द्वय

Source: TW

“द्वय” इति शब्दः

द्वौ अवयवौ अस्य (twofold / of two kinds) अस्मिन् अर्थे द्वि-शब्दात् ५.२.४२ संख्याया अवयवे तयप् इत्यनेन तयप्-प्रत्ययः, ततः ५.२.४३ द्वित्रिभ्यां तयस्यायज्वा इत्यनेन तस्य अयच् आदेशं कृत्वा द्वय इति शब्दः सिद्ध्यति ।

द्वि + तयप् → द्वि + अयच् → द्वय । द्वौ अवयवौ यस्य समूहस्य, तत् द्वयम् । एवमेव, त्रयः अवयवाः यस्य समूहस्य तत् त्रयम् ।

तयप्-प्रत्ययान्तशब्दाः प्रायेण षष्ठीतत्पुरुषसमासस्य उत्तरपदरूपेण प्रयुक्ताः दृश्यन्ते । यथा, फलद्वयम् = फलयोः द्वयम् = A group of 2 fruits. एवमेव, मुनित्रयम् = मुनीनां त्रयम् = A group of 3 sages.

तयप्-प्रत्ययान्तशब्दानां पार्थक्येन अपि विशेषणरूपेण प्रयोगः साधु एव । द्वित्वान्विते त्रिलिङ्गे इति वाचस्पत्यम् । यथा, द्वयं फलम् = द्वयोः फलयोः समूहः इत्याशयः ।+++(5)+++

द्वय-शब्दस्य स्त्रीत्वे विवक्षिते
४.१.१५ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः इति सूत्रेण ङीप्-प्रत्ययः, अतः द्वयी इति रूपम् ।+++(5)+++
यथा —‌ कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः मूर्ध्नि वा सर्वलोकस्य, विशीर्येत वनेऽथवा ।

“द्वय” इत्यस्य जसि सर्वनामसंज्ञा

तयप्-प्रत्ययान्ताः “द्वय”, “त्रय” इत्यादयः शब्दाः प्रथमाबहुवचनस्य रूपसिद्धौ
१.१.३३ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च
इति सूत्रेण विकल्पेन सर्वनामसंज्ञकाः भवन्ति ।

अयचः तयप्स्थानिकत्वात् जसि सर्वनामता‌ — इति वाचस्पत्यम् ।
अतः “द्वये मासाः / द्वयाः मासाः” इति उभयथा प्रयोगः साधु ।+++(5)+++
अतएव “न जातु द्वये अपि अमुच्यन्त विनीतमार्गाः” इति शिशुपालवधे ३.५७ इत्यत्र प्रयोगः ।
द्वये विनीतमार्गाः = द्विरूपाः विनीतमार्गाः —
(१) पङकविरहिताः मार्गाः, (२) सदाचारस्य मार्गाः ।

माघेन कृतः द्वयेषाम् इति प्रयोगः॥

द्वय-शब्दः केवलम् जस्-प्रत्यये परे एव सर्वनामसंज्ञकः भवति, आम्-प्रत्यये परे न ।
अतः द्वय-शब्दस्य षष्ठीबहुवचने द्वयानाम् इत्येव रूपं भवेत्, द्वयेषाम् इति न । इत्युक्ते, अयम् अपपाठः एव ।

दुर्घटवृत्तिः

१.१.३२ विभाषा जसि इत्यस्मात् विभाषा इति शब्दः १.१.३३ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च इत्यत्र अनुवर्त्यते, सः च व्यवस्थितविभाषारूपेण स्वीक्रियते ।

द्वयेषाम् इति शब्दः “द्वयेष्” इत्यस्य षकारान्तस्य षष्ठीबहुवचनरूपेण स्वीक्रियते ।

द्वयम् एषति (द्वैधं गच्छति) अस्मिन् अर्थे “द्वय” इति उपपदस्य उपस्थितौ इष्-धातोः कर्तरि क्विप्-प्रत्यये कृते “द्वय + इष् + क्विप् → द्वयेष्” इति शब्दः सिद्ध्यति । One that goes by (the name of) having two (types) - इत्यर्थः । कुत्रचित् इष् (इच्छायाम्) इत्यस्मात् अपि क्विप्-प्रत्ययः क्रियते । द्वयम् इच्छति -इति द्वयेष् । अतएव, — “व्यथां द्वयेषामपि मेदिनीभृतामिति माघे द्वयेषाम् इति असाधु, अन्ये तु द्वयं द्वित्वम् इच्छन्ति इष-क्विप्, तेषाम् इति समर्थ्यन्ते — इति वाचस्पत्यम् ।