Source: TW
“अन्तर” इति शब्दस्य भिन्नाः अर्थाः
- अवकाशः = place / space
- अवधिः = duration
- परिधानम् = garment
- अन्तर्धिः = disappearance
- भेदः = difference
- तादर्थ्यम् = purpose
- छिद्रम् = lacuna
- आत्मीयः = related
- विना = without
- बहिः = outside
- अवसरः = closeness / meanwhile
- मध्ये = inside / between
- अन्तरात्मा = soul
- सादृश्यम् = similar
- भेदः (difference) — यदन्तरं सर्षपशैलराजयोः यदन्तरं वायसवैनतेययोः (रामायणे)
- छिद्रम् (lacuna) — प्रहरेदन्तरे रिपुम्
- आत्मीयाः (related) — अयमनत्यन्तरो मम (महाभारतम्)
- अवसरः (closeness / meanwhile) — अत्रान्तरे पर्वतराजपुत्र्या समं शिवः स्वैरविहारहेतोः (कुमारसम्भवम् ११.४)
- मध्यम् (inside / in between) — अनयोर्ग्रामयोरन्तरे तापसः प्रतिवसति (१.१.३६ अन्तरं बहिर्योगोपसंव्यानयोः इत्यत्र काशिका)
- सदृशः (similar) — हकारस्य घकारोऽन्तरतमः
- अवकाशम् (place) — लेभेऽन्तरं चेतसि नोपदेशः (रघुवंशे ६.६६)
- अन्तर्धानम् (disappearance) — पर्वतान्तरितो रविः
- तादर्थ्यम् (purpose) — त्वामन्तरेण ऋणं गृहीतम् ।
- विना (without) — हरे ! त्वदालोकनमन्तरेण (कृष्णकर्णामृतम्)
अन्तर-शब्दस्य सर्वनामसंज्ञा
१.१.२७ सर्वादीनि सर्वनामानि इत्यस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे अन्तरं बहिर्योगोपसंव्यानयोः इति गणसूत्रं पाठ्यते । अन्तर-शब्दस्य “बहिः” तथा “उपसंव्यानम् (परिधानम्)” एतयोः अर्थयोः सर्वनामसंज्ञा भवति — इति अस्य गणसूत्रस्य आशयः । यथा —
अन्तरस्मिन् गृहे भिक्षुकः निवसति ।+++(5)+++
अत्र बहिः अस्मिन् अर्थे अन्तरशब्दस्य प्रयोगः कृतः अस्ति ।
अन्तरेषाम् वस्त्राणाम् मूल्यम् अधिकम् ।+++(5)+++
अत्र परिधानार्थे अन्तरशब्दस्य प्रयोगः कृतः अस्ति ।
“अन्तर”शब्दस्य इत्थं प्राप्ता सर्वनामसंज्ञा प्रथमाबहुवचनस्य जस्-प्रत्यये परे
१.१.३६ अन्तरं बहिर्योगोपसंव्यानयोः
इति अष्टाध्यायीसूत्रेण विकल्प्यते ।
यथा, अन्तरे अन्तराः वा निवासाः ।
अन्तरे अन्तराः वा वस्त्रविशेषाः ।
कुत्रचित् अन्यत् इत्यस्मिन् अर्थे अपि “अन्तर”शब्दः प्रयुज्यते । यथा, अन्यः पाठः = पाठान्तरम् । अन्यत् कार्यम् = कार्यान्तरम् । उभयत्र २.१.७२ मयूरव्यंसकादयश्च इति समासः ।
अन्तर्
“अन्तर्” इति रेफान्तम् अव्ययम् “मध्ये” इत्यस्मिन् अर्थे प्रयुज्यते । सः अर्थः “अन्तर” इति अकारान्तशब्दस्य अपि अस्ति एव । यथा — आवयोः अन्तः अन्तरे वा पर्वतः जातः ।
अन्तरा, अन्तरे, अन्तरेण इति शब्दाः
२४२
अन्तर इति शब्दः भेदः, छिद्रम्, आत्मीयाः, मध्यः … इत्यादिषु पञ्चदशसु अर्थेषु प्रयुज्यते — इति २०६ तमे पाठे ।
यदन्तरं सर्षपशैलराजयोः यदन्तरं वायसवैनतेययोः — इति रामायणे ।
अन्तर् इति रेफान्तम् अव्ययम्,
मध्ये, अन्तर्भागे इत्यनयोः अर्थयोः प्रयुज्यते — इति २०४ तमे पाठे ।
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना — इति भागवते ।
अन्त इति अकारान्तपुंलिङ्ग/नपुंसकलिङ्गशब्दः ।
मरणम्, नाशः, चरमम्, सीमा, स्वरूपम्, समीपम् … आदिषु अर्थेषु प्रयुज्यते ।
अस्य प्रयोगः अवयवः अस्मिन् अर्थे अपि भवति — इति २०४ तमे पाठे ।
वैरस्यान्तं गमिष्यामि हत्वा वा दुःखभागहम् — इति रामायणे ।
अनेकान्ताः अनुबन्धाः — इति परिभाषेन्दुशेखरे ।
मृदुलतान्तलतान्तमलोकयत् स सुरभिं सुरभिं सुमनोभरैः —इति शिशुपालवधे ।
अधीतपूर्वम्
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरुषाय तुभ्यम्
अन्तरा, अन्तरे इति शब्दौ —
अन्तरे अन्तरा अन्तरेण च मध्ये स्युः — इति अमरकोशे ३.४.१०
मध्य अस्मिन् अर्थे प्रयुक्तात् अन्तर-शब्दात् टाप्-प्रत्यये कृते अन्तरा इति शब्दः सिद्ध्यति । अन्तरायां पुरि वसति इति उदाहरणम् १.१.३६ अन्तरं बहिर्योगोऽपसंव्यानयोः इत्यत्र काशिकायाम् ।
अन्तरे इति शब्दः तु विभक्तिप्रतिरूपकम् अव्ययम् । आवयोरन्तरे जाताः पर्वताः सरितः द्रुमाः — इति गणरत्नमहोदधौ ।
अव्ययसंज्ञकः अन्तराशब्दः — …अन्तरा पुनः विनार्थे सन्निधौ मध्ये… — इति हेमचन्द्रस्य एकार्थकोशः ।
विना अस्मिन् अर्थे — न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा — इति रामायणे
सन्निधिः / मध्ये अस्मिन् अर्थे — अन्तरा त्वां मां च हरिः — इति शिशुपालवधे १९.६५
अस्य संयोगे २.३.४ अन्तराऽन्तरेण युक्ते इति द्वितीया विधीयते ।
9 अन्तरा, अन्तरे, अन्तरेण इति शब्दाः २४२ भाषापाकः-3 | Neelesh Bodas | neelesh.bodas@gmail.com | https://ashtadhyayi.com/courses/bhaashaapaak3/ अन्तरेण इति अव्ययसंज्ञकः शब्दः — अन्तरे अन्तरा अन्तरेण च मध्ये स्युः — इति अमरकोशे ३.४.१० अन्तरेण वै योनिं गर्भः सञ्चरति — इति कौशीतकीब्राह्मणे । मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः — इति शिशुपालवधे । विना अस्मिन् अर्थे अपि अन्तरेण इति शब्दः प्रयुज्यते । अन्तरेण शब्दः तु तत् च (मध्यम् अस्मिन् अर्थे), विनार्थं च — २.३.४ अन्तराऽन्तरेण युक्ते इत्यत्र काशिका । अन्तरेण हरिं न सुखम् — इति सिद्धान्तकौमुदी । विनार्थे द्वितीयातृतीये पर्यायेण; “श्रीर्नेशेन विना शम्भुना अन्तरेण अच्युतं सुखम्” इति मुग्धबोधव्याकरणे — इति “अन्तरेण” इति शब्दस्य विषये वाचस्पत्यम् । पाणिनीयव्याकरणे तु द्वितीया एव उक्ता अस्ति ।