जनार्दन

Source: TW

‘जनार्दन’ इति शब्दः
[[२२१]]

समुद्रे विद्यमानाः “जन” इत्याख्याः ये असुराः, तान् अर्दयति सः जनार्दनः ।
भक्तद्वेषिणः दुष्टजनान् अर्दयति सः जनार्दनः । भक्तविद्वेषिणाम् तूर्णम् अर्दनाद् हि जनार्दनः —‌ इति उक्तिः ।

सर्वान् जनान् शीत-उष्ण-सुख-दुःख-सम्पद्-विपदादिद्वन्द्वैः अर्दयति सः जनार्दनः ।

हररूपेण संहारकत्वात् सर्वान् अपि जनान् अर्दयति सः जनार्दनः ।

दुर्जनान् अर्दयति सः जनार्दनः ।

जन = जन्म । जन्म अर्दयति (मुक्तिं प्रददाति) सः जनार्दनः ।
जनीँ प्रादुर्भावे इति धातोः भावे घञ्-प्रत्यये कृते जननम् अस्मिन् अर्थे जन इति शब्दः सिद्ध्यति ।

“जन” इति उपपदस्य उपस्थितौ अर्द् (हिंसायाम्, चुरादिः) अस्मात् धातोः ३.१.१३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति सूत्रेण कर्त्रर्थे ल्यु-प्रत्ययः विधीयते ।

जन + अर्द् + णिच् + ल्यु → जनार्दन । जनम् अर्दयति (पीडयति, हिनस्ति, क्षोभयति, त्रासयति, नाशयति) सः जनार्दनः ।

अर्द् गतौ याचने च इति भ्वादिगणस्य धातोः आधारेण अपि व्युत्पत्तिः सम्भवति —
जनान् प्रति रक्षणार्थम् गच्छति (जनान् रक्षणार्थं प्राप्नोति, तेषां पालकत्वं स्वीकरोति) सः जनार्दनः ।
दुर्जनान् नरकं गमयति सः जनार्दनः ।
जनैः अर्द्यते (याच्यते) सः जनार्दनः । अत्र ३.३.११३ कृत्यल्युटो बहुलम् इति कर्मणि ल्युट् ।

जनीँ (प्रादुर्भावे, दिवादिः) तथा अर्दँ (हिंसायाम्, चुरादिः) इति द्वयोः धात्वोः अर्थम् एकत्रीकृत्य अपि व्युत्पत्तिः सम्भवति —

जनयति (उत्पादयति) सः जनः । जन्-धातोः ण्यन्तात् ३.१.१३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति अच् प्रत्ययः । ब्रह्मस्वरूपः ईश्वरः ।
अर्दयति (नाशयति) सः अर्दनः । अर्द्-धातोः ण्यन्तात् ३.१.१३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः इति ल्यु प्रत्ययः । शिवस्वरूपः ईश्वरः ।
जनश्च अर्दनश्च सः जनार्दनः । ब्रह्मरूपः, शिवरूपश्च इत्याशयः । सः एव निर्माति, पालयति, संहरति इति ।