कैकेयी / कैकयी / केकेयी / केकयी

Source: TW

कैकेयी / कैकयी / केकेयी / केकयी
[[२१८]]

दशरथस्य तृतीया पत्नी / भरतस्य माता
राज्यात् भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणी‌ — इति रामायणे
तेन रामेण कैकेयि शपे ते वचनक्रियाम् — इति रामायणे
जटासु बद्धास्वरुणत्सुमन्त्रः कैकेयि कामाः फलितास्तवेति — इति रघुवंशे

हन्तानार्ये ममाप्रिये सकामा भव केकयि — इति रामायणे
सत्कृत्य केकयीपुत्रं केकयो धनमादिशत् — इति रामायणे
प्राक् केकयीतो भरतस्ततोऽभूत् — इति भट्टिकाव्ये
केकयी

शब्दकल्पद्रुमे कैकयी / केकेयी इति
शब्दौ अपि अस्मिन्नेव अर्थे दीयेते ।

कैकेयी शब्दः

केकयस्य अपत्यं स्त्री [तद्धितवृत्तिः]
→ केकय + अञ् + ङीप् [ ४.१.१६८ जनपदशब्दात् क्षत्रियादञ् इति अञ्, ततः ४.१.१५ टिड्ढाणञ्.. इति ङीप् ]
→ कैकय + अ + ई [७.२.११७ तद्धितेष्वचामादेः इति आदिवृद्धिः]
→ कैक इय + अ + ई [७.३.२ केकयमित्त्रयुप्रलयानां यादेरियः इति “य” इत्यस्य “इय” आदेशः]
→ कैकेय + अ + ई [६.१.८७ आद्गुणः इति गुणैकादेशः]
→ कैकेय् + अ + ई [६.४.१४८ यस्येति च इति अकारलोपः]
→ कैकेय् + ० + ई [६.४.१४८ यस्येति च इति अकारलोपः]
→ कैकेयी

केकय इति किञ्चन जनपदम् (देशः) । तस्य राज्ञः नाम अपि केकय इति । एतादृशम्, यत्र जनपदस्य नाम, तस्य राज्ञः च नाम समानं वर्तते; तत्र अपत्यनिर्देशार्थम् ४.१.१६८ जनपदशब्दात् क्षत्रियादञ् इति सूत्रेण अञ्-प्रत्ययः विधीयते । ततः स्त्रीत्वं द्योतयितुम् ४.१.१५ टिड्ढाणञ्.. इति सूत्रेण ङीप्-प्रत्ययः भवति ।
पृषोदरादीनि यथोपदिष्टम् इत्यनेन ऐकारस्य एकारादेशं कृत्वा “केकेयी” इत्यपि शब्दः सिद्ध्यति — इति शब्दकल्पद्रुमः ।

कैकयी

शब्दकल्पद्रुमे दत्तः कैकयी-शब्दः

केकयस्य अपत्यं स्त्री [तद्धितवृत्तिः]
→ केकय + अञ् + ङीप् [ ४.१.१६८ जनपदशब्दात् क्षत्रियादञ् इति अञ्, ततः ४.१.१५ टिड्ढाणञ्.. इति ङीप् ] → कैकय + अ + ई [७.२.११७ तद्धितेष्वचामादेः इति आदिवृद्धिः] अत्र ७.३.२ केकयमित्त्रयुप्रलयानां यादेरियः इति “य” इत्यस्य “इय” आदेशः बाहुलकात् न भवति । → कैकय् + अ + ई [६.४.१४८ यस्येति च इति अकारलोपः] → कैकय् + ० + ई [६.४.१४८ यस्येति च इति अकारलोपः] → कैकयी

अथ वा, जनपदवाचक-केकय-शब्दात् स्वार्थे अण्-प्रत्यये कृते कैकय इति शब्दः सिद्ध्यति । अत्रापि ७.३.२ केकयमित्त्रयुप्रलयानां यादेरियः इति “य” इत्यस्य “इय” आदेशः बाहुलकात् न भवति । ततः दुहितरि अर्थे ४.१.१५ टिड्ढाणञ्.. इति ङीप्-प्रत्यये कृते कैकयी इति शब्दः सिद्ध्यति ।

केकयी शब्दः

४.१.४८ पुंयोगादाख्यायाम् - पुंलिङ्गवाची शब्दात् “तेन सह योगः” अस्मिन् अर्थे विद्यमानस्य स्त्रीलिङ्गशब्दस्य निर्देशार्थम् ङीष्-प्रत्ययः भवति ।
गोपेन सह योगः अस्याः = One having a relation with गोप = गोपस्य स्त्री = गोप + ङीष् → गोपी ।

४.१.४८ इत्यत्र तत्त्वबोधिनी
४.१.४१ षिद्गौरादिभ्यश्च इत्यत्र पाठिते गौरादिगणे (तस्य आकृतिगणत्वात्) केकयादीनां परिगणनं कृत्वा दुहितरि ङीष्-प्रत्ययः भवति — इत्यर्थः ।
४.१.४८ इत्यत्र बालमनोरमा

केकयी-शब्दस्य भट्टिकाव्यस्था व्युत्पत्तिः

केकयान् जन्मभूमित्वेन आचष्टे (केकयजनपदम् जन्मभूमिरूपेण स्वीकरोति — इत्याशयः) → केकय + णिच् [तत्करोति तदाचष्टे इति वार्त्तिकेन णिच् ।] → केकय् + इ [६.४.४८ अतो लोपः इति यकारोत्तरस्य अकारस्य लोपः] → केकयि [३.१.३२ सनाद्यन्ता धातवः इति धातुसंज्ञा] → केकयि + इ [अच इः इति उणादिसूत्रेण अजन्तधातोः कर्तृनिर्देशार्थम् इ-प्रत्ययः] → केकय् + इ [अनिट्-आर्धधातुके प्रत्यये परे ६.४.५१ णेरनिटि इति णिच्-प्रत्ययस्य लोपः] → केकय् + इ + ङीष् [स्त्रीत्वं द्योतयितुम् कृदिकारादक्तिनः इति वार्त्तिकेन ङीष्-प्रत्ययः] → केकय् + ० + ई [६.४.१४८ यस्येति च इति इकारलोपः] → केकयी जनपदवाचिनः शब्दाः नित्यं बहुवचने एव प्रयुज्यन्ते । अतः अत्र “केकयान्” इति प्रयोगः क्रियते ।

भट्टिकाव्ये दत्ता द्वे व्युत्पत्ती …

कैकेय्यादयः शब्दाः - संक्षेपः

व्युत्पत्तिः
कैकेयी
जनपदशब्दात् क्षत्रियादञ् इति अञ् ; केकयमित्त्रयुप्रलयानां यादेरियः इति इयादेशः; स्त्रीत्वे टिड्ढाणञ्.. इति ङीप् ।

कैकयी
जनपदशब्दात् क्षत्रियादञ् इति अञ् । तत्र केकयमित्त्रयुप्रलयानां यादेरियः इति इयादेशः बाहुलकात् न भवति । ततः स्त्रीत्वे टिड्ढाणञ्.. इति ङीप् ।

केकेयी
कैकेयी-शब्दात् पृषोदरादित्त्वात् ऐकारस्य एकारादेशः ।

केकयी
(१) केकयस्य दुहिता इत्यर्थे पुंयोगादाख्यायाम् इति ङीष् ।
(२) षिद्गौरादिभ्यश्च इति गौरादिगणत्वात् ङीष् ।
(३) केकयान् जन्मभूमित्वेन आचष्टे इति णिच्, ततः कर्तरि औणादिकः इकारः, ततः कृदिकारादक्तिनः इति ङीष् ।

साहित्ये प्रयोगाः दृश्यन्ते ।
शब्दकल्पद्रुमे व्युत्पत्तिः प्रदर्शिता अस्ति परन्तु साहित्ये प्रयोगाः न दृश्यन्ते ।