शिक्षा
शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्ययः । – शीक्षावल्ली , तैत्तिरीयोपनिषत् ।
The term शिक्षते has got two different roots and meanings .
शक्नोतेः
वार्तिकम् – शिक्षेर् जिज्ञासायाम् ( पा सू क्रीडो ऽनुसंपरिभ्यश्च 1-3-21 - आत्मनेपदप्रकरणम्)
भाष्यम् - शिक्षेः जिज्ञासायाम् उपसंख्यानं कर्तव्यम् । विद्यासु शिक्षते । धनुषि शिक्षते ।
विद्यासु शिक्षते = विद्या-विषयक-ज्ञान-फलक-शक्तीच्छा ।
वार्तिके शिक्षा ( ’इक्श्तिपौ धातुनिर्देशे’ ) इति – शक्लृ शक्तौ (स्वादिः) इत्यस्य सन्न्-अन्तः ( शक् + सन् - ’ सनि मीमा…’ इस्भावः - अभ्यासलोपः - स्कोः इति लोपे षत्वे इक्प्रत्यये “शिक्षेः” इति निर्देशः) ।
विध्य्-अर्थम् इदम् ।
केचन शिक्ष विद्योपादाने
इत्यस्य ग्रहणं नियमार्थं वर्णयन्ति ।
विधि-पक्षः ज्यायान् । ( “विधि-नियम-संभवे” — इति परिभाषा न अनुस्रियते ) ।
+++(नाम, शिक्ष विद्योपादाने
इति धातोर् उपदेश आत्मनेपदित्व-विधानायेति??)+++
कैयटः – क्रिया-विषयकश् च शकिः प्रयुज्यते - “भोक्तुं शक्नोति , शयितुं शक्नोति” इति प्रयोग-दर्शनात् ।
इह तु जिज्ञासाविषयः शकिः गृह्यते - विद्यां जिज्ञासितुं घटते इत्यर्त्थः ।
आत्मनेपदेनैव जिज्ञासायाः अवगमात् “जिज्ञासितुम्” इति न प्रयुज्यते ।+++(??)+++
नागेशः – ज्ञान-विशिष्टायाः शक्तेः इच्छा-विषयतया ज्ञानस्यापि तत्त्वानपायात् ।
इयांस् तु विशेषः - इच्छा सनर्थः , शक्तिः प्रकृत्यर्थः , तस्य ज्ञान-विषयत्वम् आत्मने-पद-द्योत्यम् इति ।
शक्नोत्येव यच्छिक्षति (तै.सं. 2.6.2.6) –
मन्त्रे शिक्षति इति परस्मैपदप्रयोगः छान्दसः - ’ व्यत्ययो बहुलम् ’ पा । रूपं तु ’शक्लृ शक्तौ’ इत्यस्मादेव ।
न तु ’ शिक्ष विद्योपादाने ’ इत्यस्मात् ।
शिक्षधातोः
शिक्षँ॒ विद्योपादा॒ने। (भ्वादिः - शिक्षते )
’ गुरोश्च हलः ’ पा 3-3-103 इति अ-प्रत्ययः । ’ स्त्रियाम् ’ पा 4-1-3 ’ अजाद्यतष्टाप् ’ 4-1-4 - सुबादि — शिक्षा ।
शिक्ष्यते स्थानादिकम् अनया । ’ कृत्यल्युटो बहुलम् ’ पा 3-3-113 इति बाहुलकात् करणे प्रत्ययः । To train someone in स्थान - प्रयत्न - स्वर of वर्णs and also offer विद्या ।
वेदे तु – शीक्षा – ’ व्यत्ययो बहुलम् ’ पा 3-1-85 इति दीर्घः ।