Source: TW
‘द्वन्द्वम्’ इति शब्दः
[[२२७]]
रहस्यार्थे — तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् । …द्वौ द्वौ भूत्वा मन्त्रयेते; तत् रहस्यं भवति — इति सिद्धान्तकौमुद्याम् (८.१.१५) । रहस्ये वाच्ये मर्यादादिषु च विषयेषु द्विशब्दस्य द्विरुक्त्या द्वन्द्वशब्दो निपात्यते — इति प्रक्रियासर्वस्वम् । “द्वौ द्वौ” इति स्थिते पूर्वपदस्य अम्-भावः, समस्तपदस्य अकारादेशः, तथा च नपुंसकलिङ्गम् - सर्वमपि निपात्यते — इत्याशयः ।
कलहार्थे — विना हेतुमपि द्वन्द्वम्, एतन्मूर्खस्य लक्षणम् — इति हितोपदेशे । द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छाम्यहं प्रभो — इति महाभारते ।
मिथुनार्थे — मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु — इति रघुवंशे ।
युग्मार्थे (यथा शीतोष्णम्) — न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि — इति माघः ।
दुर्गः अस्मिन् अर्थे अपि द्वन्द्वशब्दः — राज्ञो बलं न हि बलं द्वन्द्वमेव बलं बलम् । अत्यल्पबलवान् राजा स्थिरो द्वन्द्वबलाद्भवेत् ।
द्वन्द्वं रहस्ये कलहे, तथा मिथुनयुग्मयोः — इति मेदिनीकोशः ।
द्वन्द्वं कलहयुग्मयोः — इति अमरकोशः ।
द्वन्द्वं युग्म-हिमोष्णादि मिथुनं कलहो रहः — इति वैजयन्तीकोशः ।
समासस्य भेदरूपेण प्रयुक्तः द्वन्द्वः इति शब्दः तु पुंलिङ्गः, न हि नपुंसकलिङ्गः ।