Source: TW
परस्पर, अन्योन्य, इतरेतर इति शब्दाः
२८७
परस्पर, अन्योन्य, इतरेतर — इति त्रयः अपि शब्दाः समानार्थकाः । Mutual / Each other इति अर्थः ।
परस्परं प्रति स्नेहः वर्तते ।
अन्योन्यस्य आश्रयः स्वीक्रियते ।
तौ इतरेतरं भोजयतः ।
८.१.१२ प्रकारे गुणवचनस्य इत्यत्र कौमुदीकारः एतेषां सिद्धिं प्रदर्शयति —
कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये, समासवच्च बहुलम् (वार्त्तिकम्) ।+++(5)+++
बहुल-ग्रहणाद् अन्यपरयोः न समासवत् ।
इतर-शब्दस्य तु नित्यम् ।
असमासवद्-भावे पूर्वपदस्थस्य सुपि सुर् वक्तव्यः (वार्त्तिकम्) ।+++(5)+++
अन्योऽन्यं विप्रा नमन्ति अन्योऽन्यौ । अन्योऽन्यान् ।
अन्योऽन्येन कृतम् ।
अन्योऽन्यस्मै दत्तमित्यादि ।
‘अन्योऽन्येषां पुष्करैरामृशन्तः’ इति माघः ।एवं परस्परम् । अत्र कस्कादित्वाद् विसर्गस्य सः ।+++(5)+++ इतरेतरम् । इतरेतरेणेत्यादि ।
पर, अन्य, इतर — इति त्रयाणाम् एव सर्वनामशब्दानां कर्मव्यतिहारस्य विषये द्वित्वं भवति ।+++(4)+++
एतेषां शब्दानाम् इष्टस्य विभक्त्यन्तरूपस्य द्वित्वं भवति ।
यथा - परेण + परेण = परस्परेण ।
अन्यस्मै + अन्यस्मै = अन्योऽन्यस्मै ।
इतरेषाम् + इतरेषाम् = इतरेतरेषाम् ।
द्वित्वे कृते अपि सर्वनामसंज्ञा विद्यते एव ।+++(4)+++
अतः अन्योऽन्यस्मै, इतरेतरेषाम् इत्यादीनि रूपाणि ।
“पर”शब्दस्य विषये, “अन्य”शब्दस्य विषये च द्वित्वे कृते
समासवद् कार्यं न भवति ।
अस्यां स्थितौ पूर्वपदस्य विभक्तिप्रत्ययस्य “सुँ” इति आदेशः जायते ।
असमासवद्भावे पूर्वपदस्थस्य सुपि सुँ वक्तव्यः इति वार्त्तिकम् ।
परन्तु “इतर”शब्दस्य विषये द्वित्वे कृते समासवद् कार्यं भवति,
अतः पूर्वपदस्य विभक्तिप्रत्ययस्य लोपः जायते ।
परेण + परेण
→ परस् + परेण [पूर्वपदस्य सुपः सुँ]
→ परः + परेण [ससजुषो रुः, खरवसानयो..]
→ परस् + परेण [कस्कादिषु च इति सत्वम्]
→ परस्परेण
अन्यस्मै + अन्यस्मै
→ अन्यस् + अन्यस्मै [पूर्वपदस्य सुपः सुँ]
→ अन्यरुँ + अन्यस्मै [ससजुषोः रुः]
→ अन्यउ + अन्यस्मै [अतो रोरप्लुतादप्लुते]
→ अन्यो + अन्यस्मै [आद्गुणः]
→ अन्योऽन्यस्मै [एङः पदान्तादति]
इतरेषाम् + इतरेषाम्
→ इतर + इतर [सुपो धातुप्रातिपदिकयोः]
→ इतरेतर [आद्गुणः]
अस्य षष्ठी बहुवचनम् - इतरेतरेषाम् ।
आम्-भावः
स्त्रीनपुंसकयोर् उत्तरपदस्थाया विभक्तेर् आम्-भावो वा वक्तव्यः (वार्त्तिकम्)+++(5)+++
— पर, अन्य, इतर एतेषां शब्दानां द्वित्वे कृते
स्त्रीलिङ्गे, नपुंसकलिङ्गे च उत्तरपदस्थविभक्तेः विकल्पेन “आम्” इति आदेशः भवति ।
अतः स्त्रीलिङ्गे, नपुंसकलिङ्गे च सर्वत्र “परस्पराम्”, “अन्योऽन्याम्”, “इतरेतराम्” इति रूपाणि (सर्वासु विभक्तिषु) भवन्ति ।
अन्योन्याम् इमे ब्राह्मण्यौ भोजयतः ।
परस्पराम् इमे बालिके दत्तः ।
इतरेतराम् इमे नद्यौ मिलतः ।
अन्योन्याम् इमे कुले भोजयतः ।
परस्पराम् इमे वाहने ताडयतः ।
इतरेतराम् इमे मित्रे गृह्णीतः ।
आम्-आदेशस्य अभावे
बहुलग्रहणात् स्त्रीलिङ्गस्य नपुंसकलिङ्गस्य च
पुंलिङ्गसदृशानि एव रूपाणि भवन्ति ।
अन्योन्यम् इमे ब्राह्मण्यौ भोजयतः ।
परस्परस्मै इमे बालिके दत्तः ।
इतरेतरेण इमे नद्यौ मिलतः ।
अन्योन्यम् इमे कुले भोजयतः ।
परस्परम् इमे वाहने ताडयतः ।
इतरेतरस्मात् इमे मित्रे गृह्णीतः ।
नपुंसकलिङ्गे प्रत्ययस्य अद्ड्-आदेशः न भवति इति विशेषः ।
केषाञ्चन वैयाकरणानां मतेन तु
आम्-आदेशः केवलं द्वितीयाविभक्तेः विषये एव भवति ।+++(5)+++
द्वितीयाभिन्नस्थलेषु तु पुंलिङ्गसदृशानि एव रूपाणि भवन्ति इत्यत्र न मतान्तरम् ।
दलद्वये टाबभावः क्लीबे
चाद्ड्-विरहः स्व्-अमोः ।
समासे सोर् अलुक् चेति
सिद्धं बाहुलकात् त्रयम् ॥