अभूततद्भावे भूतशब्दः
— यथा, शुक्लीभूतं वस्त्रम् । अशुक्लं वस्त्रम् शुक्लम् अभवत् इति आशयः । एवमेव, दासीभूतः देवदत्तः । अदासः दासः अभवत् इत्याशयः । अत्र च्वि-प्रत्ययस्य प्रयोगः कृतः अस्ति । ५.४.५० अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरि च्विः इति सूत्रम् । ७.४.३२ अस्य च्वौ इत्यनेन ईकारादेशः भवति ।
“प्राप्तिः” इत्यर्थे भूतशब्दः
— प्रमाणभूतः आचार्यः…. १.१.१ वृद्धिरादैच् इत्यत्र भाष्ये । प्रमाणभूतः इति । प्रामाण्यं प्राप्तः इत्यर्थः (इति कैयटः) । भाष्ये अयं शब्दः प्रयुक्तः अस्ति । चुरादिगणस्य भू (प्राप्तौ) धातोः क्त-प्रत्ययान्तरूपम् इदम् । आधृषाद्वा इति गणसूत्रेण अत्र णिच् विकल्प्यते ।
“सादृश्यम्” इत्यर्थे भूतशब्दः
—पितृभूतः अग्रजः । पितृतुल्यः / पितृसदृशः इत्याशयः । भाष्यकारेण पस्पशाह्निके “सामान्यभूतः” इति शब्दः प्रयुक्तः अस्ति । तत्र कैयटः स्पष्टी करोति — सामान्यम् इव सामान्यभूतम् । भूतशब्दः उपमार्थे, यथा पितृभूतः इति । परन्तु नागेशेन अयं पक्षः अस्वीकृतः वर्तते । तन्मतेन तु अत्रापि भूतशब्दः प्राप्तर्थे एव प्रयुक्तः अस्ति ।
अन्येष्वर्थेषु
अन्येषु अपि केषुचन अर्थेषु भूतशब्दः प्रयुज्यते । “भूतं सत्योपमानयोः प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ जन्तुयुक्तयोः” इति अनेकार्थसङ्ग्रहे हेमचन्द्रः ।