अदकस्-शब्दः
५.३.७१ अव्ययसर्वनाम्नामकच् प्राक् टेः
अनेन सूत्रेण सर्वनामशब्दानां विषये
अकच् इति कश्चन प्रत्ययः स्वार्थे प्रयुज्यते ।
अदस्-शब्दात् एतादृशे अकच्-प्रत्यये कृते अदकस् इति अन्यः सर्वनामशब्दः सिद्ध्यति ।
अस्य अपि प्रयोगः अदस्-शब्दस्य अर्थे एव भवति ।
अदकस् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ अदकऔ + ० [ ७.२.१०७ अदसः औ सुलोपश्च इति सूत्रेण अदकस्-शब्दस्य सकारस्य औकारादेशः भवति, तथा च सुँ-प्रत्ययस्य लोपः अपि विधीयते ]
→ असकऔ [ ७.२.१०६ तदो सः सावनन्त्ययोः इति दकारस्य सकारः]
→ असकौ [ ६.१.८८ वृद्धिरेचि इति वृद्ध्यैकादेश]
अदकस् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ असक + सुँ [ ७.२.१०७ अदसः औ सुलोपश्च इत्यत्र पाठितेन “औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च” इति वार्त्तिकेन सकारस्य औकारादेशः तथा सुँलोपः एते द्वे कार्ये विकल्पेन प्रतिषिध्येते । एतयोः कार्ययोः अनुपस्थितौ भिन्नैः सूत्रैः “अदकस्” इत्यस्य “असक” इति परिवर्तनं भवति ।]
→ असुक + सुँ [ औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च इत्यनेनैव वार्त्तिकेन सकारात् परस्य अकारस्य उकारादेशः अपि भवति ।]
→ असुकः [ सुँप्रत्ययस्य रुत्वम्, विसर्गः ]