Source: TW
कोपः तथा क्रोधः
[[२१६]]
वाग्व्यवहारादर्शे “पर्यायवचनविवेकः” इत्यत्र ।
कोप, क्रोध इति शब्दौ समानार्थकौ ।
कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ— इत्यमरः ।
उभयोः शब्दयोः अवयवत्वेन विद्यमानौ धातू अपि समानार्थकौ — कुपँ क्रोधे, क्रुधँ क्रोधे इति ।
तथापि द्वयोः शब्दयोः अर्थौ सूक्ष्मरूपेण भिद्येते ।
कोपः इति क्रोधस्य प्रारम्भिकावस्था ।
आदौ कोपः, ततः क्रोधः इत्याशयः ।
घातेच्छासमनियतश्चित्तवृत्तिविशेषः कोपः । … प्ररूढकोपः एव हि क्रोधः — बालमनोरमा ।
कोपस्यैव अधिकावस्था क्रोधः — रामायणव्याख्याता तिलकः ।