पन्थाः ।
पतॢँ (पतने, भ्वादिः) + इनि (पतस्थ च इति उणादिसूत्रम्) → पथ् + इन् → पथिन् ।
पतति अनेन इति पन्थाः ।
मार्गः अस्मिन्नेव अर्थे पथ इति अकारान्तपुंलिङ्गशब्दः अपि अस्ति ।
वाटः पथश्च मार्गश्च — इति त्रिकाण्डशेषः ।
पथेँ (गतौ, भ्वादिः) + अच् (नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः) → पथ ।
‘विपथ’, “कापथ” इति नपुंसकलिङ्गशब्दौ
[[२२९, २३०]]
विरूपः / विरुद्धः पन्थाः इति कर्मधारयसमासे “वि + पथिन्” इत्यत्र ५.४.७४ ऋक्पूरब्धूःपथामानक्षे इत्यनेन “अ” इति समासान्तप्रत्यये कृते, “वि + पथिन् + अ” इत्यत्र ६.४.१४४ नस्तद्धिते इति टिलोपे कृते विपथ इति शब्दः सिद्ध्यति । २.४.३० अपथं नपुंसकम् इत्यत्र पाठितेन पथः सङ्ख्याव्ययादेः इति वार्त्तिकेन अयं शब्दः नपुंसकलिङ्गे एव प्रयुज्यते, अतः विपथम् इति रूपम् । एतानि विपथानि दृश्यन्ते इति वाक्यप्रयोगः ।
कुत्सितः पन्थाः इति कर्मधारयसमासे “कु + पथिन्” ५.४.७४ ऋक्पूरब्धूःपथामानक्षे इत्यनेन “अ” इति समासान्तप्रत्यये कृते, “कु + पथिन् + अ” इत्यत्र ६.४.१४४ नस्तद्धिते इति टिलोपे कृते, तथा च ६.३.१०४ का पथ्यक्षयोः इत्यनेन कु-इत्यस्य का-आदेशे कृते कापथ इति शब्दः सिद्ध्यति । २.४.३० अपथं नपुंसकम् इत्यत्र पाठितेन पथः सङ्ख्याव्ययादेः इति वार्त्तिकेन अयं शब्दः नपुंसकलिङ्गे एव प्रयुज्यते, अतः कापथम् इति रूपम् । एतानि कापथानि दृश्यन्ते इति वाक्यप्रयोगः ।
व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः (अमरकोशः २.१.१७) इत्यत्र विपथ तथा कापथ इति द्वौ पुंलिङ्गशब्दौ प्रयुक्तौ स्तः । एतयोः व्युत्पत्तिः कथम् इति चेत् —
२.४.१७ स नपुंसकम् इत्यत्र तत्त्वबोधिनी
विपथः इत्यत्र विरूपः पथः इति समासः (न हि विरूपः पन्थाः इति समासः) । अतः अत्र समासान्तप्रत्ययः, नपुंसकत्वं च न प्राप्नोति ।
कुत्सितः पथः इति स्थिते कु इत्यस्य का-आदेश: नैव भवति; अतः तत्र कुपथः इत्येव भवेत् । अतः ईषद् पथः इति विग्रहे ६.३.१०५ ईषदर्थे इत्यनेन “कु + पथ” इत्यत्र कु इत्यस्य का-आदेशे कृते “कापथः” इति शब्दः सिद्ध्यति । अत्र “ईषद्” इत्यस्यैव “कुत्सायाम्” इति तात्पर्यार्थः ग्रहीतव्यः ।
‘विपथ’, “कापथ” इति पुंलिङ्गशब्दौ
अन्येषु कोशेषु अपि विपथ, कापथ एतयोः पुंलिङ्गे प्रयोगः दर्शितः दृश्यते —
कापथः कुत्सितपथे उशीरे क्लीबमिष्यते — मेदिनी
विपथः कापथो व्यध्वो दुरध्वश्च कदध्वनि — वैजयन्ती
सत्पथस्तु सुपन्थाः स्यात् व्यध्वौ विपथकापथौ — रभसः
व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः (अमरकोशः २.१.१७)
इत्यस्य सुधाव्याख्यानम् ।
विपथः इत्यत्र —
कापथः इत्यत्र —
माधवीयधातुवृत्तौ पथशब्दविषये…
माधवीयधातुवृत्तौ पतॢँ गतौ इत्यस्य व्याख्यानावसरे
माधवीयधातुवृत्तौ पथशब्दविषये…
माधवीयधातुवृत्तौ पुंलिङ्गः पथशब्दः नैव विद्यते इति निर्दिष्टम् अस्ति ।
तथापि विपथ, कापथ, अपथ इत्यादीनां सिद्ध्यर्थम् अकारान्तपुंलिङ्गः पथशब्दः अवश्यं विद्यते
इति एव साधुतरः मार्गः — इति अत्र निर्णयः ।