मधुरशब्दः

मधु राति

मधु (माधुर्यं) राति (ददाति) इति मधुरः । “३.२.३ आतोऽनुपसर्गे कः” इति कप्रत्ययः । मिष्टरसः इत्याशयः । अयं शब्दः नित्यं पुंलिङ्गे एव प्रयुज्यते । यथा, शर्करायाः रसः मधुरः ।

मधुररसवान्

बहुत्र “मधुररसवान्” अस्मिन् अर्थे अपि मधुरशब्दः प्रयुज्यते । अत्र सः विशेष्यनिघ्नः । यथा — मधुरः अपूपः, मधुरा शर्करा, मधुरं फलम् । एवमेव, मधुरं खादामि = मधुररसयुक्तं पदार्थं खादामि इत्याशयः ।

मधुरस्तु रसे पुंसि,
मधुरं तु विषान्तरे ।
मधुरो रसवत् स्वादु-
प्रियेषु त्रिषु वाच्यवत् — इति विश्वः ।

स्वादुप्रियौ च मधुरौ — इति अमरः ।

“मधुररसवान्” इत्यस्मिन् अर्थे “मिष्टान्नः” इति शब्दः अपि उचितः एव । “मिष्टान्नं खादामि” इत्यपि साधुप्रयोगः ।