Source: TW
आस्तिक, नास्तिक इति शब्दौ
२३५
“अस्ति” इति मतिः यस्य सः आस्तिकः । “नास्ति” इति मतिः यस्य सः नास्तिकः ।
४.४.६० अस्तिनास्तिदिष्टं मतिः इति सूत्रेण “अस्ति”, नास्ति” इति अव्ययसंज्ञकशब्दाभ्याम् “ठक्” प्रत्यये कृते एतौ शब्दौ सिद्ध्यतः । अस्ति + ठक् → आस्तिक । नास्ति + ठक् → नास्तिक ।
न च मतिसत्तामात्रे प्रत्ययः इष्यते । किं तर्हि ? परलोकः अस्ति इति यस्य मतिः सः आस्तिकः । तद्विपरीतः नास्तिकः — ४.४.६० इत्यत्र काशिका ।
अस्तिपरलोक इत्येवं मतिः यस्य स आस्तिकः — ४.४.६० इत्यत्र कौमुदी ।
अस्यैव तात्पर्यरूपेण “वेदाः (प्रमाणानि) सन्ति इति मतिः यस्य” तत् आस्तिकदर्शनम्, “वेदाः (प्रमाणानि) न सन्ति इति मतिः यस्य” तत् नास्तिकदर्शनम् — इति दर्शनानि द्विधा ।
एवमेव, “देवः अस्ति इति मतिः अस्य” सः आस्तिकः, “देवः नास्ति इति मतिः यस्य” सः नास्तिकः इत्यपि शिष्टैः स्वीकृतम् ।
जरत्कारुः इति कश्चन मुनिः स्वस्य पुत्रं गर्भस्थं ज्ञात्वा “अस्ति” इति उक्त्वा स्वपत्नीं त्यक्त्वा वनं गतवान्, अतः तस्य पुत्रस्य नाम “आस्तिक / आस्तीक” इति दत्तम् । (तत्र ६.३.१३७ अन्येषामपि दृश्यते इत्यनेन दीर्घः) ।