Source: TW
‘कुत्र’ इति शब्दः
२३७
किम् इति शब्दात् सप्तमीविभक्तेः अर्थे ५.३.१० सप्तम्यास्त्रल् इति सूत्रेण त्रल् इति प्रत्यये कृते कुत्र इति शब्दः सिद्ध्यति । प्रक्रियायाम् ७.२.१०४ कु तिहोः इत्यनेन किम् इत्यस्य कु इति आदेशः विधीयते ।
“किम्” इति शब्दात् सप्तमीविभक्तेः अर्थे ५.३.१२ किमोऽत् इति सूत्रेण अत् इति प्रत्यये कृते क्व इति शब्दः अपि सिद्ध्यति । प्रक्रियायाम् ७.२.१०५ क्वाति इत्यनेन किम् इत्यस्य क्व इति आदेशः विधीयते ।
अत्र विहितः अत् इति प्रत्ययः विकल्पेन न विधीयते अपितु नित्यं विधीयते; अतः तस्य योजनेन निर्मितः क्व इति शब्दः लौकिकभाषायाम् “कुत्र” इति शब्दं नित्यं बाधते — इति भागवृत्तिः इत्यस्मिन् ग्रन्थे उक्तम् अस्ति ।
अतः भागवृत्तिकारस्य मतेन लौकिकसंस्कृते “कुत्र” इति शब्दः नैव साधु !
परन्तु कुत्र इति शब्दस्य साहित्ये असङ्ख्याः प्रयोगाः दृश्यन्ते ! तर्हि तेषां साधुत्वं कथम् ?
प्रायेण सर्वेऽपि वैयाकरणाः तु ५.३.१३ वा ह च च्छन्दसि इति अग्रिमसूत्रात् वा इत्यस्य ५.३.१२ किमोऽत् इत्यत्र अपकर्षं कृत्वा “अत्” इति प्रत्ययस्य विकल्पेनैव विधानं कुर्वन्ति; अतः तेषां मतेन, पक्षे त्रल् इत्यपि प्रत्यये कृते कुत्र इति शब्दः अवश्यं सिद्ध्यति ।
किमः सप्तम्यन्तात् अत् प्रत्ययो भवति; त्रलोऽपवादः । त्रलम् अपि केचित् इच्छन्ति — ‘कुत्र’ । तत्कथम् ? उत्तरसूत्रात् वावचनम् पुरस्ताद् अपकृष्यते — ५.३.१२ इत्यत्र काशिका ।
भागवृत्तिकारस्तु भाषायाम् एतत् न इच्छति — ५.३.१२ इत्यत्र पदमञ्जरी ।
वाग्रहणम् अपकृष्यते । सप्तम्यन्तात् किमोत् वा स्यात् पक्षे त्रल् — ५.३.१२ इत्यत्र सिद्धान्तकौमुदी ।
वा ह च छन्दसि इत्युत्तरसूत्राद् इति शेषः । अपकर्षे व्याख्यानमेव शरणम् — ५.३.१२ इत्यत्र बालमनोरमा ।
यद्यपि भागृवृत्तिकारो भाषायां त्रल् नेच्छति, तथापि बहु प्रयोगदर्शनादिह स्वीकृतम् ।
तथा च श्रीहर्षः - नान्यत्र कुत्रापि च साभिलाषम् ।
अमरश्चाह - साहचर्याच्च कुत्रचिदिति - ७.२.१०५ इत्यत्र तत्त्वबोधिनी ।