[[SENIOR SELECTIONS Source: EB]]
[
[TABLE]
All rights reserved by the Editors
First Impression 1936
Second Impression 1937
Printed by S. V. Parulekar, at the B. V. Press, Sandhurst Road, Bombay 4
and
Published by K. B. Dhawale, Shri Samarth Sadan, Girgaon, Bombay 4
PREFACE
In putting up the present book of Sanskrit Selections in Prose and Verse on the market we feel no apology is needed as we are not aware of any publication exactly similar to it. Under the new Matriculation Scheme which will come in force from June next, Sanskrit is one of the compulsory languages and the University has prescribed a Text-book from which questions carrying 50 marks will be set and the remaining 50 marks will be reserved for grammar and unseen passages. Under the circumstance we feel there is a necessity of a Companion Reader written on the lines of the University Text which will get the pupils of the sixth and seventh standards into the habit of handling material in Sanskrit akin to that in the University Text. It is feared there will be no continuity in teaching the subject effectively in the absence of a text written on the lines of the University syllabus in Sanskrit.
In the present book, every passage opens with an İntroduction giving information in brief regarding the author and a short summary leading on to the context of the passage. At the end of the passage are (1) Very brief Notes, (2) Questions on grammatical peculiarities and idioms, and (3) Study of Sanskrit Usage. These can be said to form the special features of the book. The content of the book covers a vast field of Sanskrit literature and presents a rich variety of material. We feel quite confident that a careful study of this book in the last two standards of secondary schoolswill efficiently fit up the candidate to face the Sanskrit paper
the Marticulation Examination.
We shall gladly welcome suggestions from teachers handling the subject and shall give them due considerations in the second edition if and when the occasion arises. In the meanwhile we hope the book will meet with warm reception both from the teachers and the taught.
[TABLE]
अनुक्रमणिका |
१ | रघुवंश-प्रस्तावनादिलीपवर्णनं च | २२ | अजविलापः |
२ | दमयन्तीस्वयंवरः | २३ | चित्रपट- दर्शनम् |
३ | कलिप्रतिज्ञा | २४ | यक्षसन्देशः |
४ | त्रयाणां मत्स्यानाम् | २५ | गरुड - प्रतिज्ञा |
५ | जरद्गवनाम्नो गृध्रस्य | २६ | हनूमान् सीतांसमाश्वासयति |
६ | पातिव्रत्य प्रभावः | २७ | शुकनासोपदेशः |
७ | सिंहपरिवर्धितस्य शृगालशिशोः | २८ | महेन्द्रः कामं गिरिजागिरिशयोर्घटने नियुनक्ति |
८ | कर्कोटकानुग्रहः | २९ | महाव्यसनसप्तकस्य गुणत्वापादनम् |
९ | शुकनासकृता स्वपुत्रनिन्दा | ३० | कुशसूनुरतिथिः |
१० | हनूमान् अशोकतलमिषण्णां सीतां पश्यति | ३१ | सेयं याति शकुन्तला पतिगृहम् |
११ | जाबालेराश्रमः | ३२ | चन्द्रापीडो महाश्वेतांसान्त्वयति |
१२ | काककूर्ममृगाखूणाम् | ३३ | सीता - परित्यागः |
१३ | सोमदेव कथितः कस्यचिद्बालकस्य वृत्तान्तः | ३४ | दुर्वासाः सरस्वतीं शपति |
१४ | आत्मघातिनां ब्राह्मणपुत्राणाम् | ३५ | कर्णाश्वत्थाम्नोः कलहः |
१५ | दारिद्र्यमनन्तकं दुःखम् | ३६ | पार्वती - परीक्षा |
१६ | राजधर्माः | ३७ | भार्गवो दाशरथिमाह्वयते |
१७ | वसुरक्षितः अनन्तवर्माणमुपदिशति | ३८ | सुरासुरसैन्यसंग्रामः |
१८ | द्रौपदी युधिष्ठिरमधिक्षिपति | ३९ | हर्षः आमयाविनं पितरं द्रष्टुं गच्छति |
१९ | युधिष्ठिरप्रतिवचनम् | ४० | उदयनः वासवदत्तां पश्यति |
२० | किरातार्जुनीयम् | ४१ | संकीर्ण-पद्यानि |
२१ | राक्षसः स्वप्राणसमर्पणेन चन्दनदासं मोचयति |
SENIOR SELECTIONS
IN
SANSKRIT PROSE AND VERSE
१ रघुवंश-प्रस्तावना दिलीपवर्णनं च
[This is a passage from the Raghu-vamśam the great masterly epic of Kalidāsa. Here wecan clearly see the truth of the saying— “उपमा कालिदासस्य”.Kalidāsa is, indeed, very happy in his similes which are always quite appropriate and elucidating.
After bowing to Pārvatīand Parameshwara, Kālidāsa humbly states how unfit he is to undertake the task of describing the race of Raghu and how he would make himself an object of ridicule, were it not for the splendid efforts of the wise men of old in that direction. Thus after paying due respects to the ancient writers he starts upon his venture by describing in a nut-shell the chief qualities common to all the kings of the Raghu-race, and requests all good-natured persons to listen to what he has to say. With this introduction he begins with Vaivaswata Manu and gives us a detailed description of King Dilipa-his stately form, his vast learning, his kingly qualities, his relation with the subjects etc. ]
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥१॥
क्वसूर्यप्रभवो वंशः क्व चाल्पविषया मतिः
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्॥२॥
मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम्
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः॥३॥
अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्व सूरिभिः
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः॥४॥
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम्
आसमुद्रक्षितीशानामानाकरथवर्त्मनाम्॥५॥
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम्
यथापराधदण्डानां यथाकालप्रबोधिनाम्॥६॥
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम्।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम्॥७॥
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्
बार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम्॥८॥
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्।
तद्गुणैः कर्णमागस्य चापलाय प्रचोदितः॥९॥
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः
हेम्नः संलक्ष्यते ह्यग्नौविशुद्धिः श्यामिकापि वा॥१०॥
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम्
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव॥११॥
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव॥१२॥
व्यूढोरको वृषस्कन्धः शालप्रांशुर्महाभुजः
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः॥१३॥
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः।
आगमैः सदृशारम्भः आरम्भसदृशोदयः॥१४॥
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम्
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः॥१५॥
रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम्।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेभिवृत्तयः॥१६॥
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः॥१७॥
ज्ञाने मौनं क्षमा शक्तौत्यागे श्लाघाविपर्ययः।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव॥१८॥
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना॥१९॥
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि।
स पिता पितरस्तासां केवलं जन्महेतवः॥२०॥
दुदोह गां स यज्ञाय सस्याय मघवा दिवम्।
सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम्॥२१॥
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम्।
त्यज्योदुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता॥२२॥
स वेलावप्रवलयां परिखीकृतसागराम्।
अनन्यशासनामुर्वीं शशासैकपुरीमिव॥२३॥
— रघुवंशे प्रथमः सर्गः।
EXERCISES
1 Name fully — संपृक्तौ। तितीर्षुः। समुत्कीर्णे। विजिगीषूणाम्। वक्ष्ये। सन्। शुद्धिमति। अधृष्यः। क्षुण्णात्। व्यतीयुः। अग्रहीत्। बभूव। पारदृश्वनः। दुदोह। दधतुः।
2 Decline जरा। गो। द्यो। मघवन्।
3 State in simple Sanskrit the meaning of — वागर्थप्रतिपत्तये। कवियशःप्रार्थी \। उद्वाहुः। तनुत्यजाम्। आत्मकर्मक्षमम्। नेमिवृत्तयः। श्लाघाविपर्ययः।
4 Note the uses of ― क्व— क्व। आ। हि। सद्दश।
5 Illustrate the uses of the Dative.
6 How are possessive adjectives formed from nouns?
NOTES
संपृक्तौ = नित्यसंबद्धौ। पितरौ = मातापितरौ, मातरपितरौ। तितीर्षु Desirous of crossing (i. e. I wish to cross ). उडुपं A small raft. उपहास्यतां गमिष्यामि( = उपहास्यो भविष्यामि ) I shall be ridiculed. उद्बाहुः (= उच्छ्रितबाहुः )वामनःA dwarfish person stretching out his hands. पूर्वसूरिभिः कृतवाग्द्वारेetc. In which an opening (a door) in the form of description in verse is already made (created) by learned writers of old days. आसमुद्रक्षितीशानाम् Who were the lords of the whole earth bounded by the oceans.of. चतुरुदधिमालामेखलाया भुवो भर्ता। नाकःHeaven. **यथा ( = अनतिक्रम्य )**In keeping with, according to. (when it stands at the beginning of
an अव्ययीभाव compound ). त्यागGiving away in charity ( = दान ).गृहमेधिनाम् ( = दारपरिग्रहाणाम्) Who took to married life, who got themselves married. मनीषिन् A wise man. महीक्षित् A king. प्रणव The syllable Om. छन्दस् Ved. व्यूढोरस्कःHaving broad chest.आत्मकर्मक्षमंदेहमाश्रितःKhsātra Dharma ( the duties of the warrior caste ) assuming as it were a body suitable for ( the discharge of ) his own duties. आरम्भ Action, deed. उदय Result.यादस् An acquatic animal.रेखामात्रमपि etc. His subjects did not deviate even a jot from the path trodden since the time of Manu. सहस्रगुणं Thousand-fold. रसWater. गुणा गुणानुबन्धित्वात् etc. The qualities (though opposed to one another) appeared like uterine brothers in as much as they stayed together in him. ( Such pairs of contradictory qualities were found to dwell in the king ) विनयाधानं Bringing up, education.जन्महेतवःOnly the cause of ( their ) birth; ( for all other parent’s duties were performed by the king himself). गां दुदोहMilked the earth i. e. levied taxes. दिवं दुदोह Milked the heaveni. e.
poured rain.
२ दमयन्तीस्वयंवरः
[This is a passage from the Nalopākhyānam in the MahāBhārata. In this passage we are told how Indra and other gods tried to puzzle Damayantī by assuming the form of Nala and how she on her part propitiated them and persuaded them to assume their genuine forms. The passage ends with a description of how Nala enjoyed life in the company of Damayanti after getting eight boons from the gods who were highly pleased.]
अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा।
आजुहाव महीपालान्भीमो राजा स्वयंवरे॥१॥
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः।
त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः॥२॥
कनकस्तम्भरुचिरं तोरणेन विराजितम्।
विविशुस्ते नृपा रङ्गं महासिंहा इवाचलम्॥३॥
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः।
सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः॥४॥
तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः।
आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः॥५॥
सुकेशान्तानि चारूणि सुनासाक्षिभ्रुवाणि च।
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि॥६॥
दमयन्ती ततो रङ्गं प्रविवेश शुभानना।
मुष्णती प्रभया राज्ञां चक्षूंषि च मनांसि च॥७॥
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्।
तत्र तत्रैवसक्ताभून्न चचाल च पश्यताम्॥८॥
ततः संकीर्त्यमानेषु राज्ञां नामसु भारत।
ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनथ॥९॥
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान्।
संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम्॥१०॥
यं यं हि ददृशे तेषां तं तं मेने नलं नृपम्।
सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भाविनी॥११॥
कथं हि देवाञ्जनीयां कथं विद्यां नलं नृपम्।
एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता॥१२॥
श्रुतानि देवलिङ्गानि तर्कयामास भारत।
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे।
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये॥१३॥
सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः।
शरणं प्रति देवानां प्राप्तकालममन्यत॥१४॥
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा।
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्॥१५॥
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः।
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे॥१६॥
वचसा मनसा चैव यथा नाभिचराम्यहम्।
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे॥१७॥
यथा देवैः स मे भर्ता विहितो निषधाधिपः।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे॥१८॥
यथेदं व्रतमारब्धं नलस्याराधने मया।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे॥१९॥
स्वं चैव रूपं कुर्वन्तु लोकपाला महेश्वराः।
यथाहमभिजानीयां पुण्यश्लोकं नराधिपम्॥२०॥
निशम्य दमयन्त्यास्तत्करुणं परिदेवितम्।
यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे॥२१॥
सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान्।
हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम्॥२२॥
छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः।
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः॥२३॥
सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत।
नैषधं वरयामास भैमी धर्मेण पाण्डव॥२४॥
विलज्जमाना वस्त्रान्ते जग्राहायतलोचना।
स्कन्धदेशेऽसृजत्तस्य स्रजं परमशोभनाम्॥२५॥
वरयामास चैवैनं पतित्वे वरवर्णिनी॥२६॥
ततो हा हेति सहसा मुक्तः शब्दो नराधिपैः।
देवैर्महर्षिभिस्तत्र साधु साध्विति भारत।
विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्॥२७॥
दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः।
आश्वासयद्वरारोहां प्रहृष्टेनान्तरात्मना॥२८॥
यत्त्वं भजसि कल्याणि पुमांसं देवसंनिधौ।
तस्मान्मां विद्धि भर्तारमेवं ते वचने रतम्॥२९॥
यावच्च मे धरिष्यन्ति प्राणा देहे शुचिस्मिते।
तावत्त्वयि भविष्यामि सत्यमेतद्ब्रवीमि ते॥३०॥
दमयन्तीं तथा वाग्भिरभिनन्द्य कृताञ्जलिः।
तौ परस्परतः प्रीतौ दृष्ट्वात्वग्निपुरोगमान्।
तानेव शरणं देवाञ्जग्मतुर्मनसा तदा॥३१॥
वृते तु नैषधे भैम्या लोकपाला महौजसः।
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः॥३२॥
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्।
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः॥३३॥
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः।
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः॥३४॥
यमस्त्त्वन्नरसंप्रादाद्धर्मे च परमां स्थितिम्।
अपांपतिरपां भावं यत्र वाञ्छति नैषधः॥३५॥
स्रजश्चोत्तमगन्धाढ्याः सर्वे च मिथुनं ददुः।
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः॥३६॥
पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः।
दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतम्॥३७॥
गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः।
विवाहं कारयामास दमयन्त्या नलस्य च॥३८॥
उष्य तत्र यथाकामं नैषधो द्विपदां वरः।
भीमेन समनुज्ञातो जगाम नगरं स्वकम्॥३९॥
अतीव मुदितो राजा भ्राजमानोंऽशुमानिव।
अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन्॥४०॥
ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः।
अन्यैश्च बहुभिर्धीमान्क्रतुभिश्चाप्तदक्षिणैः॥४१॥
पुनश्च रमणीयेषु वनेषूपवनेषु च।
दमयन्त्या सह नलो विजहारामरोपमः॥४२॥
जनयामास च नलो दमयन्त्यां महामनाः।
इन्द्रसेनं सुतं चापि इन्द्रसेनां च कन्यकाम्॥४३॥
एवं स यजमानश्च विहरंश्चनराधिपः।
ररक्ष वसुसंपूर्ण वसुधां वसुधाधिपः॥४४॥
— महाभारते नलोपाख्यानम्।
EXERCISES
1 Name fully — आजुहाव। अभीप्सवः। आसीनाः। पीनाः। दिवि। तर्कयामास। विद्याम्। विहितः। चक्रिरे। ईरितः। आश्वासयत्। प्रादात्। उष्य।ईजे। मेने। म्लान। प्रतिजग्मुः।
2 Dissalve and name — महीपालान्। हृच्छयपीडिताः। कनकस्तम्भरुचिरम्। महासिंहः। परिधोपमाः। पञ्चशीर्षाः। तुल्याकृतीन्। निषधाधिपः। अस्वेदान्। छायाद्वितीयः। अग्निपुरोगमान्। पार्थिवेन्द्रेषु।
- Use in sentences the following expressions or words—प्राप्तकाल। प्राञ्जलि। यथा… तेन सत्येन। व्रतं आरभ्। यथा। पतित्वे वृ। शब्दं मुच्। यत्—तस्मात्। यावत्… तावत्। यज।
4 Decline — पञ्चन्। अष्टन्। पुंस्।
5 Are there any grammatical irregularities in this passage ? How will you correct them?
NOTES
** ** आजुहाव = आह्वयत्। हृच्छयः = मदनः। पृथिवीक्षितः= महीक्षितः। सुरभिस्रग्धराःWearing fragrant garlands. प्रमृष्ट Polished, bright.परिधोपमाःResembling & club. सुश्लक्ष्णाःVery smooth पञ्चशीर्षा इवोरगाः Like serpents with five hoods. मुष्णती captivating. तुल्याकृतीन् = निर्विशेषाकृतीन् *i. e.*Having similar forms. देवलिङ्गानि The characteristic marks of the gods. See st. 22, 23. प्राप्तकालममन्यत She thought it proper for the occasion, she thought it was time for etc. नमस्कारं प्रयुज्य = नमस्कृत्य ( मनसा वाचा व )। प्राञ्जलिः Folding her hands in a bow. (This refers to the physical action of bowing ). यथा… तेन सत्येन If it is a fact that etc. प्रदिशन्तु = दर्शयन्तु, यच्छन्तु। अभि + चर्To be disloyal or false.आराधने = आराधनाय। कुर्वन्तु = धारयन्तु or आविष्कुर्वन्तु। यथोक्तं चक्रिरे देवाःetc. Gods revealed their power to assume their characteristics as she had requested. ( i. e. they resumed their genuine forms and thus granted her request ). यत्… तस्मात् Since… therefore. प्राणा
धरिष्यन्ति । shall live,। am alive. त्वयि भविष्यामि। shall be true to you. अग्निपुरोगमान् =अग्निप्रमुखान्। मिथुनं A pair ( of boons ). उष्य = उदित्वा। यजमानःPerforming sacrifices.
३ कलि–प्रतिज्ञा
[ This passage is also from Nalopākhyānam. Here we are told how Kali determines to harass the newly married couple.।t।s very।nteresting also to note the contrast between the behaviour of the gods।n the last passage and that of Kali।n this ].
वृते तु नैषधे भैम्या लोकपाला महौजसः।
यान्तो ददृशुरायान्तं द्वापरं कलिना सह॥१॥
अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा।
द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि॥२॥
ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम्।
गत्वा हि वरयिष्ये तां मनो हि मम तां गतम्॥३॥
तमब्रवीत्प्रहस्येन्द्रो निवृत्तः स स्वयंवरः।
वृतस्तथानलो राजा पतिरस्मत्समीपतः॥४॥
एवमुक्तस्तु शक्रेण कलिः क्रोधसमन्वितः।
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा॥५॥
देवानां मानुषं मध्ये यत्सा पतिमविन्दत।
तत्र तस्या भवेन्न्याय्यं विपुलं दण्डधारणम्॥६॥
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः।
अस्माभिः समनुज्ञाते दमयन्त्या नलोवृतः॥७॥
का च सर्वगुणोपेतं नाश्रयेत नलं नृपम्।
यो वेद धर्मानखिलान्यथावच्चरितव्रतः॥८॥
योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान्।
नित्यं तृप्ता गृहे यस्य देवा यज्ञेषु धर्मतः॥९॥
यस्मिन्दाक्ष्यं धृतिर्दानं तपः शौचं दमः शमः।
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे॥१०॥
एवंरूपं नलं यो वै कामयेच्छपितुं कले।
आत्मानं स शपेन्मूढो हन्यादात्मानमात्मना॥११॥
एवंगुणं नलं यो वै कामयेच्छपितुं कले।
कुछ्रे स नरके मज्जेदगाधे विपुले ह्रदे॥१२॥
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत्।
संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर॥१३॥
भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते।
त्ममप्यक्षान्समाविश्य साहाय्यं कर्तुमर्हसि॥१४॥
— महाभारते नलोपाख्यानम्।
EXERCISES
1 Note the uses of ― सहाय। मनो हि मम तां गतम्। मध्ये \। न्याय्य। उत् + सहु। भ्रंश् Causal । अर्ह। आत्मन् ( ieflexive pronoun )।
2 Name fully — ददृशुः। आमन्त्र्य। प्रत्यूचुः। वेद। चतुरः। पञ्चम। मज्जेत्वत्स्यामि। रंस्यते।
3 Dissolve and name the compounds — बलवृत्रहा। सर्वगुणोपेतम्। पुरुषव्याघ्रे। लोकपालसमे।
4 Decline वृत्रहन्। पति।
5 Write a note on the formation of the causal base.
NOTES
यान्तः While going, on their way. सहायःA companion. मनो हि ममetc. I feel attracted towards her, I am enamoured of her beauty.अविन्दत i. e. अवृणोत्। न्याय्यं भवेत् It would be quite proper.
४ त्रयाणां मत्स्यानाम्।
[This is a passage from Panchatantram. It contains the fable of ‘Three Fishes’ two of whom save themselves while the third one has to die. ]
कस्मिंश्चिज्जलाशयेऽनागतविधाता प्रत्युत्पन्नमतिर्यद्भविष्यश्चेति त्रयो मत्स्याः सन्ति। अथ कदाचित्तं जलाशयं दृष्ट्वागच्छद्भिर्मत्स्यजीविभिरुक्तं यदहो
बहुमत्स्योऽयं ह्रदः कदाचिदपि नास्माभिरन्वेषितः। तदद्याहारवृत्तिः संजाता। संध्यासमयश्च संवृत्तस्ततः प्रभातेऽत्रागन्तव्यमिति निश्चयः। अतस्तेषां तत्कुलिशपातोपमं वचः समाकर्ण्यानागतविधाता सर्वान्मत्स्यानाहूयेदमूचे। अहो श्रुतं भवद्भिर्यन्मत्स्यजीविभिरहितम्। तद्रात्रावपि गम्यतां किञ्चिन्निकटं सरः। उक्तं च—
अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम्।
संश्रितव्योऽथवा दुर्गोनान्या तेषां गतिर्भवेत्॥१॥
तन्नूनं प्रभातसमये मत्स्यजीविनोऽत्र समागम्य मत्स्यसंक्षयं करिष्यन्ति। तन्न युक्तं सांप्रतं क्षणमप्यत्रावस्थातुम्। तदाकर्ण्य प्रत्युत्पन्नमतिः प्राह। अहो सत्यमभिहितं भवता। ममाप्यभीष्टमेतत्। तदन्यत्र गम्यतामिति। उक्तं च।
यस्यास्ति सर्वत्र गतिः स कस्मात्स्वदेशरागेण हि याति नाशम्।
तातस्य कूपोऽयमिति ब्रुवाणाःक्षारं जलं कापुरुषाः पिबन्ति॥२॥
अथ तत्समाकर्ण्य प्रोच्चैर्विहस्य यद्भविष्यः प्रोवाच। अहो न भवद्भ्यां मन्त्रितं सम्यगेदिति। यतः किं वाङ्मात्रेणापि तेषां पितृपैतामहिकमेतत्सरस्त्यक्तुं युज्यते। तद्यद्यायुःक्षयोऽस्ति तदन्यत्र गतानामपि मृत्युर्भविष्यत्येव। उक्तं च।
अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति।
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति॥३॥
तदहं न यास्यामि। भवद्भ्यां च यत्प्रतिभाति तत्कार्यम्। अथ तस्य तं निश्चयं ज्ञात्वानागतविधाता प्रत्युत्पन्नमतिश्च निष्क्रान्तौ सह परिजनेन। अथ प्रभाते तैर्मत्स्यजीविभिर्जालैस्तज्जलाशयमालोड्य यद्भविष्येण सह जलाशयो निर्मत्स्यतां नीतः। अतोऽहं ब्रवीमि।
अनागतविधाता च प्रत्युत्पन्नमतिस्तथा।
द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति॥४॥
- पञ्चतन्त्रे मित्रभेदः।
EXERCISES
1 Dissolve and name the compounds : — बहुमत्स्यः। कुलिशपातोपमम्। अरक्षितम्। सुरक्षितम्।
2 Use in sentences – आगन्तव्यम्। नूनम्। न युक्तम्। अभीष्टम्। वाङ्मात्रेण। यदि… तद्। मृत्युः भू। प्रति + भा। निर्मत्स्यतां नी। युज्
3 Note the peculiar construction in तैः स जलाशयो निर्मत्स्यतां नीतः ( = निर्मस्यः कृतः )
NOTES
रात्रावपि This very night. यस्यास्ति सर्वत्र गतिः who can go anywhere. कस्मात् Why. कापुरुष A coward. पितृपैतामहिक Ancestral यद्यायुः-क्षयोऽस्ति If our life is to end e. i. if we are destined to die तिष्ठति = जीवति। कृतप्रयत्नःFor whom efforts are made, who is much cared for.
५ जरद्गवनाम्नो गृध्रस्य।
[This passage is from Hitopadesha, a work similar to Panchatantra in almost all respects. This passage tells us of an old vulture who was deceived by a cat.]
अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान्पर्कटीवृक्षः। तस्य कोटरे दैवदुर्विपाकाद्गलितनखनयनो जरद्गवनामा गृध्रःप्रतिवसति। अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात्किञ्चिदुद्धृत्य ददति। तेनासौ जीवति। अथ कदाचिद्दीर्घकर्णनामा मार्जारः पक्षिशावकान्भक्षयितुं तत्रागतः। ततस्तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्तैः कोलाहलः कृतः। तच्छ्रुत्वा जरद्गवेनोक्तं कोऽयमायाति। दीर्घकर्णो गृध्रमवलोक्य सभयमाह। हा हतोऽस्मि। यतः।
तावद्भयात्तु भेतव्यं यावद्भयमनागतम्।
आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम्॥१॥
अधुनास्य सन्निधाने पलायितुमक्षमः। तद्यथा भवितव्यं तद्भवतु। तावद्विश्वासमुत्पाद्यास्य समीपमुपगच्छामि। इत्यालोच्योपसृत्याब्रवीत्। आर्य त्वामभिवन्दे। गृध्रोऽवदत् कस्त्वम्। सोऽवदत् मार्जारोऽहम्। गृध्रोब्रूते दूरमपसर। नो चेद्धन्तव्योऽसि मया। मार्जारोऽवदत्। श्रूयतां तावदस्मद्वचनम्। ततो यद्यहं वध्यस्तदा हन्तव्यः। यतः।
जातिमात्रेण किं कश्चिद्धन्यते पूज्यते क्वचित्।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत्॥२॥
गृध्रोब्रूते ब्रूहि किमर्थमागतोऽसि। सोऽवदत्। अहमत्र गङ्गातीरे नित्यस्नायी ब्रह्मचारी चान्द्रायणव्रतमाचरांस्तिष्ठामि। यूयं धर्मज्ञानरता विश्वासभूमय इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति। अतो भवद्भ्यो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुमिहागतः। भवन्तश्चैतादृशा धर्मज्ञा यन्मामतिथिं हन्तुमुद्यताः। गृध्रोऽवदत्। मार्जारो हि मांसरुचिः। पक्षिशावकाश्चात्र निवसन्ति। तेनाहमेवं ब्रवीमि। तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति। ब्रूते च। मया धर्मशास्त्रं श्रुत्वा वीतरागेणेदं दुष्करं व्रतं चान्द्रायणमध्यवसितम्। परस्परं विवदमानानामपि धर्मशास्त्राणामहिंसा परमो धर्म इत्यत्रैकमत्यम्। इत्येवं विश्वास्य स मार्जारस्तरुकोटरे स्थितः।
ततो दिनेषु गच्छत्सु पक्षिशावकानाक्रम्य कोटरमानीय प्रत्यहं खादति। अथ येषामपत्यानि खादितानि तैः शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा। तत्परिज्ञाय मार्जारः कोटरान्निःसृत्य बहिः पलायितः। पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शावकास्थीनि प्राप्तानि। अनन्तरं त ऊचुः। अनेनैव जरद्गवेनास्माकं शावका खादिताः। इति सर्वैः पक्षिभिर्निश्चित्य गृध्रो व्यापादितः। अतोऽहं ब्रवीमि।
अज्ञातकुलशीलस्य वासो देयो न कस्यचित्।
मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः॥३॥
— हितोपदेशे मित्रलाभः।
EXERCISES
1 Use in sentences - उद्धृत्य। अथ कदाचित्। अक्षमः। विश्वासं उत्पत्Causal.। तावत्। विश्वासभूमिः। अग्रे। मांसरुचिः। परस्परम्। दिनेषु गच्छत्सु।
2 Dissolve and name the compounds - गलितनखनयनः। वृक्षवासिनः। विद्यावयोवृद्धेभ्यः। अज्ञातकुलशीलस्य। प्रत्यहम् I
3 Name fully - उद्धृत्य। आयान्तम्। उत्पाद्य। हन्तव्यः। वध्यः। एतादृशाः। विवदमानानाम्। विश्वास्य। जिज्ञासा। व्यापादितः।
4 Decline - महत्। अहन्। अस्थि।
5 Note दीर्घकर्णनामा मार्जारः = दीर्घकर्णो नाम मार्जारः। Note the usesof नामन् at the end of & compound and नाम (ind.).
NOTES
उद्धृत्य Having taken out, sparing. विश्वासमुत्पाद्य (= विश्वास्य) Cresting confidence in him ( for me). व्यवहार Behaviour, character.एतादृश So much. चान्द्रायणं A vow in which the daily quantity of food, which consists of fifteen mouthfuls at the full moon, is diminished by one mouthful every day during the dark fortnight and increased in like manner during the bright fortnight. जिज्ञासा. Enquiry, search.
६ पातिव्रत्य–प्रभावः
[Maha-Bhārata, the greatest epic poem in Sanskrit, abounds in beautiful tales and episodes. Nalopākhyānam is one of these and has a strong hold on the minds of its readers. The story is told in a very simple language so that it is easily understood. We find here and there a few grammatical irregularities which, however, are due perhaps to the great antiquity of some parts of the great epic.
Damayanti, gets up from sleep and finds herself alone in the forest; but she could never-not even for a moment-imagine that Nala had left her. After some time, however, the whole truth dawnsupon her and she mourns not so much for her own sake as for the sake of her husband. While in this miserable condition she is swallowed by a boubut is delivered from him by a hunter who happened to be there at that time. But she finds that the hunter is enamoured of her beauty and suspecting his evil intention burns him on the strength of her chastity. ]
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा।
अबुध्यत वरारोहा संत्रस्ता विजने वने॥१॥
अपश्यमाना भर्तारं शोकदुःखसमन्विता।
प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम्॥२॥
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम्।
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने॥३॥
ननु नाम महाराज धर्मज्ञः सत्यवागसि।
कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य मां गतः॥४॥
कथमुत्सृज्य गन्तासि दक्षां भार्यामनुव्रताम्।
विशेषतोऽनपकृते परेणापकृते सति॥५॥
शक्यसे ता गिराः सम्यक्कर्तुं मयि नरेश्वर।
यास्तेषां लोकपालानां संनिधौ कथिताः पुरा॥६॥
नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ।
यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति॥७॥
पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ।
भीताहमतिदुर्धर्षदर्शयात्मानमीश्वर॥८॥
दृश्यसे दृश्यसे राजन्नेष दृष्टोऽसि नैषध।
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे॥९॥
नृशंसं बत राजेन्द्र यन्मामेवङ्गतामिह।
विलपन्तीं समागम्य नाश्वासयसि पार्थिव॥१०॥
न शोचाम्यहमात्मानं न चान्यदपि किञ्चन।
कथं नु भवितास्येक इति स्वां नृप शोचिमि॥११॥
कथं नुं राजंस्तृषितः क्षुधितः श्रमकर्षितः।
सायाह्नेवृक्षमूलेषु मामपश्यन्भविष्यसि॥१२॥
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना।
इतश्चेतश्च रुदती पर्यधावत दुःखिता॥१३॥
मुहुरुत्पतते बाला मुहुः पतति विह्वला।
मुहुरालीयते भीता मुहुः क्रोशति रोदिति॥१४॥
अतीव शोकसंतप्ता मुहुर्निःश्वस्य दुःखिता।
उवाच भैमी निःश्वस्य रुदत्यथ पतिव्रता॥१५॥
यस्याभिशापाद्दुःखार्तोदुःखं विन्दति नैषधः।
तस्य भूतस्य नो दुःखाद्दुःखमभ्यधिकं भवेत्॥१६॥
अपापचेतसं पापो य एवं कृतवान्नलम्।
तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम्॥१७॥
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः।
हा हा राजन्निति मुहुरितश्चेतश्च धावति॥१८॥
तां क्रन्दमानामत्यर्थं कुररीमिव वाशतीम्।
करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः॥१९॥
सहसाभ्यागतां भैमीमभ्यासपरिवर्तिनीम्।
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः॥२०॥
सा ग्रस्यमाना ग्राहेण शोकेन च परिप्लुता।
नात्मानं शोचति तथा यथा शोचति नैषधम्॥२१॥
हा नाथ मामिह वने ग्रस्यमानामनाथवत्।
ग्राहेणानेन विजने किमर्थं नानुधावसि॥२२॥
कथं भविष्यसि पुनर्मामनुस्मृस्य नैषध।
शापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च॥२३॥
श्रान्तस्य ते क्षुधार्तस्य परिम्लानस्य नैषध।
कः श्रमं राजशार्दूल नाशयिष्यति तेऽनघ॥२४॥
ततः कश्चिन्मृगव्याधो विचरन्गहने वने।
आक्रन्दमानां संश्रुत्य जवेनाभिससार ह॥२५॥
मुखतः पाटयामास शस्त्रेण निशितेन च।
निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः॥२६॥
मोक्षयित्वा स तां व्याधः प्रक्षाल्य सलिलेन च।
समाश्वास्य कृताहारामथ पप्रच्छ भारत॥२७॥
कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम्।
कथं वेदं महत्कृच्छ्रं प्राप्तवत्यसि भाविनि॥२८॥
दमयन्ती तथानेन पृच्छ्यमाना विशांपते।
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत॥२९॥
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम्।
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम्॥३०॥
अरालपक्ष्मनयनां तथा मधुरभाषिणीम्।
लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान्॥३१॥
तामेवं श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया।
सान्त्वयामास कामार्तस्तदबुध्यत भाविनी॥३२॥
दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता।
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना॥३३॥
स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः।
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव॥३४॥
दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता।
अतीतवाक्पथे काले शशापैनं रुषान्विता॥३५॥
यथाहं नैषधादन्यं मनसापि न चिन्तये।
तथायं पततां क्षुद्रः परासुर्मृगजीवनः॥३६॥
उक्तमात्रे तु वचने तथा स मृगजीवनः।
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः॥३७॥
—महाभारते नलोपाख्यानम्।
EXERCISES
1 Dissolve and name the compounds:- विजनम्। धर्मज्ञः। महाराजः। अपापचेताः। असुखजीविका। अभ्यासपरिवर्तिनी। महाकायः। क्षुधान्वितः। अनघः। उरगः। आयतेक्षणा। भुजङ्गः। मृगशावाक्षी। यथावृत्तम्। अर्धवस्त्रसंवीता। परासुः। व्यसुः।
2 Name fully - अपश्यमाना। उत्सृष्टा। आचार्य। आश्वासयसि। भवितासि। उत्पतते। शोचिमि। अन्वेषमाणा। वाशतीम्। ग्रस्यमाना। परिम्लानस्य। नाशयिष्यति। पाटयामास। निशितेन। ईयिवान्। उपलभ्य।
3 Note the uses of – संनिधौ।दृश् Causal. । अधिक। यथा-तथा। आ + चक्ष्।
4 Study the formation of the Perfect forms in this passage. What are the two kinds of Perfect? How do you get the forms of the Perfect?
5 Note the following usages :-
(a) शक्यसे ता गिरः सम्यक्कर्तुं मयिनरेश्वर।
(b) किं मां न प्रतिभाषसे।
(c) कथं नु भवितास्येक इति त्वां नृप शोचिमि।
(d) (तां) लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान्।
(e) अतीतवाक्पथे काले।
(f) उक्तमात्रे तु वचने स व्यसुः पपात।
6 What grammatical irregularities do you notice in this passage? Try to substitute the correct forms there.
NOTES
अबुध्यत Woke up. संत्रस्ता Frightened. अपश्यमाना = अपश्यन्ती।विजन = निर्जन। अनुव्रता Devoted. विशेषतः etc.Especially when others have offended you and not I. शक्यसे etc.It is possible for you to keep your word. नाकाले विहितो etc.It is not given to mortals to die before their time ( else I would have gladly committed suicide). This is why your beloved (wife) lives even for a while after you have forsaken her. पर्याप्त Enough. परिहासJoke. शोचिमि = शोचामि। असुखजीविका A miserable life. मुखतः पाटयामास He tore his mouth open विशस्य = हत्वा। कामस्य वशमीयिवान्He was enamoured of her, he was overpowered by passion.( = कामार्तः अभवत् )। अबुध्यत She understood. प्र + धृष् To outrage the modesty of. अतीतवाक्पथे काले Only when words were of no avail,i. e. only as the last resort. व्यसुः पपात मेदिन्यां Fell dead on the ground.
७ सिंहपरिवर्धितस्य शृगालशिशोः
[This is an extract from Pancha-tantra. Acertain lion while hunting for food one day got a young fox. He brought him home and gave him to the lioness who fondly brought him up together with her two cubs. After a few days when they were old enough they saw an elephant. On seeing him the fox ran home while the other two cubs were about to spring on him. Coming home they told this to their father and laughed at the cowardice of their elder brother, as they called
him. At this the fox grew angry but the lioness then told him who be really was and advised him to run away which he did immediately.]
कस्मिंश्चिदुद्देशे सिंहदम्पती प्रतिवसतः स्म। अथ सिंही पुत्रद्वयमजजिनत्। सिंहोऽपि नित्यमेव मृगान्व्यापाद्य सिंह्यै ददाति। अथान्यस्मिन्नहनि तेन किमपि नासादितम्। येन भ्रमतोऽपि तस्य रविरस्तं गतः। अथ तेन स्वगृहमागच्छता शृगालशिशुः प्राप्तः। स च बालकोऽयमित्यवधार्य यत्नेन दंष्ट्रामध्यगतं कृत्वा सिंह्यै जीवन्तमेव समर्पितवान्। ततः सिंह्याभिहितम्। भो कान्त त्वयानीतं किञ्चिदस्माकं भोजनम्। सिंह आह। प्रिये मयाद्यैनं शृगालशिशुं परित्यज्य न किञ्चित्सत्वं समासादितम्। स च मया बालोऽयमिति मत्वा न व्यापादितो विशेषात्स्वजातीयश्च। उक्तं च—
स्त्रीविप्रलिङ्गबालेषु प्रहर्तव्यं न कर्हिचित्।
प्राणत्यागेऽपि संजाते विश्वस्तेषु विशेषतः॥१॥
इदानीं त्वमेनं भक्षयित्वा पथ्यंकुरु। प्रभातेऽन्यत्किञ्चिदुपार्जयिष्यामि। सा प्राह। भोः कान्त त्वया बालकोऽयमिति विचिन्त्य न हतः। तत्कथमेनमहं स्वोदरार्थे विनाशयामि। उक्तं च—
अकृत्यं नैव कर्तव्यं प्राणत्यागेऽपि संस्थिते।
न च कृत्यं परित्याज्यमेष धर्मः सनातनः॥२॥
तन्ममायं तृतीयः पुत्रो भविष्यति। इत्येवमुक्त्वा तमपि स्वस्तनक्षीरेण परां पुष्टिमनयत्। एवं ते त्रयोऽपि शिशवः परस्परमज्ञातजातिविशेषा एकाचारविचारा बाल्यसमयं निर्वाहयन्ति। अथ कदाचित्तत्र वने भ्रमन्नरण्यगजः समायातः। तं दृष्ट्वा तौ सिंहसुतौ द्वावपि कुपिताननौ तं प्रति प्रचलितौ यावत् तावत्तेन शृगालसुतेनाभिहितम्। अहो गजोऽयं युष्मत्कुलशत्रुः। तन्न गन्तव्यमेतस्याभिमुखम्। एवमुक्त्वा स्वगृहं प्रधावितः। तावपि ज्येष्ठबान्धवभङ्गान्निरुत्साहतां गतौ। अथवा साध्विदमुच्यते—
एकेनापि सुधीरेण सोत्साहेन रणं प्रति।
सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात्॥३॥
तथा च।
अत एव हि वाञ्छन्ति भूपा योधान्महाबलान्।
शूरान्वीरान्कृतोत्साहान्वर्जयन्ति च कातरान्॥४॥
अथ तौ द्वावपि गृहं प्राप्य पित्रोरग्रतो विहसन्तौ ज्येष्ठभ्रातृचेष्टितमूचतुः। यथा गजं दृष्ट्वा दूरतोऽपि नष्टः। सोऽपि तदाकर्ण्य कोपाविष्टमनाः प्रस्फुरिताधरपल्लवस्ताम्रलोचनस्त्रिशिखां भ्रुकुटिं कृत्वा तौ निर्भर्त्सयन्परुषतरवचनान्युवाच। ततः सिंह्यैकान्ते प्रबोधितोऽसौ। वत्स मैवं जल्प। भवदीयलघुभ्रातरावेतौ। अथासौ प्रभूतकोपाविष्टस्तामुवाच। किमहमेताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनो येन मामुपहसतः तन्मयावश्यमेतौ व्यापादनीया। तदाकर्ण्य सिंही तस्य जीवितमिच्छन्त्यन्तर्विहस्य प्राह। वत्स त्वं शृगालीसुतः कृपया मया स्वस्तनक्षीरेण पुष्टिं नीतः। तद्यावदेतौ मम पुत्रौ शिशुस्वात्त्वां शृगालं न जानीतः तावद्द्रुततरं गत्वा स्वजातीयानां मध्ये भव। नो चेदाभ्यां हतो मृत्युपथं समेष्यसि। सोऽपि तच्छ्रुत्वा भयव्याकुलमनाः स्वजात्या मिलितः।
— पञ्चतन्त्रे लब्धप्रणाशम्।
EXERCISES
1 Name and dissolve :- दम्पती। अरण्यगजः। अभिमुखम्। स्वोदरार्थे। युष्मत्कुलशत्रुः। महाबलः। पितरौ। त्रिशिखा। भयव्याकुलमनाः।
2 Note the following usages :-
(a) भ्रमतोऽपि तस्य रविरस्तं गतः।
(b) तं स्वस्तनक्षीरेण परां पुष्टिमनयत्।
(c) परस्परमज्ञातजातिविशेषास्ते बाल्यसमयं निर्वाहयन्ति।
(d) ज्येष्ठबान्धवभङ्गान्निरुत्साहतां गतौ।
(e) गजं दृष्ट्वा दूरतोऽपि नष्टः।
(f) त्रिशिखां भ्रूकुटिं कृत्वा …।
(g) तन्मयावश्यमेतौ व्यापादनीयौ।
(h) स्वजातीयानां मध्ये भव।
(i) एताभ्यां हतो मृत्युपथं समेष्यसि।
3 Note the uses of :- परित्यज्य। परस्परम्। यावत्… तावत्। यथा। येन। हीन। मध्ये। नो चेत्।
4 Name fully – अजीजनत्। अवधार्य। उपार्जयिष्यामि। निर्वाहयन्ति। ऊचतुः। प्रबोधितः। द्रुततरम्।
5 Decline — अहन्। दम्पती। स्त्री। अन्य। तृतीय। त्रि। द्वि।
6 How are ordinals formed ?
NOTES
दम्पती (m. du. ) A couple. जाया च पतिः च = दम्पती, जम्पती orजायापती। अन्यस्मिन्नहनि One day. भ्रमतोपि … गतःThe sun set even while he was wandering. यत्नेन Somehow. दंष्ट्रा मध्यगतं कृत्वा Holding in his teeth. विशेषात् Particularly. लिङ्गिन् =संन्यासिन्। प्राणत्यागेपि संस्थितेEven on point of death. कृत्य Duty, good action (opp. अकृत्य ).दूरतोपि विनष्टः = दूरतोपि पलायितः। त्रिशिखां भृकुटिं कृत्वा Knitting his brow, with a frown. प्रबोधितः Was advised. हीन Inferior. त्वां शृगालं न जानीतःThey do not recognise you to be a jackal .
८ कर्कोटकानुग्रहः।
[ This is an extract from Nalopākhyānam. Nala, while on his way into the deep forest after he had abandoned Damayanti, saw a wild fire and heard some one calling out for help. He at once hastened to the spot and there he saw the serpent Karkoṭaka whom he lifted up and saved from fire. The latter, however, bit the former and changed him into a very ugly man. He then also gave him & pair of garments and explained his seeming ingratitude which, for Nala, was in fact a blessing in disguise. ]
उत्सृज्य दमयन्तीं तु नलो राजा विशांपते।
ददर्श दावं दह्यन्तं महान्तं गहने वने॥१॥
तत्र शुश्राव शब्दं वै मध्ये भूतस्य कस्यचित्।
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत्॥२॥
मा भैरिति नलश्चोक्त्वा मध्यमग्नेःप्रविश्य तम्।
ददर्श नागराजानं शयानं कुण्डलीकृतम्॥३॥
स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा।
उवाच मां विद्धि राजन्नागं कर्कोटकं नृप॥४॥
मया प्रलब्धो देवर्षिर्नारदः स महातपाः।
तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप॥५॥
तिष्ठ त्वं स्थावर इव यावदेव नलः क्वचित्।
इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि मत्कृतात्॥६॥
तस्य शापान्न शक्तोऽस्मि पदाद्विचलितुं पदम्।
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान्॥७॥
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः।
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम्॥८॥
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः।
तं गृहीत्वा नलः प्रायाद्देशं दावविवर्जितम्॥९॥
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना।
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत्॥१०॥
पदानि गणयन्मच्छ स्वानि नषध कानिचित्।
तत्र तेऽहं महाबाहो श्रेयो धास्यामि यत्परम्॥११॥
ततः संख्यातुमारब्धमदशद्दशमे पदे।
तस्य दृष्टस्य तद्रूपं क्षिप्रमन्तरधीयत॥१२॥
स दृष्ट्वाविस्मितस्तस्थावात्मानं विकृतं नलः।
स्वरूपधारिणं नागं ददर्श च महीपतिः॥१३॥
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत्।
मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति॥१४॥
यत्कृते चासि निकृतो दुःखेन महता नल।
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति॥१५॥
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति।
तावत्त्वयि महाराज दुखं वै स निवत्स्यति॥१६॥
अनागा येन निकृतस्त्वमनर्होजनाधिप।
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता॥१७॥
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा।
ब्रह्मर्षिभ्यश्च भविता मत्प्रसादान्नराधिप॥१८॥
राजन्विषनिमित्ता च न ते पीडा भविष्यति।
संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि॥१९॥
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन्।
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम्॥२०॥
स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै।
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति॥२१॥
भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा।
समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः॥२२॥
स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप।
संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः॥२३॥
अनेन वाससा छन्नः स्वं रूपं प्रतिपत्स्यसे।
इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा॥२४॥
एवं नलं च संदिश्य वासो दत्त्वा च कौरव।
नागराजस्ततो राजंस्तत्रैवान्तरधीयत॥२५॥
— महाभारते नलोपाख्यानम्।
EXERCISES
1 Name fully ( pointing out the irregularities if any)—दह्यन्तम्। शुश्राव। (मा) भैः। ददर्श। शयानं। विद्धि। त्रातुम्। बभूव। अदशत्। अन्तरधीयत। निवत्स्यति। विमोक्ष्यति। असूययित्वा। वेद। दाता। ( मा ) कृथाः। इच्छेथाः। निवासयेः। प्रददौ।
2 Dissolve and name the compounds — विशाम्पतिः। पुण्यश्लोकः। नागराजः। प्राञ्जलिः। अङ्गुष्ठमात्रकः। उत्स्रष्टुकामः। महाराज। अनागाः। ब्रह्मर्षिः। पन्नगः। उपदेक्ष्यामि।
3 Note the uses of—अर्ह्। The present partciples.। यावत्… तावत्युज्। प्र+दा।
4 How do you form ’the adverbs of frequency’?
NOTES
असकृत् More than once, repeatedly. नागराजानं irregular forनागराजम्। प्राञ्जलिर्भूत्वा Bowing, folding his hands (in supplication ).विद्धि = विदाङ्कुरु। मन्युपरीतेन = कुपितेन। स्थावरः An immoveable object.क्वचित् = कदाचित्। One day, some day. पदाद्विचलितुं पदम्. To move even & step. त्रातुमर्हति मां भवान् Please save me. अङ्गुष्ठमात्रक Of the size of the thumb. कृष्णवर्त्मन् Fire. तस्य रूपमन्तरधीयत His form was changed, he was deformed. यत्कृते For whose sake, on whose account. शश्वत् Always.हृदय Skill. संस्मर्तव्यस्तदा तेऽहं Think of me then; you have only to think of me when etc. अन्तरधीयतDisappeared.
९ शुकनासकृता स्वपुत्रनिन्दा
[ This is an extract from Bāṇa’s Kādambarī.
Tārāpīda coming to know from Chandrāpīḍa of the renunciation of Vaishmpāyana, severely blames Chandrāpīda. Shukanāsa, on hearing this, says that if there was anyone to blame it was not Chandrāpīḍa but rather Vaishampāyana himself. ]
देव यदि चन्द्रमस्युष्मा दहने वा शीतलत्वमंशुमालिनि वा तमस्तमस्विन्यां वा दिवसो महोदन्वति वा शोषः क्षितेरधारणं वा शेषे परार्थानुद्यमो वा साधोरप्रियवचननिर्गमो वा सज्जनमुखात्संभाव्यते ततो युवराजेऽपि दोषः। तत्किमेवमेवानिरूप्य तस्यानात्मज्ञस्य मूढप्रकृतेर्दुर्जातस्य राजपथ्यकारिणो मातृपितृघातिनो मित्रद्रुहःकृतघ्नस्य कर्मचाण्डालस्य महापातकिनः कृते कृतयुगावतारयोग्यमात्मनोपि गुणवन्तमत्युदारचरितं चन्द्रापीडमेवं संभावयति देवः। नह्यतःपरं परं कष्टतरं किंचिदपि पीडाकारणं यद्गुणेषु वर्तमानो दोषेषु संभाव्यत इतरजनेनापि। किं पुनर्गुरुजनेन। यो गुणी गुणैरवावबोधनीयः। कस्यापरस्यात्मा गुणवाननेन ज्ञापनीयः। अपि च जन्मनः प्रभृति देवस्य विलासवत्या देव्याश्चाङ्कलालनया यो न गृहीतस्तस्य मरुत इव दुर्ग्रहप्रकृतेश्चन्द्रापीडोऽपि किं करोतु। स्वयमेवोत्पद्यन्त एवंविधाः शरीरसंभवा महाकृमयः सर्वदोषाश्रया महाव्याधयोऽन्तर्विषा महाव्याला विनाशहेतवो महोत्पाता भुजङ्गवृत्तयो महावाटिकावक्रचारिणो महाग्रहास्तमोमयाः प्रदोषा
मलिनात्मकाः कुलपांसवो निस्नेहाः खला निर्लज्जाः क्षपणका निःसंज्ञाः पशवः। येषां क्षुद्राणां प्रज्ञा पराभिसंधानाय न ज्ञानाय। श्रुतमालापाय नोपशमाय। पराक्रमः प्राणिनामुपघाताय नोपकारायोत्साहो धनार्जनाय न यशसे। स्थैर्यं व्यसनासङ्गाय न चिरसंगताय। धनपरित्यागः कामाय न धर्माय। किं बहुना सर्वमेव येषां दोषाय न गुणाय। तदसावपीदृश एव कोऽप्यपुण्यवानुत्पन्नो यस्यैवं कुर्वतो मित्रमहं चन्द्रापीडस्य कथं तस्य द्रोहमाचरामीति नोत्पन्नं चेतसि। एवं कृते चलितवृत्तानां शासितावश्यं तारापीडो देवः पीडितान्तरात्मा मयि कोपं करिष्यतीत्येवमपि नाशङ्कितं मनसा। मातुरहमेवैको जीवितनिबन्धनं कथं मया विना वर्तिष्यत इत्येतस्य नृशंसस्य हृदये नापतितम्। पिण्डप्रदो वंशसन्तानार्थमहमुत्पादितः पित्रा कथमहमननुज्ञातस्तेन सर्वपरित्यागं करोमीत्येतदपि यथाजातस्य न बुद्धौ संजातम्। सर्व एव ह्यनाक्षिप्तचेताः स्वहिताय परहिताय वा प्रवर्तते तस्य तु पुनरस्मानेवं दुःखे स्थापयतो न स्वहितं न परहितमपि। किमनेनैवमात्मद्रुहा कृतमिति मतिरेव तावन्न बोधपदवीमवतरति। सर्वथा दुःखायैवास्माकं तस्य पापकर्मणो ग्रहोपसृष्टस्य जन्म। इत्युक्त्वा हेमन्तकालोत्पलिनीमिवोद्वाष्पां दृष्टिमुदवहत्। उद्वेपिताधरश्चबहिरलब्धनिर्गमेण स्फुटन्निवान्तर्मन्युपूरेण निश्वसन्नेवावतस्थे।
— कादम्बरी
EXERCISES
1 Dissolve and name the compounds—
महोदन्वान्। युवराजः। मातृपितृघाती। शरीरसम्भवः। सर्वदोषाश्रयः। अन्तर्विषः।
2 Note the usages -
(a) यदि चन्द्रमस्युष्मा संभाव्यते ततो युवराजेऽपि दोषः।
(b) गुणेषु वर्तमानो दोषेषु सम्भाव्यत इतरजनेनापि।
(c) तस्य चन्द्रापीडोऽपि किं करोतु।
(d) नोत्पन्नं चेतसि। नाशङ्कितं मनसा। हृदये नापतितम्। बुद्धौ न संजातम्।
(e) मतिरेव तावद्बोधपदवीं नावतरति।
(f) सर्व एव हि अनाक्षिप्तचेताः स्वहिताय परहिताय वा प्रवर्तते।
3 Write a note on the Bahu-vrihi compound and its subvarieties.
4 Compare Bahuvrīhi with Karmadhāraya.
5 What do you know of Upapada compounds?
6 What is a Prādi compound?
NOTES
अंशुमालिन् The sun. तमस्विनी Night. उदन्वत् Ocean. क्षितेरधारणं(The serpent Shesha is supposed to hold the earth on his hood.)अनात्मज्ञ A fool. कृतघ्न Ungrateful. कृते ind. For the sake of. न ह्यतः परं…. जनेनापि Nothing is more painful than the fact that one should be accused of following the path of vice, though following in fact, the path of righteousness, even by an ordinary person.निर्लज्जाः क्षपणकाःThe shameless Jain monks. They are so called because they are naked i. e. दिगम्बराः। निःसंज्ञाः पशवःBeasts devoid of intellect. पराभिसन्धानDeceiving others. Talking, prattling.of. विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय। खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय। कुलपांसुA person of loose character, a bane to the family. यथाजातः A fool. नोत्पन्नं चेतसि Did not occur to him. मतिरेव न बोधपदवीमवतरति My intellect is unable to understand this. ग्रहोपसृष्टः(= आविष्टः )Possessed by an evil spirit.
१० हनूमान् अशोकतलनिषण्णां सीतां पश्यति।
[Rāmāyaṇa is the first classical poem written in Sanskrit. As the very name shows it the theme of the poem is the life of Rama who is supposed to be an incarnation of God Vishṇu. The style of this epic poem is also, almost like that of the Māhābhāraṭa, direct and simple.
Hanuman, wandering in search of Sitā, went to Lankā and saw her seated under a tree in the Ashoka grove. Recognising her full well he presented himself before her and asked her whether she was really the wife of Rāma. On this Sitā began her story and told Hanuman in short how and why Rāma had to take to forestlife and how she was brought there by the treacherous Rāvaṇa. She ends her story with the mention of the time allowed to her by Rāvaṇa, after which period she was to die.]
सोऽवतीर्य द्रुमात्तस्माद्द्रिद्रुमप्रतिमाननः।
विनीतवेषः कृपणः प्रणिपत्योपसृत्य च॥३॥
तामब्रवीन्महातेजा हनूमान्मारुतात्मजः।
शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा॥२॥
का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि।
द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिता॥३॥
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्।
पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्॥४॥
सुराणामसुराणां च नागगन्धर्वरक्षसाम्।
यक्षाणां किन्नराणां च का त्वं भवसि शोभने॥५॥
का त्वं भवसि रुद्राणां मरुतां वा वरानने।
वसुनां वा वरारोहे देवता प्रतिभासि मे॥६॥
किं नु चन्द्रमसा हीना पतिता विबुधालयात्।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणाधिका॥७॥
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे।
वसिष्ठं कोपयित्वा त्वं वासि कल्याण्यरुन्धती॥८॥
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे।
अस्माल्लोकादमुंलोकं गतं त्वमनुशोचसि॥९॥
व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये।
महिषी भूमिपालस्य राजकन्या च मे मता॥१०॥
रावणेन जनस्थानाद्बलात्प्रमथिता यदि।
सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः॥११॥
यथा हि तव वै दैन्यं रूपं चाप्रतिमानुषम्।
तपसा चान्वितोवेषस्त्वं राममहिषी ध्रुवम्॥१२॥
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता।
उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम्॥१३॥
पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः।
स्नुषा दशरथस्याहं शत्रुसैन्यप्रणाशिनः॥१४॥
दुहिता जनकस्याहं वैदेहस्य महात्मनः।
सीतेति नाम्ना चोक्ताहं भार्या रामस्य धीमतः॥१५॥
समा द्वादश तत्राहं राघवस्य निवेशने।
भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी॥१६॥
ततस्त्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम्।
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे॥१७॥
तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने।
कैकेयी नाम भर्तारमिदं वचनमब्रवीत्॥१८॥
‘न पिबेयं न खादेयं प्रत्यहं मम भोजनम्।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥१९॥
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम।
तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः’॥२०॥
स राजा सत्यवाग्देव्या वरदानमनुस्मरन्।
मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्॥२१॥
ततस्तं स्थविरो राजा सत्यधर्मे व्यवस्थितः।
ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत॥२२॥
स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम्।
मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान्॥२३॥
दद्यान्नप्रतिगृह्णीयात्सत्यं ब्रूयान्न चानृतम्।
अपि जीवितहेतोर्हि रामः सत्यपराक्रमः॥२४॥
स विहायोत्तरीयाणि महार्हाणि महायशाः।
विसृज्य मनसा राज्यं जनन्यै मां समादिशत्॥२५॥
साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी।
नहि मे तेन हीनाया वासः स्वर्गेऽपि रोचते॥२६॥
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः।
पूर्वजस्यानुयात्रार्थे कुशचीरैरलंकृतः॥२७॥
ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः।
प्रविष्टाः स्म पुरा दृष्टं वनं गम्भीरदर्शनम्॥२८॥
वसतो दण्डकारण्ये तस्याहममितौजसः।
रक्षसापहृता भार्या रावणेन दुरात्मना॥२९॥
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः।
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम्॥३०॥
— रामायणे सुन्दरकाण्डम्
EXERCISES
1 . Name fully— अवतीर्य। विप्रकीर्णम्। कोपयित्वा। समाः। भुञ्जाना। त्रयोदशे। अभिषेचयितुम्। संभ्रियमाणे। त्यक्ष्यामि। ज्येष्ठम्।
2 Decline – गिर्। द्वादशन्। समा।
3 Note the uses of — आ + चक्षू। याच्। समा+दिश्। अग्रतस्। हीन। ऊर्ध्वम्।
4 Dissolve and name — विद्रुमप्रतिमाननः। क्लिष्टकौशेयवासिनी। विबुधालयः। असितेक्षणा। द्रुमाश्रितः। राजसिंहः। प्रत्यहम्। गम्भीरदर्शनम्।
5 What changes do द्वि, त्रि, and अष्टन् undergo? When? Give Sanskrit equivalents for all numerals ( up to 100 ) having 2, 3 or 8 in the unit’s place.
6 Note the sages :—
(a) शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा उवाच।
(b) अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे।
(c) द्रुमस्य शाखामालम्ब्य तिष्ठसि।
(d) अस्माल्लोकादमुं लोकं गतः।
(e) तच्चेन्न वितथं कार्यंवनं गच्छतु राघवः।
(f) जनन्यै मां समादिशत्।
(g) न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते।
NOTES
विद्रुमप्रतिमाननः With a coral-like face. शाखामालम्ब्य Leaning against the branch. शोकजं वारि Tears of grief. च in the sense of वा का त्वं भवसि To what class do you belong ? विबुधालय Heaven. अस्माल्लोकादमुं लोकं गतः Gone from this world to that i. e. dead. व्यञ्जनानिMarks. अप्रतिमानुषम् Uncommon among human beings, excellent.
तपसा अन्वितःवेषःYour apparel is fit for (practising) penance.द्रुमाश्चित Sitting on a tree. सम्भ्रियमाणे When preparations were being made for etc. सत्यधर्मे व्यवस्थितःWho was strict in the observance of truthfulness. जनन्यै मां समादिशत् He left me to the care of ( his ) mother.
११ ‘जाबालेराश्रमः’
[This is a very beautiful description of the hermitage of Jābāli.— An extract from Kādambarī. ]
अवलोक्य चाहमचिन्तयम्। अहो प्रभावस्तपसाम्। इयमस्य शान्तापि मूर्तिरुत्तप्तकनकावदाता परिस्फुरन्ती सोदामिनीव चक्षुषः प्रतिहन्ति तेजांसि। सततमुदासीनापि महाप्रभावतया भयमिवोपजनयति प्रथमोपगतस्य। नित्यमसहिष्णु तपस्विनां तनुतपसामपि तेजः प्रकृत्या भवति। किमुत सकलभुवनतलवन्दितचरणानामनवरततपःक्षपितमलानां करतलामलकफलवदखिलं जगदालोकयतां दिव्येन चक्षुषा भगवतामेवंविधानामघक्षयकारिणाम्। पुण्यानि हि नामग्रहणान्यपि महामुनीनाम्। किं पुनर्दर्शनानि। धन्यमिदमाश्रमपदमयमधिपतिर्यत्र। अथवा भुवनतलमेव धन्यमखिलमनेनाधिष्ठितमवनितलकमलयोनिना। पुण्यभाजः खल्वमी मुनयो यदहर्निशमेनमपरमिव नलिनासनमपगतान्यव्यापारा मुखावलोकननिश्चलदृष्टयः पुण्याः कथाः शृण्वन्तः समुपासते। सरस्वत्यपि धन्या यास्य सततमतिप्रसन्ने करुणाजलनिस्यन्दिन्यगाधगाम्भीर्ये मुखकमलसंपर्कमनुभवन्ती निवसति हंसीव मानसे। धरणितलमनेनाधिष्ठितमालोक्य न वहति नूनमिदानीं सप्तर्षिमण्डलनिवासाभिमानमम्बरतलम्। प्रायो महाभूतानामपि दुरभिभवानि भवन्ति तेजांसि। सर्वतेजस्विनामयं चाग्रणीः। द्विसूर्यमिवाभाति जगदनेनाधिष्टितं महात्मना। निष्कम्पेव क्षितिरेतदवष्टम्भात्। एष प्रवाहः करुणारसस्य संतरणसेतुः संसारसिन्धोराधारः क्षमाम्भसां परशुस्तृष्णालतागहनस्य सागरः संतोषामृतस्योपदेष्टा सिद्धि मार्गस्यास्तगिरिरसद्ग्रहस्य मूलमुपशमतरोर्नाभिः प्रज्ञाचक्रस्य स्थितिवंशो धर्मध्वजस्य तीर्थं सर्वविद्यावताराणां वडवानलो लोभार्णवस्य निकषोपलः शास्त्ररत्नानां दावानलो रागपल्लवस्य महामन्त्रः क्रोधभुजङ्गस्य दिवसकरो मोहान्धकारस्यार्गलाबन्धो नरकद्वाराणां कुलभवनमाचाराणामायतनं
मङ्गलानामभूमिर्मदविकाराणां दर्शकः सत्पथानामुत्पत्तिः साधुताया नेमिरुत्साहचक्रस्याश्रयः सत्त्वस्य प्रतिपक्षः कलिकालस्य कोशस्तपसः सखा सत्यस्य क्षेत्रमार्जवस्य प्रभवः पुण्यसंचयस्यादत्तावकाशो मत्सरस्यारातिर्विपत्तेरस्थानं परिभूतेरननुकूलोभिमानस्यासंमतो दैन्यस्यानायत्तो रोषस्यावशो विषयाणामनभिमुखः सुखानाम्। अस्य भगवतः प्रसादादेवोपशान्तवैरमपगतमत्सरं तपोवनम्। अहो प्रभावो महात्मनाम्। अत्र हि शाश्वतिकमपहाय विरोधमुपशान्तात्मानस्तिर्यञ्चोपि तपोवनवसतिसुखमनुभवन्ति। तथा ह्येष विकचोत्पलवनरचनानुकारिणमुत्पतच्चारुचन्द्रकशतं हरिणलोचनद्युतिशबलमभिनवशाद्वमिव विशति शिखिनः कलापमातपाहतो निःशङ्कमहिः। अयमुत्सृज्य मातरमजातकेसरैः केसरिशिशुभिः सहोपजातपरिचयः प्रक्षरत्क्षीरधारमापिबति कुरङ्गशावकः सिंहीस्तनम्। एष मृणालकलापाशाङ्किभिः शशिकरधवलं सटाभारमामीलितलोचनो बहु मन्यते द्विरदकलभैराकृष्यमाणं मृगपतिः। इदमिह कपिकुलमपगतचापलमुपनयति मुनिकुमारकेभ्यः स्नातेभ्यः फलानि। एते च न निवारयन्ति मदान्धा अपि गण्डस्थलीभाञ्जि मदजलपाननिश्चलानि मधुकरकुलानि जातदयाः कर्णतालैः करिणः। किं बहुना। फलमूलभृतो वल्कलिनो निश्चेतनास्तरवोपि सनियमा इवालक्ष्यन्ते अस्य भगवतः। किं पुनः सचेतनाः प्राणिनः।
— कादम्बरी
EXERCISES
1 Note the uses of - किमुत। नूनम्। किं बहुना। किं पुनः।
2 Decline — अग्रणी। सखि। तिर्यच्। पथिन्।
3 Dissolve and name the compounds - उत्तप्तकनकावदाता। प्रथमोपगतस्य। पुण्यभाजः। अहर्निशम्। नलिनासनम्। अतिप्रसन्ने। सप्तर्षिमण्डलनिवासाभिमानम्। द्विसूर्यम्। तृष्णालतागहनम्। निकषोपलः। क्रोधभुजङ्गस्य। सत्पथानाम्। प्रतिपक्षः। अनभिमुखः। शशिकरधवलम्। जातदयाः। आमीलितलोचनः।
4 What changes does the final member of a Bahuvrīthi compound undergo? When is a क applied at the end?
5 Exemplify the different types of कर्मधारय compounds.
6 Note the derivations of - दिव्य। सौदामिनी। वल्कलिनः। साधुता। तेजस्विन्।
7 Distinguish कर्मधारय and द्विगु from बहुव्रीहि.
NOTES
अवदात Pure. प्रथमोपगत Who approaches (has approached) him for the first time. असहिष्णुUnbearable. प्रकृत्या By nature, naturallyकरतलामलकवत्etc. Who can see the whole world as clearly as an Āmalaka fruit placed on the palm of his hand. नामग्रहण Uttering the name. कमलयोनिः (= नलिनासनः) God Brahman. प्रायो महाभूतानामपिetc. Generally the lustre of the great elements is formidable. असद् ग्रहBad ideas. निकषोपल Touch-stone. दावानल (= दवहुतभुजः) Forest conflagration. प्रतिपक्ष Enemy. अदत्तावकाशो मत्सरस्य Above malice (Lit who never gives room in his mind to malice). असंमतो दैन्यस्य Not disposed to meanness (of spirit). चन्द्रक The eye in a peacock’s tail. मृणालकलापाशंकिभिः Mistaking it for a cluster of lotus-stalks. आमीलितलोचनःWith his eyes half-closed. बहु मन्यते Makes much of, takes delight in. कपिकुल A group of monkeys. मदान्ध Blinded by (being in) rut, infatuated. गण्डस्थलीभाञ्जि Resorting to the temples. मधुकरकुलानि Swarms of bees. फलमूलभृतः (1) Producing fruits and roots (वृक्षाः). (2) Subsisting on fruits and roots (सनियमाः तापसाः)वल्कलिनः (1) Having barks. (वृक्षाः) (1) Wearing bark-garments.(तापसाः) सनियमाःObserving certain vows. [This can be seen from the double sense conveyed by the two expressions above.]
१२ काककूर्ममृगाखूणाम् ।
[Kathā-sarit-Sāgara, a narrative poetical work, is composed by Somadeva who lived in the eleventh century under the patronage of king Anantadeva (1028-1080 A. D).). The work is based, as the author himself tells us, upon Brihat-Kathā and professes to be its summary. This latter work must date sometime before the Christian Era, in as much as it is referred to as a very great work by very old authors; and besides many of our Sanskrit plays and compositions like Hitopadesha have freely drawn upon it. It is no wonder then if we find in the Kathā-sārit-sāgara also the gist of a number of sanskrit works of even standard authors of early dates.
This passage, which is taken from Kathā-sarit-sāgara, gives us in a nutshell the story of Mitralābha from Hitopadesha.]
अभूतत्क्वापि वनोद्देशे महाञ्शाल्मलिपादपः।
उवास लघुपातीति काकस्तत्र कृतालयः॥१॥
स कदाचित्स्वनीडस्थो ददर्शात्र तरोरधः।
जालहस्तं सलगुडं रौद्रं पुरुषमागतम्॥२॥
ततः स वीक्षते यावत्काकस्तावद्वितत्य सः।
जालं भुवि विकीर्यात्र व्रीहींश्छन्नोऽभवत्पुमान्॥३॥
तावच्च चित्रग्रीवाख्यः पारावतपतिर्भ्रमन्।
तत्राजगाम नभसा पारावतशतैर्वृतः॥४॥
स व्रीहिप्रकरं दृष्ट्वा जालेऽत्राहारलिप्सया।
पतितः पाशनिकरैर्बद्धोऽभूत्सपरिच्छदः॥५॥
तद्दृष्ट्वा चानुगान्सर्वाश्चित्रग्रीवो जगाद सः।
गृहीत्वा चञ्चुभिर्जालं खमुत्पतत वेगतः॥६॥
ततस्तथेति ते जालमादायोत्पत्य वेगतः।
कपोता नभसा गन्तुं भीताः प्रारेभिरेऽखिलाः॥७॥
सोऽप्युत्थायोर्ध्वदृग्विग्नो लुब्धकः संन्यवर्तत।
निर्भयोऽथ जगादैतांश्चित्रग्रीवोऽनुयायिनः॥८॥
मन्मित्रस्यहिरण्यस्य मूषकस्यान्तिकं द्रुतम्।
व्रजामः स इमान्पाशांश्छित्त्वास्मान्मोचयिष्यति॥९॥
इत्युक्त्वा सोऽनुगैः साकं गत्वा तैर्जालकर्षिभिः।
मूषकस्य बिलद्वारं प्राप्याकाशादवातरत्॥१०॥
भो भो हिरण्य निर्याहि चित्रग्रीवोऽहमागतः।
इत्याजुहाव तं तत्र मूषकं स कपोतराट्॥११॥
स श्रुत्वा द्वारमार्गेण दृष्ट्वातं चागतं तथा।
सुहृदं निर्ययावाखुस्तस्माच्छतमुखाद्बिलात्॥१२॥
उपेत्य पृष्ट्वा वृत्तान्तं संभ्रमात्सोऽपि मूषकः।
पारावतपतेः पाशान्सानुगस्याच्छिनत्सुहृत्॥१३॥
छिन्नपाशस्तमामन्त्र्य मूषकं वचनैःप्रियैः।
चित्रग्रीवः खमुत्पत्य ययौ सोऽनुचरैः सह॥१४॥
अन्वागतः स काकोऽत्र लघुपाती विलोक्य तत्।
बिलप्रविष्टं तद्द्वारमागत्योवाच मूषकम्॥१५॥
लघुपातीति काकोऽहं दृष्ट्वा त्वां मित्रवत्सलम्।
मित्रत्वाय वृणोमीदृग्विपदुद्धरणक्षमम्॥१६॥
तच्छ्रुत्वाभ्यन्तराद्दृष्ट्वा मूषकस्तं स वायसम्।
जगाद गच्छ का मैत्री भक्ष्यभक्षकयोरिति॥१७॥
ततः स वायसोऽवादीच्छान्तं भुक्ते मम त्वयि।
तृप्तिः क्षणं स्यान्मित्रे तु शश्वज्जीवितरक्षणम्॥१८॥
इत्याद्युक्त्वा सशपथं कृत्वाश्वासं च तेन सः।
निर्गतेनाकरोत्सख्यमाखुना सह वायसः॥१९॥
स मांसपेशीरानैषीदाखुः शालिकणानपि।
एकत्र सह भुञ्जानौ तस्थतुस्तावुभौ सुखम्॥२०॥
एकदा स च काकस्तं मित्रं मूषिकमब्रवीत्।
इतोऽविदूरे मित्रास्ति वनमध्यगता नदी॥२१॥
तस्यां मन्थरको नाम कूर्मश्चास्ति सुहृन्मम।
तदर्थं यामि तत्स्थानं सुप्रापामिषभोजनम्॥२२॥
कृच्छ्रात्प्राप्य इहाहारो नित्यं व्याधभयं च मे।
इत्युक्तवन्तं तं काकं मूषकोऽपि जगाद सः॥२३॥
सहैव तर्हि वत्स्यामो नय तत्रैव मामपि।
ममाप्यस्तीह निर्वेद्रो वक्ष्ये तत्रैव तं च ते॥२४॥
इति वादिनमादाय चञ्च्वातं स हिरण्यकम्।
नभसा लघुपाती तद्ययौ वननदीतटम्॥२५॥
मिलित्वा सह कूर्मेण तत्र मन्थरकेण सः।
कृतातिथ्येन मित्रेण स तस्थौ मूषकान्वितः॥२६॥
कथान्तरे च कूर्माय तस्मै स्वागमकारणम्।
हिरण्यसख्यवृत्तान्तयुक्तं काकः शशंस सः॥२७॥
ततः स कूर्मस्तं कृत्वा मित्रं वायससंस्तुतम्।
देशनिर्वासनिर्वेदहेतुं पप्रच्छ मूषकम्॥२८॥
ततो हिरण्यः स तयोरुभयोः काककूर्मयोः।
शृण्वतोर्निजवृत्तान्तकथामेतामवर्णयत्॥२९॥
अहं महाबिले तत्र नगरासन्नवर्तिनि।
वसन्राजकुलाद्धारमानीयास्थापयं निशि॥३०॥
दृश्यमानेन हारेण तेन जातौजसं च माम्।
समर्थमन्नाहरणे मूषकाः पर्ववारयन्॥३१॥
अत्रान्तरे च तत्रासीत्कश्चिदस्मद्बिलान्तिके।
परिव्राण्मठिकां कृत्वा नानाभिक्षान्नवृत्तिकः॥३२॥
स भुक्तशेषं भिक्षान्नं नक्तं स्थापयति स्म तत्।
भिक्षाभाण्डस्थमुल्लम्ब्य शङ्कौ प्रातर्जिघत्सया॥३३॥
सुप्तस्यात्र च तस्याहं बिलेनान्तः प्रविश्य तत्।
दत्त्वोर्ध्वझम्पोनिःशेषमनैषं प्रतियामिनि॥३४॥
कदाचित्तत्र तस्यागात्सुहृत्प्रव्राजकोऽपरः।
भुक्तोत्तरं समं तेन कथां रात्रौ स चाकरोत्॥३५॥
तावन्नेतुं प्रवृत्तेऽन्नं मयि जर्जरकेण सः।
प्रव्राडवादयद्दत्तकर्णस्तद्भाण्डकं मुहुः॥३६॥
कथामाच्छिद्य किमिदं करोषीति च तेन सः।
आगन्तुना परिव्राजा पृष्टः प्रव्राट् तमब्रवीत्॥३७॥
इह मे मूषकः शत्रुरुत्पन्नोऽयं सदैव यः।
अपि दूरस्थमुत्प्लुत्य नयत्यन्नमितो मम॥३८॥
तं त्रासयामि चलयञ्जर्जरेणान्नभाजनम्।
इत्युक्तवन्तं प्रव्राजं परिव्राट् सोऽपरोऽब्रवीत्॥३९॥
खनित्रमस्ति चेतन्मे दीयतां यावदद्य वः।
युक्त्या निवारयाम्येतं मूषकोत्थमुपद्रवम्॥४०॥
तच्छ्रुत्वा तन्निवासी स प्रव्राट् तस्मै खनित्रकम्।
ददावहं च च्छन्नस्थस्तद्दृष्टा प्राविशं बिलम्॥४१॥
ततस्तेन खनित्रेण प्रव्राडागन्तुकोऽथ सः।
मत्संचारबिलं वीक्ष्य प्रारेभे खनितुं शठः॥४२॥
क्रमाच्च तावदखनत्पलायनपरे मयि।
यावत्तं प्राप तत्रस्थं हारं मे चान्यसंचयम्॥४३॥
तेजसानेन तस्याभूदाखोस्तत्तादृशं बलम्।
इत्याह स्थानिनं तं च प्रव्राजं मयि शृण्वति॥४४॥
नीत्वा च तन्मे सर्वस्वं हारं मूर्ध्नि निधाय च।
आगन्तुस्थायिनौ हृष्टौ प्रव्राजौ स्वपतः स्म तौ॥४५॥
प्रसुप्तयोस्तयोस्तं च हर्तुं मां पुनरागतम्।
प्रबुध्याताडद्यष्ट्या प्रवाट् स्थायी स मूर्धनि॥४६॥
तेनाहं व्रणितो दैवान्न मृतो बिलमाविशम्।
भूयश्च शक्तिर्नाभून्मे तदन्नाहरणप्लवे॥४७॥
अर्थो हि यौवनं पुंसां तदभावश्चवार्धकम्।
तेनास्यौजो बलं रूपमुत्साहश्चापि हीयते॥४८॥
अथात्ममात्रभरणे यत्नवन्तमवेक्ष्य माम्।
परित्यज्य गतः सर्वः स मूषकपरिच्छदः॥४९॥
अवृत्तिकं प्रभुं भृत्या अपुष्पं भ्रमरास्तरुम्।
अजलं च सरो हंसा मुञ्चन्त्यपि चिरोषितम्॥५०॥
इत्थं तत्र चिरोद्विग्नः सुहृदं लघुपातिनम्।
प्राप्यैतं कच्छपश्रेष्ठ स्वत्पार्श्वमहमागतः॥५१॥
एवं हिरण्यकेनोक्तेकूर्मो मन्थरकोऽभ्यधात्।
स्वमेव स्थानमेतत्ते तन्मा भित्राधृतिं कृथाः॥५२॥
गुणिनो न विदेशोऽस्ति न संतुष्टस्य चासुखम्।
धीरस्य च विपन्नास्ति नासाध्यं व्यवसायिनः॥५३॥
इति तस्मिन्वदत्येव कूर्मे चित्राङ्गसंज्ञकः।
दूरतो व्याधवित्रस्तो मृगस्तद्वनमाययौ॥५४॥
तं दृष्ट्वा तस्य दृष्ट्वा च पश्चाद्व्याधमनागतम्।
आश्वासितेन तेनापि सख्यं कूर्मादयो व्यधुः॥५५॥
न्यवसंस्ते ततस्तत्र काककूर्ममृगाखवः।
परस्परोपचारेण सुखिताः सुहृदः समम्॥५६॥
एकदा क्वापि चित्राङ्गं चिरायातं तमीक्षितुम्।
आरुह्य तरुमैक्षिष्ट लघुपाती स तद्वनम्॥५७॥
ददर्श च नदीतीरे कालपाशेन संयतम्।
चित्राङ्गमवरुह्यैतदवदच्चाखुकूर्मयोः॥५८॥
ततः संमन्त्र्य चञ्च्वातं गृहीत्वाखुं हिरण्यकम्।
चित्राङ्गस्यान्तिकं तस्य लघुपाती निनाय सः॥५९॥
हिरण्यकश्च तं बन्धविधुरं मूषको मृगम्।
क्षणादमुञ्चदाश्वास्य दशनच्छिन्नपाशकम्॥६०॥
तावन्मन्थरकोऽभ्येत्य नदीमध्येन कच्छपः।
आरुरोह तटं तेषां निकटं स सुहृत्प्रियः॥६१॥
तत्क्षणं स कुतोप्येत्य लुब्धकः पाशदायकः।
विद्रुतेषु मृगाद्येषु लब्ध्वा तं कूर्ममग्रहीत्॥६२॥
क्षिप्त्वा च जालकान्तस्तं यावन्नष्टमृगाकुलः।
स याति तावद्दृष्ट्वैतद्दीर्घदृश्वाखुवाक्यतः॥६३॥
मृगो गत्वा ततो दूरे पतित्वासीन्मृतो यथा।
काकस्तु मूर्धितस्यासीच्चक्षुषी पाटयन्निव॥६४॥
तद्दृष्ट्वा स गृहीतं तं व्याधो मत्वा मृगं मृतम्।
गन्तुं प्रववृते नद्यास्तटे कूर्मं निधाय तम्॥६५॥
यातं दृष्ट्वा तमभ्येत्य मूषकस्तस्य जालिकाम्।
कूर्मस्य सोऽच्छिनत्तेन मुक्तो नद्यां पपात सः॥६६॥
मृगोऽपि निकटीभूतं व्याधं वीक्ष्य विकच्छपम्।
उत्थाय स पलाय्यागात्काकोऽप्यारूढवांस्तरुम्॥६७॥
एत्य व्याधोऽत्र कूर्मं तं बन्धच्छेदपलायितम्।
अप्राप्योभयविभ्रष्टो दैवं शोचन्नगाद्गृहम्॥६८॥
ततो मिलन्ति स्मैकत्र हृष्टाः कूर्मादयोऽत्र ते।
अन्योन्यप्रीतिसुखिताः काककूर्माखवोऽवसन्॥६९॥
— कथासरित्सागरः।
EXERCISES
1 Decline — पुम्स्। राज्। अपर। परिव्राज्। प्रव्राज्। उभ।
2 Note the uses of — अधः। यावत्-तावत्। अन्तिकम्। वृ।
3 Name fully — अभूत्। वितत्य। विकीर्य। भ्रमन्। लिप्सया। विग्नः। आजुहाव। अच्छिनत्। अनैषीत्। वत्स्यामः। भुञ्जानौ। वक्ष्ये। जिघत्सया। अभ्यधात्। मा कृथाः। व्यधुः। ऐक्षिष्ट। निकटीभूतम्। पलाय्य।
4 Dissolve and name the compounds – शाल्मलिपादपः। जालहस्तम्। सलगुडम्। ऊर्ध्वदृक्। जालकर्षिभिः। मित्रवत्सलम्। सुप्रापामिषभोजनम्। नानाभिक्षान्नवृत्तिकः। भुक्तशेषम्। प्रतियामिनि। जालकान्तः। विकच्छपम्।
NOTES
कृतालयःWho had made his home, who had built his nest.छन्नोऽभवत् He hid himself लिप्साDesire to obtain. परिच्छद Retinue, followers. खं Sky. ऊर्ध्वदृक् Casting his eye up, looking up.मोचयिष्यति He will set us free. साकं = सह। निर्याहि Come out.आमलय Bidding farewell. अन्वागत. Who had followed. त्वां मित्रत्वाय वृणोमि I wish to make friendship with you. का मैत्री What friendship can there be? आनैषीत् = आनयत्। तस्थतुः सुखम् They lived happily. इतोऽविदूरे Not far from here. निर्वेद Sorrow. कथान्तरे In the course of conversation. युक्त Together with. परिवाज् A recluse.शङ्कु A peg. भुक्तोत्तरं After dinner. त्रासयामि I am scaring away.चिरोषितम् Though they have stayed there for a long time. (lit. which was inhabited by them for a long period) त्वमेव स्थानमेतत्ते This is your own house, व्यधुः Made. ऐक्षिष्ट Saw. उभयविभ्रष्ट Losing both.अगात् Went.
१३ सोमदेवकथितः कस्यचिद्बालकस्य वृत्तान्तः।
[This is an extract from Daṇḍin’s Dashakumārcharitam. Here we find Somadeva giving an account of how and when he found the young child whom he is leaving to the care of the king.]
** कदाचिद्वामदेवशिष्यः सोमदेवशर्मा नाम कंचिदेकं बालकं राज्ञः पुरो निक्षिप्याभाषत। देव रामतीर्थे स्नात्वा प्रत्यागच्छता मया काननावनौ वनितया कयापि धार्यमाणमेनमुज्ज्वलाकारं कुमारं विलोक्य सादरमभाणि। स्थविरे का त्वम्। एतस्मिन्नटवीमध्ये बालकमुद्वहन्ती किमर्थमायासेन भ्रमसीति। वृद्धयाप्यभाषि। मुनिवर कालयवननाम्नि द्वीपे कालगुप्तो नाम धनाढ्यो वैश्यवरः कश्चिदस्ति। तन्नन्दिनीं नयनानन्दकारिणीं सुवृत्तां नामैतस्माद् द्वीपादागतो मगधनाथमन्त्रिसंभवो रत्नोद्भवो नाम रमणीयगुणालयो भ्रान्तभूवलयो मनोहारी व्यवहार्युपयम्य सुवस्तुसंपदा श्वशुरेण संमानितोऽभूत्। कालक्रमेण नताङ्गी गर्भिणी जाता। ततः सोदरविलोकनकुतूहलेन रत्नोद्भवः कथंचिच्छ्वशुरमनुनीय चपललोचनयानया सह प्रवहणमारुह्य पुष्पपुरमभिप्रतस्थे। कल्लोलमालिकाभिहतः पोतः समुद्राम्भस्यमज्जत्। गर्भभरालसां ललनां धात्रीभावेन कल्पिताहं कराभ्यामुद्वहन्ती फलकमेकमधिरुह्य देवगत्या तीरभूमिमगमम्। सुहृज्जनपरिवृतो रत्नोद्भवस्तत्र निमग्नो वा केनोपायेन तीरमगमद्वा न जानामि। क्लेशस्य परां काष्ठामधिगता सुवृत्तास्मिन्नटवीमध्येऽद्यसुतमसूत। प्रसववेदनया विचेतना सा प्रच्छायशीतले तरुतले निवसति। विजने वने स्थातुमशक्यतयाजनपदगामिनं मार्गमन्वेष्टुमुद्युक्तया मया विवशायास्तस्याः समीपे बालकं निक्षिप्य गन्तुमनुचितमिति कुमारोऽप्यानायीति। तस्मिन्नेव क्षणे वन्यो वारणःकश्चिददृश्यत। तं विलोक्य भीता सा बालकं निपात्य प्राद्रवत्। अहं समीपलतागुल्मके प्रविश्य परीक्षमाणोऽतिष्ठम्। निपतितं बालकं पल्लवकवलमिवाददति गजपतौ कण्ठीरवो भीमरवो महाग्रहेण न्यपतत्। भयाकुलेन दन्तावलेन झटिति वियति समुत्पात्यमानो बालको न्यपतत्। चिरायुष्मत्तया स चोन्नततरुशाखासमासीनेन वानरेण केनचित्पक्वफलबुद्ध्या परिगृह्य फलेतरतया विततस्कन्धमूले निक्षिप्तोऽभूत्। सोऽपि मर्कटः क्वचिदगात्। बालकेन सत्त्वसंपन्नतया सकलक्लेशसहेनाभावि। केसरिणा करिणं निहत्य कुत्रचिदगामि। लतागृहान्निर्ग-**
तोऽहमपि तेजःपुञ्जं बालकं शनैरवनीरुहादवतार्य वनान्तरे वनितामन्विष्याविलोक्यैनमानीय गुरवे निवेद्य तनिदेशेन भवन्निकटमानीतवानस्मीति। सर्वेषां सुहृदामेकदैवानुकूलदैवाभावेन महदाश्चर्यं बिभ्राणो राजा रत्नोद्भवः कथमभवदिति चिन्तयंस्तन्नन्दनं पुष्पोद्भवनामधेयं विधाय तदुदन्तं व्याख्याय सुश्रुताय विषादसंतोषावनुभवंस्तदनुजतनयं समर्पितवान्।
— दशकुमारचरितम्।
EXERCISES
1 Dissolve and name the compounds - काननावनौ
।
उज्ज्वलाकारम्
।
सादरम्। मुनिवरः। भ्रान्तभूवलयः। द्वीपम्। सोदरविलोकनकुतूहलेन। विचेतना। प्रच्छायशीतले। फलेतरतया। सकलक्लेशसहेन। अवनीरुहात्। पुष्पोद्भवनामधेयम्।
2 Write a
note
on
Pra
di and Upapada compounds.
3 Name fully -
अभाणि। अभाषि। भ्रमसि। अभिप्रतस्थे। अमज्जत्। अगमम्। निमग्नः। आनायि। निपात्य। आददति। समुत्पात्यमानः। अभूत्। अगात्। अभावि। अवतार्य। आनीतवान्। बिभ्राणः। समर्पितवान्।
4 Note the u
ses of प्रभृति। पुरः। कथंचित्। सम् + ऋ Causal.
NOTES
प्रत्यागच्छता मया On my way back भ्रान्तभूवलय Who had travelled the whole ( circle ) globe of the earth. व्यवहारिन् A trader. धात्रीभावेन कल्पिता Appointed as an ayah to etc. दैवगत्या Fortunately. जनपदगामिनं मार्गंetc. Intending to look for & path leading to the (inhabited parts of the country. निपात्य Throwing, dropping. परीक्षमाणःObserving. चिरायुष्मत्तया Being destined to live long. पक्वफलबुद्ध्या Mistaking it for a ripe fruit. फलेतरतया (finding it to be ) something different from a fruit. i. e. seeing that it was not a fruit. अवतार्यTaking down. वनान्तरे In the forest. अनुकूलदैवाभावःMisfortune.
१४ आत्मघातिनां ब्राह्मणपुत्राणाम्
[This is an extract from Kathā-sarit-sāgara. This passage contains the well-known story of the four Brahmin lads who revived a lion to test their learning and were themselves devoured by him.]
बभूव पूर्वं कुसुमपुराख्यनगरेश्वरः।
पृथ्वीतलेऽस्मिन्धरणीवराहो नाम भूपतिः॥१॥
तस्य ब्राह्मणभूयिष्ठे राष्ट्रे ब्रह्मस्थलाभिधः।
अग्रहारोऽभवत्तत्र विष्णुस्वामीत्यभूद्द्विजः॥२॥
तस्यानुरूपा भार्याभूद्यथा स्वाहा हविर्भुजः।
तस्यां च तस्य चत्वारः क्रमादुत्पेदिरे सुताः॥३॥
अधीतवेदेषूत्क्रान्तशैशवेषु च तेषु सः।
विष्णुस्वामी दिवं प्रायाद्भार्ययानुगतस्तया॥४॥
ततस्ते तत्र तत्पुत्राः सर्वेऽप्यानाय्य दुःस्थिताः।
गोत्रजैर्हृतसर्वस्वा मन्त्रयांचक्रिरे मिथः॥५॥
नास्तीह गतिरस्माकं तद्भजामो वयं न किम्।
इतो मातामहगृहं ग्रामं यज्ञस्थलाभिधम्॥६॥
एतदेव विनिश्चित्य प्रस्थिता भैक्ष्यभोजनाः।
मातामहगृहं प्रापुस्तेऽथ तद्बहुभिर्दिनैः॥७॥
तत्र मातामहाभावान्मातुलैर्दत्तसंश्रयाः।
भुञ्जानस्तद्गृहे तस्थुः स्वाध्यायाभ्यासतत्पराः॥८॥
कालक्रमाच्च तेषां ते मातुलानामकिञ्चनाः।
अवज्ञापात्रतां जग्मुर्भोजनाच्छादनादिषु॥९॥
ततः स्वजनसंस्फूर्जादवमानहतात्मनाम्।
तेषां रहः सचिन्तानां ज्येष्ठो भ्राताब्रवीदिदम्॥१०॥
भोभ्रातरः किं क्रियते सर्वमाचेष्टते विधिः।
न शक्यं पुरुषस्येह क्वचित्किंचित्कदाचन॥११॥
अहं ह्युद्वेगतो भ्राम्यन्प्राप्तोऽद्य पितृकानने।
विपन्नस्थितमद्राक्षं त्रस्ताङ्गं पुरुषं भुवि॥१२॥
अचिन्तयं च दृष्ट्वा तमहं तां स्पृहयन्गतिम्।
धन्योऽयमेवं विश्रान्तो दुःखभारं विमुच्य यः॥१३॥
इति संचिन्त्य तत्कालं कृत्वा मरणनिश्चयम्।
वृक्षाग्रसङ्गिना पाशेनात्मानमुदलम्बयम्॥१४॥
यावच्च मे विसंज्ञस्य तदा निर्यान्ति नासवः।
तावत् त्रुटितपाशोऽत्र पतितोऽस्मि महीतले॥१५॥
लब्धसंज्ञश्चकेनापि पुंसा क्षिप्रं कृपालुना।
आश्वास्यमानमात्मानमपश्यं पटमारुतैः॥१६॥
सखे कथय विद्वानप्येवं कं प्रति खिद्यसे।
सुखं हि सुकृताद्दुःखं दुष्कृतादेति नान्यतः॥१७॥
दुःखाद्यदि तवोद्वेगः सुकृतं तत्समाचर।
कथं तु नारकं दुःखमात्मत्यागेन वाञ्छसि॥१८॥
इत्युक्त्वा मां समाश्वास्य स च क्वापि गतः पुमान्।
अहं चेहागतस्त्यक्त्वा तादृशं मरणोद्यमम्॥१९॥
तदेवं नेच्छति विधौ न मर्तुमपि लभ्यते।
इदानीं च तनुं तीर्थे तपसा दाहयाम्यहम्॥२०॥
येन निर्धनतादुःखभागी न स्यामहं पुनः।
इत्युक्तवन्तं ज्येष्ठं तं कनिष्ठा भ्रातरोऽब्रूवन्॥२१॥
अर्थैर्विना कथं प्राज्ञोऽप्यार्य दुःखेन बाध्यसे।
किं न वेत्सि यदर्थानां शरदभ्रचला गतिः॥२२॥
आहृत्य रक्ष्यमाणापि यत्नेनान्तविरागिणी।
असन्मैत्री च वेश्या च श्रीश्चकस्य कदा स्थिरा॥२३॥
तदुद्योगेन स गुणः कोऽप्युपार्ज्यो मनस्विना।
आनीयन्ते हठाद्बद्ध्वायेनार्थहरिणा मुहुः॥२४॥
इत्युक्तो भ्रातृभिर्धैर्यं क्षणाज्ज्येष्ठोऽवलम्ब्य सः।
उवाच को गुणस्तादृगर्जनीयो भवेदिति॥२५॥
ततो विचिन्त्य सर्वे ते वदन्ति स्म परस्परम्।
विचित्य पृथ्वीं विज्ञानं किञ्चिच्छिक्षामहे वयम्॥२६॥
याति काले च मिलितास्ते संकेतनिकेतने।
किं केन शिक्षितमिति भ्रातरोऽन्योन्यमब्रुवन्॥२७॥
अथात्रैकोऽब्रवीदीदृग्विज्ञानं शिक्षितं मया।
येनास्थिशकलं प्राप्य प्राणिनो यस्य कस्यचित्॥२८॥
उत्पादयाम्यहं तस्मिन्मांसं तदुचितं क्षणात्।
एतत्तस्य वचः श्रुत्वा द्वितीयस्तेष्वभाषत॥२९॥
अहं तत्रैव संजातमांसेऽस्थिशकले किल।
जाने जनयितुं लोमत्वचं तत्प्राणिसंभवि॥३०॥
ततस्तृतीयोऽप्यवदज्जाने तत्रैव चास्थ्न्यहम्।
तत्प्राण्यवयवान्स्रष्टुं जातत्वङ्मांसलोमनि॥३१॥
चर्तुर्थश्च ततोऽवादीदुत्पन्नावयवाकृतिम्।
तमेव प्राणिनं प्राणैर्युक्तं कर्तुमवैम्यहम्॥३२॥
एवमुक्त्वा मिथः स्वस्वविज्ञानप्रथनाय ते।
चत्वारोऽप्यस्थिखण्डाय प्रययुर्भ्रातरोऽटवीम्॥३३॥
तत्र सिंहस्य ते प्रापुरस्थिखण्डं विधेर्वशात्।
अविज्ञातविशेषाश्च गृह्णन्ति स्म तथैव तत्॥३४॥
एकश्च तत्समुचितैस्ततो मांसैरयोजयत्।
द्वितीयोऽजनयत्तस्य तद्वत्त्वग्लोमसंहतीः॥३५॥
तृतीयश्चाखिलैरङ्गैस्तद्योग्यैस्तदपूरयत्।
चतुर्थश्च ददौ तस्य सिंहीभूतस्य जीवितम्॥३६॥
उदतिष्ठदथोद्धूतसटाभारोऽतिभैरवः।
स दंष्ट्रासंकटमुखः सिंहः खरनखाङ्कुशः॥३७॥
धावित्वा च स्वनिर्मातृृंस्तानेव चतुरोऽपि सः।
अवधीत्केसरी तृप्तो विवेश च वनं ततः॥३८॥
एवं ते सिंहनिर्माणदोषान्नष्टा द्विजातयः।
दुष्टं हि जन्तुमुत्थाप्य कस्यात्मनि सुखं भवेत्॥३९॥
— कथासरित्सागरः।
EXERCISES
1 Name fully— अभूत्। चत्वारः। भ्राम्यन्। आश्वास्यमानम्। सखे। उपार्ज्य। अवैमि। अजनयत्। अवधीत्। प्रापुः। सिंहीभूतस्य।
2 Decline— सखि। प्रथम। द्वितीय। तृतीय। चतुर्थ।
3 Dissolve and name the compounds.—
ब्राह्मणभूयिष्ठे। द्विजः। अतिक्रान्तशैशवेषु। विसज्ञस्य। शरदभ्रचला। अर्थहरिणाः। लोमत्वचम्।
4 Write a note on the formation of ordinals.
5Note the expressions— दिवं प्रायात्। नास्तीह गतिरस्माकम्। कालक्रमात्। अवज्ञापात्रतां जग्मुः। पाशेनात्मानमुदलम्बयम्। नेच्छति विधौ। अर्थानां शरदभ्रचला गतिः।
NOTES
ब्राह्मणभूयिष्ठे Mostly inhabited by Brahmins. दिवं प्रायात् Died.कालक्रमात् In the course of time. अवज्ञापात्रताम् जग्मुः = अवज्ञापात्रं बभूषुः। सर्वमाचेष्टते विधिः cf. प्रभवति भगवान् विधिः। पितृकानन = श्मशान। सङ्गिन्Hanging down from. धैर्यमवलम्ब्य Taking courage. संकेतनिकेतने मिलिताःWhen they came together at the appointed place. उत्थाप्यHaving raised i. e. revived.
१५ दारिद्र्यमनन्तकं दुःखम्
[This is an extract from the Mrichhakaṭika, the only known work of Shūdraka, a poet king, who must have lived in the first century A. D. His skill as a diamatist is almost unparalleled. Mrichhakaṭikam is written in a style which, though not as polished as that of Kālidāsa, is not bombastic. The dramatist seems not to care so much for the language as for the plot. So far as denouement is concerned this play is said to be the happiest of all the dramas in Sanskrit.
Chārudatta in this conversation gives his reasons as to why he prefers death to poverty. ]
** चारुदत्तः।** [ ऊर्ध्वमवलोक्य सनिर्वेदं निःश्वस्य ]
यासां बलिः सपदि मद्गृहदेहलीनां
हंसैश्च सारसगणैश्च विलुप्त पूर्वः।
तास्वेव संप्रति विरूढतृणाङ्कुरासु
बीजाञ्जलिः पतति कीटमुखावलीढः॥१॥
[ इति मन्दं मन्दं परिक्रम्योपविष्टः ]।
विदूषकः। एष आर्यचारुदत्तः। तद् यावत्सांप्रतमुपसर्पामि। [ उपसृत्य ] स्वस्ति भवते। वर्धतां भवान्।
चारु०। अये सर्वकालमित्रं मैत्रेयः प्राप्तः। सखे स्वागतम्। आस्यताम्।
विदू०। यद् भवानाज्ञापयति। भो वयस्य एष ते प्रियवयस्येन चूर्णवृद्धेन जातीकुसुमवासितः प्रावारकोऽनुप्रेषितः सिद्धीकृतदेवकार्यस्य आर्यचारुदत्तस्य त्वया उपनेतव्य इति। [ समर्पयति ]
चारु०। [ गृहीत्वा सचिन्तः स्थितः ] \।
विदू०। भो इदं किं चिन्त्यते।
चारु०। वयस्य
सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम्।
सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति॥२॥
विदू०। भो वयस्य मरणाद्दारिद्र्याद्वा कतरत्ते रोचते।
चारु०। वयस्य
दारिद्र्यान्मरणाद्वा मरणं मम रोचते न दारिद्र्यम्।
अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम्॥३॥
विदू०। भो वयस्य अलं संतापितेन। प्रणयिजनसंक्रामितविभवस्य सुरजनपीतशेषस्य प्रतिपच्चन्द्रस्येव परिक्षयोऽपि तेऽधिकतरं रमणीयः।
चारु०। वयस्य न ममार्थान्प्रति दैन्यम्। पश्य
एतत्तु मां दहति यद् गृहमस्मदीयं
क्षीणार्थमित्यतिथयः परिवर्जयन्ति।
संशुष्कसान्द्रमदलेखमिव भ्रमन्तः
कालात्यये मधुकराः करिणः कपोलम्॥४॥
विदू०। भो वयस्य एते खलु दास्याःपुत्रा अर्थकल्पवर्ता वरटाभीता इव गोपालदारका अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति।
चारु०। वयस्य
सत्यं न मे विभवनाशकृतास्ति चिन्ता
भाग्यक्रमेण हि धनानि भवन्ति यान्ति।
एतत्तु मां दहति नष्टधनाश्रयस्य
यत्सौहृदादपि जनाः शिथिलीभवन्ति॥५॥
अपि च
दारिद्र्याद् ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो
निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते
निर्विण्णः शुचमेति शोकपिहितो बुध्द्यापरित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम्॥६॥
विदू०। भो वयस्य तमेव अर्थकल्यवर्तं स्मृत्वा अलं संतापितेन।
चारु०। वयस्य दारिद्र्यं हि पुरुषस्य
निवासश्चिन्तायाः परपरिभवो वैरमपरं
जुगुप्सा मित्राणां स्वजनपरविद्वेषकरणम्।
वनं गन्तुं बुद्धिर्भवति च कलत्रात्परिभवो
हृदिस्थः शोकाग्निर्न च दहति संतापयति च॥७॥
तद्वयस्य कृतो मया गृहदेवताभ्यो बलिः। गच्छ त्वमपि चतुष्पथे मातृभ्यो बलिमुपहर।
विदू०। न गमिष्यामि।
चारु०। किमर्थम्।
विदू०। यत एवं पूज्यमाना अपि देवता न ते प्रसीदन्ति। तत्को गुणोदेवेष्वर्चितेषु।
चारु०। वयस्य मा मैवम्। गृहस्थस्य नित्योऽयं विधिः।
तपसा मनसा वाग्भिः पूजिता बलिकर्मभिः।
तुष्यन्ति शमिनां नित्यं देवताः किं विचारितैः॥८॥
तद्गच्छ मातृभ्यो बलिमुपहर।
विदू०। भो न गमिष्यामि। अन्यः कोऽपि प्रयुज्यताम्। मम पुनर्ब्राह्मणस्य सर्वमेव विपरीतं परिणमति आदर्शगतेवच्छाया वामतो दक्षिणा दक्षिणतो
वामा। अन्यच्च एतस्यां प्रदोषवेलायामिह राजमार्गे गणिका विटाश्चेटाश्च राजवल्लभाः संचरन्ति। तस्मान्मण्डूकलुब्धस्येव कालसर्पस्य मूषिक इव अभिमुखापतितो वध्य इदानीं भविष्यामि। त्वमिह उपविष्टः किं करिष्यसि।
** चारु०**। भवतु तिष्ठ तावदहं समाधिं निर्वर्तयामि।
— मृच्छकटिके प्रथमोऽङ्कः।
EXERCISES
1 Name fully :— कतरत्। अधिकतरम्। शिथिलीभवन्ति। निर्विण्णः। जुगुप्सा। परिवर्जयन्ति।
2 Note the uses of —भवत्। अनु + प्र + एष्। उप + नी। रुच्। अलम्। प्रति। उप + हृ। किम्।
3 Dissolve and name the compounds :—विलुप्तपूर्वः। अनन्तकम्। प्रणयिजनसङ्क्रामितविभवः। निस्तेजाः। स्वजनजनविद्वेषकरणम्। चतुष्पथम्। राजमार्गः। अभिमुखापतितः।
4 Note the following usages :—
(a) स्वस्ति भवते। वर्धतां भवान्।
सखे स्वागतम्। आस्यताम्।
यद् भवानाज्ञापयति।
(b) अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम्।
(c) न मम अर्थान्प्रति दैन्यम्।
(d) भाग्यक्रमेण हि धनानि भवन्ति यान्ति।
(e) तमेवार्थकल्यवर्तंस्मृत्वा अलं सन्तापितेन।
(f) एवं पूज्यमाना अपि देवता न ते प्रसीदन्ति। तत्को गुणो देवेष्वर्चितेषु।
(g) त्वमिह उपविष्टः किं करिष्यसि।
(h) भवतु तिष्ठ तावदहं समाधिं निर्वर्तयामि।
NOTES
This passage is a good specimen of a dialogue in Sanskrit. Note the greeting sentences that begin the dialogue. देहली The threshold. ( =द्वारपिण्डी). प्रावारक An upper garment. (= उत्तरीयम्).सुखं हि दुःखान्यनुभूय शोभते। Cf. यदेवोपनतं दुःखात्सुखं तद्वसवत्तरम्। शोभतेBecomes agreeable. (= रसवत्तरं भवति)। दारिद्र्यान्मरणाद्वा मरणं मम रोचते This is rather irregular. The correct form of the sentence would be—दारिद्र्यमरणयोर्मम मरणं (खलु) रोचते न दारिद्र्यम्। एते खलु… गच्छन्ति Like
cowboys in the wood, who are afraid of wasps, these riches — this wretched pelf — resort only to places where they are not consumed (bitten or stung). The idea is that miserly persons are generally rich while generous persons are found to be poor. भाग्यक्रमेण हि धनानि भवन्ति यान्ति। Cf. नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण। नित्यObligatory (opp. नैमित्तिक). निधनता= दारिद्र्यम्। किं विचारितैः What is the use of discussing this matter?
१६ राजधर्माः
[ Manu-smriti or Mānava-dharma-shāstra is one of the oldest and very authentic works on all points so far Hinduism is concerned. It is said to be a work of the fourth century B. C. or thereabouts. Its style is comparable to that of the Mahābhārata or the Rāmāyaṇa in its simplicity, lucidity and directness.
This passage gives us the duties of a king according to Manu. A king is said to be created with the best portions of all the gods and as such has a special power. He is to lay down the law and inflict punishment on those who violate the law. But the last verse clearly shows that even the king himself is subject to the law thus enacted, the violation of which is sure to bring destruction on the king as well as his relatives.]
राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः।
संभवश्च तथा तस्य सिद्धिश्चपरमा यथा॥१॥
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि।
सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम्॥२॥
अराजके हि लोकेऽस्मिन् सर्वतो विद्रुते भयात्।
रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः॥३॥
इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः॥४॥
यस्मादेषां सुरेन्द्राणाम् मात्राभ्यो निर्मितो नृपः।
तस्मादभिभवत्येष सर्वभूतानि तेजसा॥५॥
तपस्यादित्यवच्चैष चक्षूंषि च मनांसि च।
न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम्॥६॥
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट्।
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः॥७॥
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः।
महती देवता ह्येषा नररूपेण तिष्ठति॥८॥
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम्।
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम्॥९॥
कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः।
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः॥१०॥
यस्य प्रसादे पद्मास्ते विजयश्चपराक्रमे।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥११॥
तं यस्तु द्वेष्टि संमोहात् स विनश्यत्यसंशयम्।
तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः॥१२॥
तस्माद्धर्मं यमिष्टेषु स व्यवस्येन्नराधिपः।
अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत्॥१३॥
तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम्।
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः॥१४॥
तस्य सर्वाणि भूतानि स्थावराणि चराणि च।
भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च॥१५॥
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः।
यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु॥१६॥
स राजा पुरुषो दण्डः स नेता शासिता च सः।
चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः॥१७॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः॥१८॥
समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः॥१९॥
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः।
शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः॥२०॥
अद्यात्काकः पुरोडाशं श्वावलिह्याद्धविस्तथा।
स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम्॥२१॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः।
दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते॥२२॥
देवदानवगन्धर्वा रक्षांसि पतगोरगाः।
तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः॥२३॥
दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात्॥२४॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति॥२५॥
तस्याहुः संप्रणेतारं राजानं सत्यवादिनम्।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम्॥२६॥
तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्धते।
कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते॥२७॥
दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः।
धर्माद्विचलितं हन्ति नृपमेव सबान्धवम्॥२८॥
— मानवधर्मशास्त्रे सप्तमोऽध्यायः।
EXERCISES
1 Dissolve and name the compounds — यथावृत्तः। यथाविधिअराजके। भूमिपः। राजाग्निः। पापहा। समीक्ष्यकारिणम्। सबान्धवम्।
2 Decline — श्री। श्वन्। पापहन्।
NOTES
यथावृत्तो भवेन्नुपः How a king should act. संभव Origin. ब्राह्मंसंस्कारं प्राप्तेन By one who is invested with the sacred thread. मात्रा
निर्हृत्य = अंशानाकृष्य। तपति Overpowers or dazzles. धर्मराज् God of death. दुरुपसर्पिणम् Who approaches carelessly. विश्वरूपं कुरुते Plays different roles. पद्मा Wealth.धर्म Rule, course of conduct. व्यवस्येत्Might lay down. न विचालयेत् Should not transgress. भोगाय कल्पन्तेAre able to enjoy (their respective rights etc.). यथार्हतः = यथायोग्यम्। संप्रणयेत् Should inflict. प्रवर्तेताधरोत्तरम् Everything would be topsyturvy. दण्डजितःHeld in check by ( fear of) punishment. विभ्रमात्By non-intiction ( of punishment ). नेता, प्रणेता = शासिता। विषमःNot impartial. अकृतात्मन् Whose mind is not well-trained ( in duty).
१७ वसुरक्षितः अनन्तवर्माणमुपदिशति
[This is an extract from the Dashakumāra-charitam of Daṇḍin. Vasurakshita is the faithful minister of the deceased father of Anantavarman. This latter king did not care for the affairs of the state and the faithful minister, therefore, seizes an opportunity to advise him privately. This piece of advice had but a temporary effect on the king who again fell a prey to the vicious counsels of a wicked man.]
अस्ति विदर्भोनाम जनपदः। तस्मिन्भोजवंशभूषणमंशावतार इव धर्मंस्वातिसत्त्वः सत्यवादी वदान्यो विनीतो विनेता प्रजानां रञ्जितभृत्यः कीर्तिमानुग्रो बुद्धिमूर्तिभ्यामुत्थानशीलः शास्त्रप्रमाणः शक्यभव्यकल्पारम्भी संभावयिता बुधान्प्रभावयिता सेवकानुद्भावयिता बन्धून्न्यग्भावयिता शत्रूनसंबद्धप्रलापेष्वदत्तकर्णः कदाचिदप्यवितृष्णो गुणेष्वतिनदीष्णः कलासु नेदिष्ठो धर्मार्थसंहितासु स्वल्पेऽपि सुकृते सुतरां प्रत्युपकर्ता प्रत्यवेक्षिता कोशवाहनयोर्यत्नेन परीक्षिता सर्वाध्यक्षाणामुत्साहयिता कृतकर्मणामनुरूपैर्दानमानैः सद्यः प्रतिकर्ता दैवमानुषीणामापदां षाड्गुण्योपयोगनिपुणो मनुमार्गेण प्रणेता चातुर्वर्ण्यस्य पुण्यश्लोकः पुण्यवर्मा नामासीत्। स पुण्यैः कर्मभिः प्राप्य पुरुषायुषं पुनरपुण्येन प्रजाजनानामगण्यतामरेषु। तदनन्तरमनन्तवर्मा नाम तदायतिरवनिमध्यतिष्ठत्। स सर्वगुणैः समृद्धोऽपि दैवाद्दण्डनीत्यां नात्यादृतोभूत्। तमेकदा रहसि वसुरक्षितो नाम मन्त्रिवृद्धः पितुरस्य बहुमतः प्रगल्भवागभाषत। तात सर्वैवात्मसंपदभिजनात्प्रभृत्यन्यूनैवात्रभवति लक्ष्यते। बुद्धिश्च निसर्गपट्वीकलासु नृत्यगीतादिषु चित्रेषु च
काव्यविस्तरेषु प्राप्तविस्तारा तवेतरेभ्यः प्रतिविशिष्यते। तथाप्यसावप्रतिपद्यात्मसंस्कारमर्थशास्त्रेष्वनग्निसंशोधितेव हेमजातिर्नातिभाति बुद्धिः। बुद्धिहीनो हि भूभृदत्युच्छ्रितोऽपि परैरध्यारुह्यमाणमात्मानं न चेतयते। न च शक्तः साध्यं साधनं वा विभज्य वर्तितुम्। अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभूयते। न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमयोराराधनाय। अतिक्रान्तशासनाश्च प्रजा यत्किञ्चनवादिन्यो यथाकथञ्चिद्वर्तिन्यः सर्वाः स्थितीः संकिरेयुः। निर्मर्यादश्च लोको लोकादितोऽमुतश्च स्वामिनमात्मानं च भ्रंशयते। आगमदीपदृष्टेन खल्वध्वना सुखेन वर्तते लोकयात्रा। दिव्यं हि चक्षुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिषु च विषयेषु शास्त्रं नामाप्रतिहतवृत्ति। तेन हीनः सतोरप्यायतविशालयोर्लोचनयोरन्ध एव जन्तुरर्थदर्शनेष्वसामर्थ्यात्। अतो विहाय बाह्यविद्यास्वभिषङ्गमागमय दण्डनीतिं कुलविद्याम्। तदर्थानुष्ठानेन चावर्जितशक्तिसिद्धिरस्खलितशासनः शाधि चिरमुदधिमेखलामुर्वीमिति।
— दशकुमारचरितम्।
EXERCISES
1Dissolve und name the compounds—
रञ्जितभृत्यः। शास्त्रप्रमाणः। शक्यभव्यकल्पारम्भी। अदत्तकर्णः। अवितृष्णः। षाड्गुण्योपयोगनिपुणः। पुरुषायुषम्। पुण्यश्लोकः। तदायतिः। मन्त्रिवृद्धः। भूभृत्। यथाकथञ्चिद्वर्तिन्यः। आयतविशालयोः। अनुरूपैः।
2 Name fully—
सम्भावयिता। प्रभावयिता। उद्भावयिता। न्यग्भावयिता। अतिनदीष्णः। नेदिष्ठः। सुतराम्। अत्रभवति। पट्वी। अध्यारुह्यमाणम्। विभज्य। संकिरेयुः। भ्रंशयते। अध्वना। शाधि।
3 Note the use of—
प्रभृति। प्र + भू। आदृत। प्रति + वि + शिष्। स्थाने।
4 Note the usages—
असंबद्धप्रलापेष्वदत्तकर्णः। अवितृष्णो गुणेषु। अगण्यतामरेषु। तदायतिरवनिमध्यतिष्ठत्। बुद्धिहीनो हि भूभृदत्युच्छ्रितोपि परैरध्यारुह्यमाणमात्मानं न चेतयते। न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमयोराराधनाय।
NOTES
अभ्युत्थानशील Disposed to activity. प्रभावयिता Investing with authority. न्यग्भावयिता Putting down. अतिनदीष्णःVery proficient.अगण्यतामरेषु Died ( was reckoned among the immortals ). तदायतिHis descendent. सर्वैवात्मसम्पद् Every self-excellence. अप्रतिद्यात्मसंस्कारंetc. Without being trained in the science of polity. अयथावृत्तःActing wrongly. संकिरेयुःWill cause confusion. आवर्जितशक्तिसिद्धिःHaving accomplished the ( three royal ) powers.
१८ द्रौपदी युधिष्ठिरमधिक्षिपति
[This is an extract from the Mahābhārata. Kauravas had troubled and insulted the Pāṇḍavas so much that even Draupadīwas one day excited and in her excitement she rebuked the eldest Pāṇḍava saying that his tranquility and want of anger even at that stage meant that he had no courage and valour in him.
Yudhishṭhira, in answer, only pointed out that anger and valour are quite different from one another and that forgiveness is not only valour itself but a great source of strength and success as well. ]
वैशम्पायन उवाच।
ततो वनगताः पार्थाः सायाह्ने कृष्णया सह।
उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः॥१॥
प्रिया च दर्शनीया च पण्डिता च पतिव्रता।
अथ कृष्णा धर्मराजमिदं वचनमब्रवीत्॥२॥
द्रौपद्युवाच।
न नूनं तस्य पापस्य दुःखमस्मासु किञ्चन।
विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः॥३॥
यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम्।
वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः॥४॥
आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः।
यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा॥५॥
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गुणः।
ईदृशं दुःखमानीय मोदते पापपूरुषः॥६॥
चतुर्णामेव पापानामस्रं न पतितं तदा।
त्वयि भारत निष्क्रान्ते वनायाजिनवाससि॥७॥
दुर्योधनस्य कर्णस्य शकुनेश्चदुरात्मनः।
दुर्भ्रातुस्तस्य चोग्रस्य राजन्दुःशासनस्य च॥८॥
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम।
दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम्॥९॥
इदं च शयनं दृष्ट्वायच्चासीत्ते पुरातनम्।
शोचामि त्वां महाराज दुःखानर्हं सुखोचितम्॥१०॥
दान्तं यच्च सभामध्य आसनं रत्नभूषितम्।
दृष्ट्वाकुशबृसीं चेमां शोको मां रुन्धयत्ययम्॥११॥
यदपश्यं सभायां त्वां राजभिः परिवारितम्।
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे॥१२॥
या त्वाऽहं चन्दनादिग्धमपश्यं सूर्यवर्चसम्।
सा त्वां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत॥१३॥
या त्वाऽहं कौशिकैर्वस्त्रैः शुभ्रैराच्छादितं पुरा।
दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम्॥१४॥
यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः।
ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम्॥१५॥
यतीनामगृहाणां ते तथैव गृहमेधिनाम्।
दीयते भोजनं राजन्नतीव गुणवत्प्रभो॥१६॥
सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे।
सर्वकामैः सुविहितैर्यदपूजयथा द्विजान्।
तच्च राजन्नपश्यन्त्याः का शन्तिर्हृदयस्य मे॥१७॥
यत्ते भ्रातृृन्महाराज युवानो मृष्टकुण्डलाः।
अभोजयन्त मृष्टान्नैःसूदाः परमसंस्कृतैः॥१८॥
सर्वांस्तानद्य पश्यामि वने वन्येन जीविनः।
अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः॥१९॥
भीमसेनमिमं चापि दुःखितं वनवासिनम्।
ध्यायतः किं न मन्युस्ते प्राप्ते काले विवर्धते॥२०॥
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युतम्।
सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते॥२१॥
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा।
तं ते वनगतं दृष्ट्वाकस्मान्मन्युर्न वर्धते॥२२॥
अयं कुरूव्रणे सर्वान् हन्तुमुत्सहते प्रभुः।
त्वत्प्रतिज्ञां प्रतीक्षंस्तु सहतेऽयं वृकोदरः॥२३॥
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना।
शरावमर्दे शीघ्रत्वात् कालान्तकयमोपमः॥२४॥
यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः।
यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे॥२५॥
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः।
ध्यायन्तमर्जुनं दृष्ट्वा कस्माद्राजन्न कुप्यसि॥२६॥
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्।
न च ते वर्धते मन्युस्तेन मुह्यामि भारत॥२७॥
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्।
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते॥२८॥
यो यानैरद्भुताकारैर्हयैर्नागैश्चसंवृतः।
प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परन्तप॥२९॥
क्षिपत्येकेन बाणेन पञ्च बाणशतानि यः।
तं ते वनगतं दृष्ट्वाकस्मान्मन्युर्न वर्धते॥३०॥
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे।
नकुलं ते घने दृष्ट्वा कस्मान्मन्युर्न वर्धते॥३१॥
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर।
सहदेवं वने दृष्ट्वा कस्मात्क्षमसि पार्थिव॥३२॥
नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ।
अदुःखार्हौमनुष्येन्द्र कस्मान्मन्युर्न वर्धते॥३३॥
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः।
धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम्।
मां वै वनगतां दृष्ट्वा कस्मात्क्षमसि पार्थिव॥३४॥
नूनं च तव वै नास्ति मन्युर्भरतसत्तम।
यत्ते भातृृंश्च मां चैव दृष्ट्वा न व्यथते मनः॥३५॥
न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्।
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत्॥३६॥
यो न दर्शयते तेजः क्षत्रियः काल आगते।
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत॥३७॥
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचन।
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः॥३८॥
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति।
अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति॥३९॥
तदहं तेजसः कालं तव मन्ये नराधिपः।
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु॥४०॥
नहि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति।
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि॥४१॥
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः।
काले प्राप्ते द्वयं चैतद्यो वेद स महीपतिः॥४२॥
— महाभारते वनपर्व।
EXERCISES
1 Dissolve and name the compounds— सायाह्ने। दुष्टात्मा। धर्मपरम् अजिनवाससि। पङ्कमलादिग्धम्। उच्चावचैः। द्विबाहुः। एकरथः। वीरपत्नीम्। निर्मन्युः।
2 Substitute grammatically correct forms for — प्रतीक्षन्। क्षमसि।
3 Name fully— प्रतिवासितम्। आयसम्। रुन्धयति। चीरिणम्। युवानः। ध्यायन्तम्।
NOTES
सायाह्ने In the evening. कृष्णा = द्रौपदी। तस्य अस्मासु न किञ्चन दुःखं विद्यते He does not in the least feel sorry for us. अजिनैः प्रतिवासितम्You who are made to wear the skin of a deer for clothes. ईदृशं दुःखमानीय Bringing (you ) to such grief. चतुर्णांपापानां of the four wicked persons viz. Duryodhana, Karņa, Shakuni and Dusshāsana (mentioned in the next verse). कुशबृसी A seat of Kusha grass.कौशिक Silk. चीरिन् Wearing barks (of trees ), clothed in barks.
प्रतीक्षन् Waiting for. ( प्रतीक्षमाणः ) एकरथोजयत् Conquered them, being a very skilled chariot-fighter. Cf. अजयदेकरथेन वरूथिनीम् Raghu. IX. 10 and 23. मन्युAnger. मृदुर्भवत्यषज्ञातः cf. मृदु सर्वत्र बाध्यते। काले प्राप्ते etc.Cf. तेजःक्षमा वा नैकान्तं कालज्ञस्य महीपतेः। पराक्रमः परिभवे। Magha’s Shishu. II.
१९ युधिष्ठिरप्रतिवचनम्
युधिष्ठिर उवाच।
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः।
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ॥१॥
यो हि संहरते क्रोधं भवस्तस्य सुशोभने।
यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे।
तस्याभावाय भवति क्रोधः परमदारुणः॥२॥
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते।
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम्॥३॥
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि।
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते॥४॥
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा॥५॥
हिंस्यात्क्रोधादवध्यांस्तु वध्यान्संपूजयेत च।
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम्॥६॥
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः।
इच्छद्भिः परमश्रेय इह चामुत्र चोत्तमम्॥७॥
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत्।
एतद्द्रौपदि संधाय न मे मन्युः प्रवर्धते॥८॥
आत्मानं च परांश्चैव त्रायते महतो भयात्।
क्रुध्यन्तमप्रतिक्रुध्यन् द्वयोरेष चिकित्सकः॥९॥
मूढो यदि क्लिश्यमानः क्लिश्यतेऽशक्तिमान्नरः।
बलीयसां मनुष्याणां त्यजत्यात्मानमात्मना॥१०॥
तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः।
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम्॥११॥
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन्।
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम्॥१२॥
यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम्।
अतिक्रमो मद्विधस्य कथंस्वित्स्यादनिन्दिते॥१३॥
यदि न स्युर्मानुषेषु क्षमिणः पृथिवीसमाः।
न स्यात्संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः॥१४॥
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः।
एवं विनाशो भूतानामधर्मः प्रथितो भवेत्॥१५॥
आक्रुष्टः पुरुषः सर्व प्रत्याक्रोशेदनन्तरम्।
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः॥१६॥
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन्।
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च॥१७॥
एवं संकुपिते लोके जन्म कृष्णे न विद्यते।
प्रजानां संधिमूलं हि जन्म विद्धि शुभानने॥१८॥
ताः क्षिपेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे।
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च॥१९॥
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः।
तस्माज्जन्म च भूतानां भवश्चप्रतिपद्यते॥२०॥
क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने।
क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम्॥२१॥
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा।
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः॥
प्रभाववानपि नरस्तस्य लोकाः सनातनाः॥२२॥
क्षमा यज्ञः क्षमा धर्मः क्षमा वेदाः क्षमा श्रुतम्।
य एतदेवं जानाति स सर्वं क्षन्तुमर्हति॥२३॥
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च।
क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत्॥२४॥
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम्।
क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः॥२५॥
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत्।
यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा॥२६॥
सुयोधनो नार्हतीति क्षमामेवं न विन्दति।
अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा॥२७॥
— महाभारते वनपर्व।
EXERCISES
1 Dissolve and name the compounds— क्रोधमूलौ। स्वधर्मानपगः। क्रोधमूलः। शुभानने। पृथिवीसमाः। अस्मद्विधः। सुशोभने।
2 Name fully — संत्यजतः। अभिषजेत्। विद्वान्। चोद्यमानः।
3 Note — **क्रोधमूलौ भवाभवौ। श्रेयान्स्वधर्मानपगः। ** Cf. श्रेयान्स्वधर्मो विगुणः। क्रोधमूलो हि विग्रहः। मन्युर्विनाशाय प्रजानामभवाय च। क्षन्तन्यं पुरुषेणेह सर्वापत्सु।
NOTES
भावयिता Opp. हन्ता। स्वधर्मानपगःWho does not deviate from his duty. (स्वधर्मात् न अपगच्छति इति). अतिक्रान्तं = अतिक्रमःViolation (of qualities like mercy). Construe—‘यदि सर्वंअतिक्रान्तं अचेतसां अबुद्धीनां च (अस्ति) तद् मद्विधस्य कथंस्विद् अतिक्रमः स्यात्’ How is transgression possible in persons like me if all transgression belongs to heartless fools. सुयोधनो नार्हतीति etc. Suyodhana is not able to praetise forgiveness and he does not deserve (to get the kingdom); while that power (of forgiveness) has come to me only because I deserve that (i. e. kingship).
२० किरातार्जुनीयम्।
[This episode is taken from the Mahābhārata.
Arjuna, desirous of obtaining an unerring missile from god Shiva, went to the Himālayas and began to practise severe penance. God Shiva was pleased with him but before bestowing any boon on
him he wanted to test his devotee. He, therefore, disguised himself as a Kirāta and found an excuse to fight with Arjuna who showed his best skill, but was defeated. It was only at the time of worshipping the idol that Arjuna came to identify the Kirāta with God Shiva. God Shiva being pleased then bestowed on him the desired missile.]
युधिष्ठिरनियोगात्स जगामामितविक्रमः।
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शङ्करम्॥१॥
दिव्यं तद्धनुरादाय खड्गंच कनकत्सरुम्।
महाबलो महाबाहुरर्जुनः कार्यसिद्धये॥२॥
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति।
ऐन्द्रिः स्थिरमना राजन् सर्वलोकमहारथः॥३॥
त्वरया परया युक्तस्तपसे धृतनिश्चयः।
वनं कण्टकितं घोरमेकमेवान्वपद्यत॥४॥
नानापुष्पफलोपेतं नानापक्षिनिषेवितम्।
नानामृगगणाकीर्णं सिद्धचारणसेवितम्॥५॥
सोऽतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः।
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा॥६॥
तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गुनादितान्।
नदीश्चविपुलावर्ता वैदूर्यविमलप्रभाः॥७॥
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः।
पुण्यशीतामलजलाः पश्यन्प्रीतमनाऽभवत्॥८॥
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा।
तपस्युग्रे वर्तमान उग्रतेजा महामनाः॥९॥
पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः।
द्विगुणेन हि कालेन द्वितीयं मासमत्ययात्॥१०॥
तृतीयमपि मासं स पक्षेणाहारमाचरन्।
चतुर्थेत्वथ संप्राप्ते मासे भरतसत्तमः॥११॥
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः।
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रधिष्ठितः॥१२॥
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः।
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः॥१३॥
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम्।
तं प्रणम्य महादेवं शशंसुः पार्थकर्म तत्॥१४॥
उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः।
संतापयति नः सर्वानसौ साधु निवार्यताम्॥१५॥
तेषां तद्वचनं श्रुत्वा मुनीनां भावितात्मनाम्।
उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह॥१६॥
महादेव उवाच।
न वो विषादः कर्तव्यः फाल्गुनं प्रति सर्वशः।
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः॥१७॥
अहमस्य विजानामि संकल्पं मनसि स्थितम्।
यत्तस्य कांक्षितं सर्वं तत्करिष्येऽहमद्य वै॥१८॥
वैशम्पायन उवाच।
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु।
पिनाकपाणिर्भगवान्सर्वपापहरो हरः॥१९॥
कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम्।
विभ्राजमानो विपुलो गिरिर्मेरुरिवापरः॥२०॥
श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान्।
निष्पपात महावेगो दहनो देहवानिव॥२१॥
देव्या सहोमया श्रीमान् समानव्रतवेषया।
नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा॥२२॥
स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः।
मूकं नाम दनोः पुत्रं ददर्शाद्भुतर्शनम्॥२३॥
वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम्।
हन्तुं परं दीप्यमानं तमुवाचाथ फाल्गुनः॥२४॥
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान्।
सज्जं धनुर्वरं कृत्वा ज्याघोषेण निनादयन्॥२५॥
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम्।
तस्मात्त्वां पूर्वमेवाहं नेताद्य यमसादनम्॥२६॥
दृष्ट्वा तं प्रहरिष्यन्तं फाल्गुनं दृढधन्विनम्।
किरातरूपी सहसा वारयामास शङ्करः॥२७॥
मयैष प्रार्थितः पूर्वमिन्द्रकीलसमप्रभः।
अनादृत्य च तद्वाक्यं प्रजहाराथ फाल्गुनः॥२८॥
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः।
प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपम्॥२९॥
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः।
मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा॥३०॥
स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम्।
किरातवेषसंछन्नं स्त्रीसहायममित्रहा॥३१॥
तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव।
किमर्थं च त्वया विद्धो वराहो मत्परिग्रहः॥३२॥
न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि।
तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रयम्॥३३॥
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव।
उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम्॥३४॥
किरात उवाच।
ममैष लक्ष्यभूतो हि मम पूर्वपरिग्रहः।
ममैव च प्रहारेण जीविताद्व्यपरोपितः॥३५॥
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः।
अवलिप्तोऽसि मन्दात्मन्नमे जीवन्विमोक्ष्यसे॥३६॥
वैशम्पायन उवाच।
तस्य तद्वचनं श्रुत्वा किरातस्यार्जुनस्तदा।
रोषमाहारयामास ताडयामास चेषुभिः॥३७॥
ततस्तौ तत्र संरब्धौ राजमानौ मुहुर्मुहुः।
शरैराशीविषाकारैस्ततक्षाते परस्परम्॥३८॥
ततोऽर्जुनः शरवर्षं किराते समवासृजत्।
तत्प्रसन्नेन मनसा प्रतिजग्राह शङ्करः॥३९॥
मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक्।
अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः॥४०॥
स दृष्ट्वाबाणवर्षं तु मोघीभूतं धनंजयः।
परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत्॥४१॥
न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः।
शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम्॥४२॥
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः।
अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम्॥४३॥
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः।
व्यसृजच्छतधा राजन्मयूखानिव भास्करः॥४४॥
क्षणेन क्षीणबाणोऽथ संवृत्तः फाल्गुनस्तदा।
भीश्चैनमाविशत्तीव्रा तं दृष्ट्वा शरसंक्षयम्॥४५॥
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः।
अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः॥४६॥
हत्वा चैनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम्।
नयामि दण्डधारस्य यमस्य सदनं प्रति॥४७॥
संप्रयुद्धोधनुष्कोट्या कौन्तेयः परवीरहा।
तदप्यस्य धनुर्दिव्यं जग्राह गिरिगोचरः॥४८॥
ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत।
युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम्॥४९॥
तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि।
मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः॥५०॥
तस्य मूर्धानमासाद्य पफालासिवरो हि सः।
ततो वृक्षैः शिलाभिश्च योधयामास फाल्गुनः॥५१॥
तदा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः।
किरातरूपी भगवांस्ततः पार्थो महाबलः॥५२॥
मुष्टिभिर्वज्रसंकाशैर्धूममुत्पादयन्मुखे।
प्रजहार दुराधर्षे किरातसमरूपिणि॥५३॥
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः।
किरातरूपी भगवानर्दयमास फाल्गुनम्॥५४॥
सुमुहूर्तं च तद्युद्धमभवल्लोमहर्षणम्।
भुजप्रहारसंयुक्तं वृत्रवासवयोरिव॥५५॥
ततोऽभिपीडितैर्गात्रैःपिण्डीकृत इवाबभौ।
फाल्गुनो गात्रसंरुद्धो देवदेवेन भारत॥५६॥
निरुच्छ्वासोऽभवच्चैव सन्निरुद्धो महात्मना।
पपात भूम्यां निश्चेष्टो गतसत्व इवाभवत्॥५७॥
स मुहूर्तं तथा भूत्वा सचेताः पुनरुत्थितः।
रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः॥५८॥
शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम्।
मृण्मयं स्थण्डिलं कृत्वा माल्येनापूजयद्भवम्॥५९॥
तच्च माल्यं तदा पार्थः किरातशिरसि स्थितम्।
अपश्यत्पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः॥६०॥
पपात पादयोस्तस्य ततः प्रीतोऽभवद्भवः।
उवाच चैनं वचसा मेघगम्भीरगीर्हरः।
जातविस्मयमालोक्य ततः क्षीणाङ्गसंहतिम्॥६१॥
भव उवाच।
भो भो फाल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते।
शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः॥६२॥
प्रीतिमानस्मि ते पार्थ भवान्सत्यपराक्रमः।
गृहाण वरमस्मत्तः काङ्क्षितं पुरुषोत्तम॥६३॥
अर्जुन उवाच।
भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज।
कामये दिव्यमस्त्रं तद्धोरं पाशुपतं प्रभो॥६४॥
भव उवाच।
ददामि तेऽस्त्रं दयितमहं पाशुपतं विभो।
समर्थो धारणे मोक्षे संहारे चासि पाण्डव॥६५॥
वैशम्पायन उवाच।
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदार्जुनः।
प्रणम्य शिरसा राजन्प्राञ्जलिर्देवमैक्षत॥६६॥
— महाभारते वनपर्व।
EXERCISES
1 Dissolve and name—अमितविक्रमः। अतिरथः। वायुभक्षः। विद्युदम्भोरुहनिभाः। आशीविषोपमान्। अक्लिष्टकर्मणः। अशनिप्रख्यम्। शैलसंहनने। अमित्रहा। पर्वताश्रयम्। पिनाकधृक्। प्राञ्जलिः। सचेताः। मेघगम्भीरगीः। भृशदारुणैः।
2 Substitute the correct forms for the following—वसमानः। दृढधन्विनम्। किरातसमरूपिणि। अहनत्। पीड्य। व्यक्रमत्। अर्हसे।
3 Note the uses of—प्रति। The future participle (प्रहरिष्यन्तम्)।भ्रंश्Causal। ल्यप + रुह् Causal । परम्पर। ऋते। समर्थ।
4 Note the expressions— तपसे धूतनिश्चयः। तपस्युग्रे वर्तमानः। चतुर्थे मासे संप्राप्ते। न वो विषादः कर्तव्यः। कैरातं वेषमास्थाय। वाराहं रूपमास्थाय किरातवेषसंछन्नः। त्वां जीवितात् भ्रंशयिष्यामि। जीवितात् व्यपरोपितः। भीश्चैनमा विशत्तीव्रा। प्रीतिमानस्मि ते पार्थ।
5 Name fully— धूमाययन्। अतन्द्रिताः। प्रहरिष्यन्तम्। प्रजहार। निपेततुः। भ्रंशयिष्यामि। व्यपरोपितः। ततक्षाते। अस्मत्तः।
NOTES
त्सरु hilt. विहगैर्वल्गुनादिता (वृक्षाः) Trees resounding with the sweet chirping of birds. पुण्यशीतामलजलाः (नदीः) Having holy, cool, clear water. पूर्णे त्रिरात्रे After every three nights. द्विगुणेन कालेन i. e.
पूर्णे षढ्रात्रे After every six nights. पक्ष A fortnight. आशीविषः A serpent. सज्जं कृत्वा Having strung. प्रहरिष्यत् About to strike i-e. discharge (his arrow). मयैष प्रार्थितःI have first aimed at him.अशनिप्रख्य like the thunderbolt (of Indra ). शैलसंहनन Hard as a rock or mountain. स्त्रीसहायःAccompanied by (his) wife. अमित्रहा = शत्रुघ्नः।दोषान्स्वान्नार्हसेetc. It is not proper for you to heap your faults on others. कोऽपि Extra-ordinary. अलोकसामान्यः। संप्रयुद्धः Fought (संप्रायुध्यत. ) असक्त =अप्रतिहत, अकुण्ठित। योधयामास = युयुधे.
२१ राक्षसः स्वप्राणसमर्पणेन चन्दनदासं मोचयति
[Mudrā-Rākshasa, a play from which this piece is taken is the only known work of Vishākhadatta (of Vishākhadeva ), a poet and dramatist of the seventh or the eighth century A. D. Though inferior as a poet, Vishākhadatta surely ranks very high as a play-wright. Mudrā-Rākshasa, in fact, stands second only to Mrichhakaṭika as regards its denouement. In spite of his subject being political, the author has shown great skill in creating and sustaining the interest of his readers from the beginning to the end. This passage is typical of the vigour of style and clarity and impressiveness of expression which are the chief merits of the whole work.
Summary: Chandanadāsa is being led to the stake to be impaled for affording shelter to the family of Rākshasa, an enemy of king Chandragupta. Chandanadāsa, like a true friend, refuses to deliver the family of Rākshasa into the hands of the enemy and prepares himself for death like a brave man. He then tries to console his mourning wife and gives a piece of advice to his son. In the meanwhile the Chāṇḍālas erect the stake and are about to impale him, when Rākshasa suddenly appears on the scene, offers himself up and thus saves Chandanadāsa.]
( ततः प्रविशति द्वितीयचाण्डालानुगतो वध्यवेषधारी शूलं स्कन्धेनादाय
कुटुम्बिन्या पुत्रेण चानुगम्यमानश्चन्दनदासः। )
** चन्दनदासः। (सबाष्पम्) हा धिक्। हा धिक्। अस्माद्दशानामपि नित्यं चारित्र्यभङ्गभीरूणां चोरजनोचितं मरणं भवतीति नमः कृतान्ताय। अथवा**
न नृशंसानामुदासीनेष्वितरेषु वा विशेषोऽस्ति। (समन्तादवलोक्य) भोः प्रियवयस्य विष्णुदास कथं प्रतिवचनमपि न मे प्रतिपद्यसे। अथवा दुर्लभास्ते खलु मानुषा य एतस्मिन् काले दृष्टिपथेऽपि तिष्ठन्ति। एतेऽस्मत्प्रियवयस्या अश्रुपातमात्रेण कृतनिवापसलिला इव कथमपि प्रतिनिवर्तमानाः शोकदीनवदना बाष्पगुर्व्या दृष्ट्या मामनुगच्छन्ति।
चाण्डालः। आर्य चन्दनदास आगतोऽसि वध्यस्थानं तद्विसर्जय परिजनम्।
चन्दनदासः। कुटुम्बिनि निवर्तस्व साम्प्रतम् सपुत्रा। न युक्तं खल्वतः परमनुगन्तुम्।
कुटुं०। (सबाष्पम्) परलोकं प्रस्थित आर्यो न देशान्तरम्।
चन्दन०। आर्येअयं मित्रकार्येण मे विनाशो न पुनः पुरुषदोषेण। तदलं विषादेन।
कुटुं०। आर्य यद्येवं तदिदानीमकालः कुलजनस्य निवर्तितुम्।
चन्द०। अथ किं व्यवसितं कुटुम्बिन्या।
कुटुं०। भर्तुश्चरणावनुगच्छन्त्या आत्मानुग्रहो भवतीति।
चन्दन०। दुर्व्यवसितमिदं त्वया। अयं पुत्रकोऽश्रुतलोकसंव्यवहारो बालोऽनुग्रहीतव्यः।
कटुं०। अनुगृह्णन्त्वेनं प्रसन्ना देवताः। जात पुत्रक पत पश्चिमयोः पितुः पादयोः।
पुत्रः। (पादयोर्निपत्य) किमिदानीं मया तातविरहितेनानुष्ठातव्यम्।
चन्दन०। पुत्र चाणक्यविरहिते देशे वस्तव्यम्।
चाण्डालः। आर्य चन्दनदास निखातः शूलस्तत्सज्जो भव।
कुटुं०। आर्याः परित्रायध्वं परित्रायध्वम्।
चन्दन०। आर्ये अथ किमत्राक्रन्दसि स्वर्गं गतानां तावद्देवा दुःखितं परिजनमनुकम्पते। अन्यच्च मित्रकार्येण मे विनाशो नायुक्तकार्येण। तत् किं हर्षस्थानेऽपि रुद्यते।
प्र० चाण्डा०। अरे बिल्वपत्र गृहाण चन्दनदासम्। स्वयमेव परिजनो गमिष्यति।
** द्वि० चाण्डा०।** अरे वज्रलोमन् एष गृह्णामि।
** चन्दनदासः।** मुहूर्तं तिष्ठ यावत्पुत्रकं सान्त्वयामि। (पुत्रं मूर्ध्नि समाघ्राय) जात अवश्यंभवितव्ये विनाशे मित्रकार्यं समुद्वहमानो विनाशमनुभवामि।
** पुत्रः।** तात किमिदमपि भणितव्यतम्। कुलधर्मः खल्वेषोऽस्माकम्।
( इति पादयोः पतति )
** चण्डा०।** अरे गृहाणैनम्।
** कुटुं०।** ( सोरस्ताडम्) आर्य परित्रायस्व परित्रायस्व।
(प्रविश्य पटाक्षेपेण)
** राक्षसः।** भवति न भेतव्यम्। भो भोः शूलायतना न खलु व्यापादयितव्यश्चन्दनदासः।
येन खामिकुलं रिपोरिव कुलं दृष्टं विनश्यत् पुरा
मित्राणां व्यसने महोत्सव इव स्वस्थेन येन स्थितम्।
आत्मा यस्य वधाय वः परिभवक्षेत्रीकृतोऽपि प्रिय-
स्तस्येयं मम मृत्युलोकपदवी वध्यस्रगाबध्यताम्॥१॥
** चन्दन०।** ( सबाष्पं विलोक्य ) अमात्य किमिदम्।
** राक्षसः।** त्वदीयसुचरितैकदेशस्यानुकरणं किलैतत्।
** चन्दन०।** अमात्य सर्वमपीमं प्रयासं निष्फलं कुर्वता त्वया किमनुष्ठितम्।
** राक्षसः।** सखे स्वार्थ एवानुष्ठितः। कृतमुपालम्भेन। भद्रमुख निवेद्यतां दुरात्मने चाणक्याय।
** वज्र०।** किमिति।
** राक्षसः।**
दुष्कालेऽपि कलावसज्जनरुचौ प्राणैः परं रक्षता
नीतं येन यशस्विनातिलघुतामौशीनरीयं यशः
बुद्धानामपि चेष्टितं सुचरितैः क्लिष्टं विशुद्धात्मना
पूजार्होऽपि स यत्कृते तव गतः शत्रुत्वमेषोऽस्मि सः॥ २॥
— मुद्राराक्षसे सप्तमोऽङ्कः।
EXERCISES
1 Note the formation of अस्मादृश and त्वदीय. Can you give any other words thus formed?
2 Note the use of—अलम्। स्थाने। नि+विद्Causal । मुक्त्वा।कथमपि। नमः।
3 Illustrate fully the use of (1) अलम् (2) Loc. Abs. Construction.
4 Dissolve and name the compounds— चोरजनोचितम्। चारित्रभङ्गभीरु। दृष्टिपथः। देशान्तरम्। अश्रुतलोकसंव्यवहारः। सोरस्ताडम्। दुरात्मा त्वदीयसुचरितैकदेशः।
5 Decline पथिन्। मथिन्। ऋभुक्षिन्।
6 Study the following usages-
(a) अस्मादृशानामपि चोरजनोचितं मरणं भवतीति नमः कृतान्ताय।
(b) न नृशंसानामुदासीनेष्वितरेषु वा विशेषोऽस्ति।
(c) प्रतिवचनमपि मे न प्रतिपद्यते।
(d) दुर्लभास्ते खलु मानुषा य एतस्मिन्काले दृष्टिपथेऽपि तिष्ठन्ति।
(e) शरीरैः कथमपि निवर्तमाना दृष्ट्या मामनुगच्छन्ति।
(f) विसर्जय गृहजनम्।
(g) इदानीमकालः कुलजनस्य निवर्तितुम्।
(b) पत पितुः पश्चिमयोः पादयोः।
(i) तत्किंहर्षस्थानेऽपि रुद्यते।
(j) मित्रकार्यं समुद्वहमानो विनाशमनुभव।
(k) किमिदमपि भणितव्यम्।
(l) त्वदीयसुचरितैकदेशस्यानुकरणमेतत्।
NOTES
** अस्मादृशानां…… कृतान्ताय** Bow to the god of death, that people like us who are afraid of deviating from the path of duty should die the death of a bandit ! विशेषःDistinction अन्तरम्। प्रतिवचनमपि मे न प्रतिपद्यते Does not give me any response. कृतनिवासलिलाःWho have offered libations of water. असज्जनरुचौ (कलौ) (Kali Age) in which tastes of the poeple are wicked. **प्राणैः ** i. e. प्राणव्ययेन At the cost of his life. क्लिष्टम् Eclipsed. औशीनरीयं यशःThe glory of Shibi, who is said to have rescued & pigeon (अग्नि) from a falcon ( इन्द्र ) by offering himself instead.
२२ अजविलापः
[ This is an extract from Raghuvamsham of Kālidāsa ]
विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम्।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु॥१॥
कुसुमान्यपि गात्रसङ्गमात् प्रभवन्त्यायुरपोहितुं यदि।
न भविष्यति हन्त साधनं किमिवान्यत् प्रहरिष्यतो विधेः॥२॥
अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः।
हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता॥३॥
स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम्।
विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया॥४॥
अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा।
यदनेन तरुर्न पातितः क्षपिता तद्विपाश्रिता लता॥५॥
कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि।
कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे॥६॥
ध्रुवमस्मि शठः शुचिस्मिते विदितः कैतववत्सलस्तव।
परलोकमसंनिवृत्तये यदनापृच्छय गतासि मामितः॥७॥
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम्।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः॥८॥
कुसुमोत्खचितान् वलीभृतश्चलयन् भृङ्गरुचस्तवालकान्।
करभोरु करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः॥९॥
तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे।
ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः॥१०॥
इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम्।
निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम्॥११॥
शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम्।
इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः॥१२॥
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम्।
तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम्॥१३॥
कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम्।
पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः॥१४॥
त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया।
विरहे तव मे गुरुव्यथं हृहयं न त्ववलम्बितुं क्षमाः॥१५॥
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ।
अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसाम्प्रतम्॥१६॥
कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति।
अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम्॥१७॥
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम्।
अमुना कुसुमाश्रवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे॥१८॥
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया।
असमाप्य विलासमेखलां किमिदं किंनरकण्ठि सुप्यते॥१९॥
समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः।
अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः॥२०॥
धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे॥२१॥
गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्॥२२॥
मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे।
अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम्॥२३॥
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम्।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः॥२४॥
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति।
अकरोपृथिवीरुहानपि स्रुतशाखारसबाष्पदूषितान्॥२५॥
अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीम्।
विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे॥२६॥
प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात्।
न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया॥२७॥
— रघुवंशे अष्टमः सर्गः।
EXERCISES
1 Note the usee of— का कथा। प्र + भू। क्वचित्… वा। ननु। ऋ Causalन……न। नी। नु। प्रति। अनु। वि + सुख्।
2 Dissolve and name the compounds— बाष्पगद्गदम्। हिमसेकविपत्तिः। कैतववत्सलः। शब्दपतिः। विश्रान्तकथम्। विरहान्तरक्षमौ अलकाभरणम्। कुसुमाश्रुवर्षिणा। करुणाविमुखेन। मदिराक्षि। विलोभनान्तरैः। करुणार्थग्रथितम्।
3 Name fully— अपोहितुम्। प्रहरिष्यतः। क्षपिता। अनापृच्छय। विषहिष्यते। उदीरयिष्यति। विससर्ज।
4 Note the proverbial sayings—
(a) अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु।
(b) न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः।
(c) विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया।
(d) धिगिमां देहभृतामसारताम्।
NOTES
मार्दवं भजते Becomes soft. अपोहितुं To rob, to take away. प्रहरिष्यतःDesirous of striking. हिमसेकविपत्तिः etc. The lotus plant whose death is caused by the fall of snow is, I think, another ( previous ) illustration proving the fact that God of Death kills tender objects with tender weapons. भाग्यविप्लवMisfortune. अशनि Lightning.शब्दपतिःLord (husband) only in words (not in actuality). भावनिबन्धना Based on sincerity. त्वदुपावर्तनशङ्कि etc. The king, when ho sees her hair moving with the wind, thinks that the queen has come to life again. विश्रान्तकथं All talk in which has ceased. विरहान्तरThe period of separation. अत्यन्तगता Gone for ever. मिथुन A coupleकृतदोहवःWhose desire was fulfilled (by you)— This refers to the poetical convention that the Ashoka tree blossome only after it is kicked by a woman. निवाप An offering at the Shrāddha. समदुःखसुखः
Sharing your sorrows and joys. एकरसःFull of love. व्यवसायःप्रतिपत्तिनिष्ठुरः Your act is cruel by the reason of its determination.परिशून्य Quite vacant. मधु Wine. एतावत् Only this much. तदन्त्यमण्डनाWith that (i. e. the celestial flowers) as her last decoration. अनलाय विससर्ज Consigned to fire वाच्यदर्शनात् Perceiving the censure.
२३ चित्रपट–दर्शनम्
[This is an extract from Bhavabhūti’s Uttara Rāma-Charitam.
Summary: Lakshmaṇa has brought a picture-album to Sītā for her amusement. This album contains memorable scenes of the early life of Rama. ]
** लक्ष्मणः।** जयत्वार्यः। आर्य, तेन चित्रकारेणास्मदुपदिष्टमार्यस्य चरितमस्यां वीथिकायामभिलिखितम्। तत्पश्यत्वार्यः।
** रामः।** जानासि वत्स दुर्मनायमानां देवीं विनोदयितुम्। तत्कियन्तमवधिं यावत्।
** लक्ष्मणः।** यावदार्यायाः हुताशने विशुद्धिः।
** रामः।** शान्तम्।
उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः॥१॥
देवि, देवयजनसंभवे। प्रसीद। एष ते जीवितावधिः प्रवादः।
कष्टं जनः कुलधनैरनुरञ्जनीयः
तनो यदुक्तमशिवं न हि तत्क्षमं ते।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्नि स्थितिर्न चरणैरवताडनानि॥२॥
** सीता।** भवत्वार्यपुत्र भवतु। एहि। प्रेक्षामहे तावत्ते चरितम्।
( इत्युत्थाय परिक्रामतः। )
** लक्ष्मणः।** इदं तदालेख्यम्। एष मिथिलावृत्तान्तः। आर्ये, पश्य पश्य।
संबन्धिनो वसिष्ठादीनेष तातस्तवार्चति।
गौतमश्च शतानन्दो जनकानां पुरोहितः॥३॥
** रामः।** द्रष्टव्यमेतत्।
जनकानां रघूणां च संबन्धः कस्य न प्रियः।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः॥४॥
** सीता।** एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारोऽपि भ्रातरो विवाहदीक्षिता यूयम्। अम्मो जानाभि तस्मिन्नेव प्रदेशे तस्मिन्नेव काले वर्ते।
** रामः।**
समयः स वर्तत इवैष यत्र मां
समनन्दयत्सुमुखि गौतमार्पितः।
अयमागृहीतकमनीयकङ्कण-
स्तव मूर्तिमानिव महोत्सवः करः॥५॥
** लक्ष्मणः।** इयमार्या। इयमप्यार्या माण्डवी। इयमपि वधूः श्रुतकीर्तिः।
** सीता।** वत्स, इयमप्यपरा का।
** लक्ष्मणः।** (सलज्जस्मितम्। अपवार्य) अये, ऊर्मिलां पृच्छत्यार्या। भवतु। अन्यतः संचारयामि। ( प्रकाशम्) आर्ये दृश्यतां द्रष्टव्यमेतत्। अयं च भगवान् भार्गवः।
** सीता।** ( ससंभ्रमम् ) कम्पितास्मि।
** रामः।** ऋषे नमस्ते।
** लक्ष्मणः।** आर्ये, पश्य पश्य। अयमसावार्येण—
** रामः।** ( साक्षेपम् ) अयि वत्स, बहुतरं द्रष्टव्यम्। अन्यतो दर्शय।
** सीता।** ( सस्नेहबहुमानं निर्वर्ण्य ) सुष्ठु शोभसे, आर्यपुत्र, एतेन विनयमाहात्म्येन।
** लक्ष्मणः।** एते वयमयोध्यां प्राप्ताः।
** रामः।** ( सास्रम् ) स्मरामि हन्त स्मरामि।
जीवत्सु तातपादेषु नवे दारपरिग्रहे।
मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः॥६॥
इयमपि तदा जानकी
प्रतनुविरलैः प्रान्तोन्मीलन्मनोहरकुड्मलै-
र्दशनमुकुलैर्मुग्धालोकं शिशुर्दधती मुखम्।
ललितललितैर्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमै-
रकृत मधुरैरम्बानां मे कुतूहलमङ्गकैः॥७॥
** लक्ष्मणः।** एषा मन्थरा।
** रामः।** (सत्वरमन्यतो दर्शयन्) देवि वैदेहि \।
इङ्गुदीपादपः सोऽयं शृङ्गवेरपुरे पुरा।
निषादपतिना यत्र स्निग्धेनासीत्समागमः॥८॥
** लक्ष्मणः।** (विहस्य। स्वगतम्) अये मध्यमाम्बावृत्तान्तोऽन्तरित आर्येण।
** सीता।** एषा प्रसन्नपुण्यसलिला भगवती भागीरथी।
** रामः।** देवि, रघुकुलदेवते, नमस्ते।
तुरगविचयव्यग्रानुर्वीभिदः सगराध्वरे
कपिलमहसा रोषात्प्लुष्टान् पुरा प्रपितामहान्।
अगणिततनूतापं तप्त्वा तपांसि भगीरथो
भगवति तव स्पृष्टानद्भ्यिश्चिरादुददीधरत्॥९॥
सा त्वमम्ब स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भव।
** लक्ष्मणः।** एषा पञ्चवट्यां शूर्पणखा।
** सीता।** हा आर्यपुत्र, एतावत्ते दर्शनम्।
** रामः।** अयि विप्रयोगत्रस्ते, चित्रमेतत्।
** सीता।** यथा तथा भवतु। दुर्जनोऽसुखमुत्पादयति।
** रामः।** हन्त वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति।
** लक्ष्मणः।**
अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना
तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि।
जनस्थाने शून्ये विकलकरुणैरार्यचरितै-
रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्॥१०॥
** सीता।** अयि देव रघुकुलानन्द, एवं मम कारणात् क्लिष्टोऽसि।
लक्ष्मणः। (रामं निर्वर्ण्य।साकूतम्।) आर्य किमेतत्।
अयं ते बाष्पौघस्त्रुटित इव मुक्तामणिसरो
विसर्पन् धाराभिर्लुठति धरणीं जर्जरकणः।
निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया
परेषामुन्नेयो भवति च भराध्मातहृदयः॥११॥
** रामः।** वत्स,
तत्कालं प्रियजनविप्रयोगजन्मा
तीव्रोऽपि प्रतिकृतिवाञ्छ्या विसोढः।
दुःखाग्निर्मनसि पुनर्विपच्यमानो
हृन्मर्मव्रण इव वेदनां तनोति॥ १२॥
सीता। हा धिक् हा धिक्। अहमप्यतिभूमिं गतेन रणरणकेनार्यपुत्रशून्यमिवात्मानं समर्थये।
लक्ष्मणः। (स्वगतम्) भवत्वन्यतः क्षिपामि। (चित्रं विलोक्य प्रकाशम्) अथैतन्मन्वन्तरपुराणगृध्रराजस्य तत्रभवतस्तातजटायुषश्चरित्रविक्रमोदाहरणम्।
सीता। हा तात निर्व्यूढस्तेऽपत्यस्नेहः।
** रामः।** हा तात काश्यप शकुन्तराज, क्व नु खलु पुनस्त्वादृशस्य महतस्तीर्थस्य साधोः संभवः।
** सीता।** वत्स, एष किंनामधेयो गिरिर्यत्र मूर्छस्त्वया प्ररुदितेनावलम्बितस्तरुतल आर्यपुत्र आलिखितः।
लक्ष्मणः।
सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यस्मिन्
नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः।
आर्येणास्मिन्
रामः। विरम विरमातः परं न क्षमोऽस्मि
प्रत्यावृत्तः स पुनरिव मे जानकीविप्रयोगः॥१३॥
लक्ष्मणः। अतः परमार्यस्य तत्रभवतां कपिराक्षसानां चासंख्यातान्युत्तरोत्तराणि कर्माश्चर्याणि। परिश्रान्ता चेयमार्या। तद्विज्ञापयामि विश्राम्यतामिति।
— उत्तररामचरिते प्रथमोऽङ्कः।
EXERCISES
1 Dissolve and name the compounds —हुताशनः। पावनान्तरम्। जीवितावधिः। कुलधनः। प्रतनुविरलाः। मुग्धालोकम्। मध्यमाम्बावृत्तान्तः। प्रसन्नपुण्यसलिला। अगणिततनूतापम्। विप्रयोगत्रस्ता। दुःखाग्निः। तोयवाहः।
2 Name fully — दुर्मनायमानाम्। चत्वारः। चिन्त्यमानानाम्। दधती। अन्तरितः। उददीधरत्। उन्नेयः। विसोढः। निर्व्यूढः।
3 Note the use of —यावत्। अर्ह्। ज्ञा। यथा……तथा। कारणम्। तत्रभवत्। सम्+अर्थ्।
4 Write a note on nominal verbs.
5 How are Present Participles formed? Write a note on the formation of their feminine bases.
6 Decline अम्बा। अप्।
7 Note the following usages ;—
(a) कियन्तमवधिं यावत्।
(b) एष ते जीवितावधिः प्रवादः।
(c) जानामि तस्मिन्नेव प्रदेशे तस्मिन्नेव काले वर्ते।
(d) अन्यतः संचारयामि।
(e) मध्यमाम्बावृत्तान्तोऽन्तरित आर्येण।
(f) अगणिततनूतापं तपांसि तप्त्वा….।
(g) सीतायां शिवानुध्याना भव।
(h) निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति।
(i) निर्व्यूढस्तेऽपत्यस्नेहः।
NOTES
उपदिष्ट Ordered, told. दुर्मनायमाना Feeling gloomy, morose. कियन्तमवधिं यावत् How far, till what point (does the picture show our former life?). जीवितावधि Lasting till death. गोदानमङ्गल The ceremony of trimming the hair (after coming back from the home of the preceptor). This ceremony precedes the marriage ceremony. मुग्धालोकं Looking simple or innocent. मध्यमाम्बा i. e. Kaikeyī. अगणिततनूतापं Not minding the physical trouble. जर्जरकणःBeing shattered to pieces. परेषामुन्नेयो भवति Can be guessed by others, on account of the throbbing of the lips and nostrils. प्रतिकृतिवाञ्छया with the hope of retaliation. उत्तरोत्तराणि कर्माश्चर्याणि More and more wonderful deeds, greater feats.
–––––––––––––
२४ यक्षसंदेशः
[This is an extract from Kalidasa’s exquisite lyric poem Meghadūtam.]
तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं
ब्रूयाएवं तव सहचरो रामगिर्याश्रमस्थः।
अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः
पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव॥१॥
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता-
त्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात्।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट-
स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह॥२॥
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं
वक्त्रच्छायांशशिनि शिखिनां बर्हभारेषु केशान्।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा-
न्हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति॥३॥
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्।
अस्त्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः॥४॥
भित्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः।
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः
पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति॥५॥
नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बे
तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम्।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥६॥
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
शेषान्मासान्गमय चतुरो लोचने मीलयित्वा।
पश्चादावां विरहगुणितं तं तमेवाभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥७॥
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
मा कौलीनादसितनयने मय्यविश्वासिनी भूः।
स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगा-
दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति॥८॥
आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते
शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः॥९॥
कञ्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि।
निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव॥१०॥
एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे
सौहार्दाद्वाविधुर इति वा मय्यनुक्रोशबुद्ध्या।
इष्टान्देशाञ् जलद विचर प्रावृषा संभृतश्री-
र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः॥११॥
— मेघदूतम्।
EXERCISES
1 Name fully — अध्यापन्न। अभूत्। नौ। पश्यन्तीनाम्। गुणवति। विगणयन्। मा गमः। चतुरः। निर्वेक्ष्यावः। रुदती। रमयन्। आश्वास्य। दृष्टा।
2 Note the uses of—उप + कृ। इति। निर्+ विश्। असकृत्। प्र + दिश्। विप्रयोगः। एकान्तम्। एकान्ततः।
3 Dissolve and name the compounds —सुलभविपदाम्। शब्दाख्येयम्। मुक्तास्थूलाः। तुषाराद्रिवाताः। शार्ङ्गपाणिः। असितनयना। विरहध्वंसिनः। त्रिनयनवृषोत्खातकूटात्॥ सम्भृतश्रीः।
4 Study the following usages —मम वचनात्। मन्मुखेन। श्रवणविषयमतिक्रान्तः। अन्यान् चतुरो मासान् गमय। कातरत्वंमा गमः। मयि अविश्वासिनी मा भूः। प्रत्यादेशासान्न खलु भवतो धीरतां कल्पयामि।
5 Note the proverbial lines
(a) प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव।
(b)
कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण।
NOTES
मम वचनात् On my behalf. आत्मनश्चोपकर्तुम् And in order to do good to thyself. अध्यापन्नःis doing well (lit, is not deceased). पूर्वाभाष्यं etc. This is the question that has to be asked first by beings who are easily afflicted with misfortune. शब्दाख्येयं What could be spoken aloud. मन्मुखेन Through me. त्वामालिख्य etc. This is one of the best verses in the writings of Kālidāsa. तस्मिन्नपि = चित्रेऽपि। क्षीर Sap, juice. दक्षिणेन प्रवृत्ताः Blowing in southerly direction. तुषाराद्रिः =हिमालयः। कस्यैकान्तं etc. Cf. चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च। तं तमेवाभिलाषं निर्वेक्ष्यावः We shall enjoy those various desires. कौलीन Scandalous report. स्नेहानाहुः etc. They say, one knows not why (किमपि), that love dies awayduring separation. (In fact, however) affection is strengthened (*lit.*accumulated) as its desire for the object of love is intensified for want of enjoyment प्रत्यादेशान्न खलु etc. Surely I do not take your silence as being due to the refusal (of my request). प्रत्युक्तं हि etc. The good answer & request by actually granting it. [lit. Doing the desired act is the answer that the good give to those who make a request.]
–––––––––
२५ गरुड-प्रतिज्ञा
[ Nāgānanda is one of the plays ascribed to king Harsha who lived in the first half of the seventh century. Shri Harsha writes in a style which is neither very easy and poetic nor the same time very rough and elevated. He is, in point of style, midway between the two, though very often he tends to the latter. Two other plays attributed to him are प्रियदर्शिका and रत्नावली ].
(ततः प्रविशत्यासनस्थः पुरः पतितनायको गरुडः।)
गरुडः।
(आत्मगतम्)
जन्मनः प्रभृति भुजङ्गपतीनश्नता नेदमीदृशमत्याश्चर्यंमया दृष्टपूर्वम्। यदयं महासत्वो न केवलं न व्यथते प्रत्युत प्रहृष्ट इव किमपि दृश्यते। तथाहि
ग्लानिर्नाधिकपीयमानरुधिरस्याप्यस्ति धैर्योदधे-
र्मांसोत्कर्तनजा रुजोऽपि वहतः प्रीत्या प्रसन्नं मुखम्।
गात्रं यन्न विलुप्तमेष पुलकस्तत्र स्फुटो दृश्यते
दृष्टिर्मय्युपकारिणीव निपतत्यस्थापकारिण्यपि॥१॥
तस्कुतूहलमेव जनितमस्यानया धैर्यवृत्त्या। भवतु न भक्षयाम्येवैनम्। पृच्छामि तावत्कोऽयमिति।
(उपरतो भक्षणात्पुरस्तिष्ठति)
नायकः।
शिरामुखैः स्यन्दत एव रक्त-
मद्यापि देहे मम मांसमस्ति।
तृप्तिंन पश्यामि च ते महात्मन्
किं भक्षणात्त्वंविरतो गरुत्मन्॥२॥
गरुडः।
(आत्मगतम्)
आश्चर्यमाश्चर्यम्। कथमस्यामप्यवस्थायामेवमूर्जितमभिधत्ते।
(प्रकाशम्)
अहो महासत्व
आवर्जितं मया चञ्च्वा हृदयात्तव शोणितम्।
धैर्येणानेन च हृतं स्वया हृदयमेव मे॥३॥
तत् कस्त्वमिति श्रोतुमिच्छामि।
** नायकः।** एवं क्षुधाकुलो भवान्न श्रवणयोग्यः। तत् कुरुष्व तावत्प्रथमं मम मांसशोणितेन तृप्तिम्।
शङ्खचूडः।
(सहसोपसृत्य)
तार्क्ष्य न खलु न खलु साहसमनुष्ठेयम्। नायं नागः। परित्यजैनम्। मां भक्षय। अहं तवाहारार्थं प्रेषितोऽस्मि वासुकिना।
(इत्युरो ददाति)
नायकः।
(शङ्खचूडं दृष्ट्वा)
कष्टं विफलीकृतो मे मनोरथः शङ्खचूडेनागच्छता।
गरुडः।
(उभौ निरूप्य )
द्वयोरपि भवतोर्वध्यचिह्नम्। कः खलु नाग इति नावगच्छामि।
शङ्खचूडः। कथमस्थान एव भ्रान्तिः।
आस्तां स्वस्तिकलक्ष्म वक्षसि तनौ नालोक्यते कञ्चुको
जिह्वेजल्पत एव मे न गणिते नाम त्वया द्वे अपि।
तिस्रस्तीव्रविषाग्निधूमपटलव्याजिह्मरत्नत्विषो
नैता दुस्सहशोकफूत्कृतमरुत्स्फीताः फणाः पश्यसि॥४॥
** गरुडः।** [ शङ्खचूडस्य फणान्वीक्ष्य नायकं पश्यन् ] कः खल्वयं मया व्यापादितः।
** शङ्खचूडः।** भो भो अयं विद्याधरवंशतिलको जीमूतवाहनः। परमकारुणिकेनापि त्वयामुं प्रति निष्ठुरमिदमाचरितमज्ञानात्।
** गरुडः।** अये अयमसौ विद्याधरकुमारो जीमूतवाहनः।
मेरो मन्दरकन्दरासु हिमवत्सानौमहेन्द्राचले
कैलासस्य शिलातलेषु मलयप्राग्भारभागेष्वपि।
दिक्कुञ्जेष्वपि तेषु तेषु बहुशो यस्य श्रुतं तन्मया
लोकालोकविचारि चारणगणैरुद्गीयमानं यशः॥५॥
सर्वथा महत्यंहः पङ्के निमग्नोऽस्मि।
** नायकः।** भोः फणिपते किमेवमुद्विग्नोऽसि।
शङ्खचूडः। किमस्थानमिदमावेगस्य।
स्वशरीरमिदं दत्वा तार्क्ष्यात्परिरक्षितं मदीयमिदम्।
युक्तं नेतुं भवतः पातालतलादपि तलं माम्॥६॥
गरुडः। अये करुणार्द्रचेतसानेन महात्मना मद्ग्रासगोचरपतितस्यास्य फणिनः प्राणान् परिरक्षितुं स्वदेह आहारार्थमुपनीतः। तन्महदकृत्यमेतन्मया कृतम्। किं बहुना बोधिसत्व एवायं व्यापादितः। तदस्य महतः पापस्याग्निप्रवेशादृते नान्यत्प्रायश्चित्तं पश्यामि। तत् क्व नु खलु वह्निं समासादयामि। ( दिशोऽवलोक्य। ) अये अमी केऽपि गृहीताग्नय इत एवाभिवर्तन्ते। तथावदेतान्प्रतिपालयामि। अये कोऽयं हा पुत्र जीमूतवाहनेति ब्रवीति। तत्सुव्यक्तमनेनास्य पित्रा भवितव्यम्। ततः कृतमेतदीयेनाग्निना। न शक्नोम्यस्य पुत्रघातालज्जया मुखं दर्शयितुम्। अथवा किमग्निहेतोः पर्याकुलोऽस्मि। तटस्थ एवास्मि जलनिधेः। तद्यावदिदानीम्
ज्वालाभङ्गेस्त्रिलोकग्रसनरसलसत्कालजिह्वाग्रकल्पैः
सर्पद्भिः सप्तहस्तैस्तृणमिव कवलीकर्तुमीशे समुद्रान्।
स्वैरेवोत्पातवातप्रसरपटुतरैर्धुक्षिते पक्षवातै-
रस्मिन् कल्पावसानज्वलनभयकरे वाडवाग्नौ पतामि॥७॥
(इत्युत्थातुमिच्छति)
नायकः। भोः पक्षिराज अलमनेनाध्यवसायेन। नायं प्रतिकारोऽस्य पापस्य।
गरुडः। (जानुभ्यां स्थित्वा कृताञ्जलिः) भो महात्मन् कस्तर्हि कथ्यताम्।
पापकः। शृणु
नित्यं प्राणाभिघातात् प्रतिविरम कुरु प्राक्कृतस्यानुतापं
यत्नात् पुण्यप्रवाहं समुपचिनु दिशन् सर्वसत्वेष्वभीतिम्।
मग्नं येनात्र नैनः फलति परिणतं प्राणिहिंसासमुत्थं
दुर्गाधे वारिपूरे लवणकणमिव क्षिप्तमन्तर्हृदस्य॥८॥
गरुडः। यदाज्ञापयसि।
अज्ञाननिद्रया सुप्तो भवता प्रतिबोधितः।
सर्वप्राणिवधादेष विरतोऽद्यप्रभृत्यहम्॥९॥
— नागानन्दे पञ्चमोऽङ्कः।
EXERCISES
1 Note the uses of — प्रभृति। न केवलं..प्रत्युत। वि + रम्। अस्थाने। किं बहुना। ऋते। भवितव्यम्।
2 Name fully—अश्नता। जनितम्। प्रेषितः। विफलीकृतः। व्यापादितः। उद्गीयमानम्। उद्विग्नः। मग्नः। प्रतिबोधितः। अनुष्ठेयम्। तिस्रः।
3 Dissolve and name the compounds —हृष्टपूर्वम्। श्रवणयोग्यः। मांसशोणितेन। तीव्रविषाग्निधूमपटलव्याजिह्मरत्नत्विषः। परमकारुणिकेन। अंहःपङ्के। मद्ग्रासगोचरपतितस्य। गृहीताग्नयः।
4 Write & note on the formation and dissolution of च्विसमास.
NOTES
शिरामुखैः Though the openings in the veins. ऊर्जितम् Nobly. विफलीकृतो मे मनोरथःHas frustrated my plan. लोकालोक is a mountain to the farthest end of the world. सुव्यक्तं It is clear that. तटस्थ
Standing on the shore. कर्तुमीशे (Sc. वाडवाग्नौ ) Submarine fire that is able to swallow the oceans. कल्पावसानज्वलनभयकरे Frightening like the fire at the time of the destruction of the world. नायं प्रतीकारोऽस्य पापस्य This is not the way to get rid of this sin. प्रतिबोधितः Awakened.
––––––––––––
२६ हनूमान् सीतां समाश्वासयति
[This is an extract from the Sundara-kāṇḍam. Māruti learning from Sītāof the misdeeds of Rāvaṇa consoles her by giving her an assurance that Rāma would soon come and rescue her.]
वानरोऽहं महाभागे दूतो रामस्य धीमतः।
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम्॥१॥
प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना।
समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि॥२॥
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषितम्।
भर्तारमिव संप्राप्तं जानकी मुदिताभवत्॥३॥
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्।
बभूव हर्षोदुग्रं च राहुमुक्त इवोडुराट्॥४॥
ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता।
परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम्॥५॥
विक्रान्तस्त्वंसमर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम।
येनेदं राक्षसपदं स्वयैकेन प्रधर्षितम्॥६॥
शतयोजनविस्तीर्णः सागरो मकरालयः।
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः॥७॥
न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ।
यस्य ते नास्ति संत्रासो रावणादपि संभ्रमः॥८॥
प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम्।
पराक्रममविज्ञाय मत्सकाशं विशेषतः॥९॥
कुशली यदि काकुत्स्थः किं न सागरमेखलाम्।
महीं दहति कोपेन युगान्ताग्निरिवोत्थितः॥१०॥
अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे।
ममैव तु न दुःखानामस्ति मन्ये विपर्ययः॥११॥
कच्चिन्नव्यथते रामः कच्चिन्न परितप्यते।
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः॥१२॥
कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते।
कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः॥१३॥
कच्चिन्न विगतस्नेहो विवासान्मयि राघवः।
कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति राघवः॥१४॥
सुखानामुचितो नित्यमसुखानामनूचितः।
दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति॥१५॥
कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च।
अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च॥१६॥
धर्मापदेशात्त्यजतः स्वराज्यं मां चाप्यरण्यं नयतः पदातेः।
नासीद्यथा यस्य न भीर्न शोकः कच्चित्स धैर्यं हृदये करोति॥१७॥
इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा।
श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा॥१८॥
सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्॥१९॥
न त्वामिस्थां जानीते रामः कमललोचनः।
तेन त्वां नानयत्याशु शचीमिव पुरन्दरः॥२०॥
श्रुत्वैव च वचो मह्यंक्षिप्रमेष्यति राघवः।
चमूं प्रकर्षन्महतीं हर्यृक्षगणसंयुताम्॥२१॥
विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्।
करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्॥२२॥
तत्र यद्यन्तरा मृत्युर्यदि देवा महासुराः।
स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति॥२३॥
तवादर्शनजेनार्येशोकेन परिपूरितः।
न शर्म लभते रामः सिंहार्दित इव द्विपः॥२४॥
न मांसं राघवो भुङ्क्ते न चैव मधु सेवते।
वन्यंसुविहितं नित्यं भक्तमश्नाति पञ्चमम्॥२५॥
नित्यं ध्यानपरी रामो नित्यं शोकपरायणः।
नान्यच्चिन्तयते किञ्चित्स तु कामवशं गतः॥२६॥
अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः।
सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते॥२७॥
दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम्।
बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते॥२८॥
सारामसंकीर्तनवीतशोका रामस्य शोकेन समानशोका।
शरन्मुखेनाम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव॥ २९॥
— रामायणे सुन्दरकाण्डम्
EXERCISES
1 Dissolve and name the compounds —रामनामाङ्कितम्। करविभूषितम्। ताम्रशुक्लायतेक्षणम्। वानरर्षभः। कमललोचनः। हर्यृक्षगणसंयुताम्। ध्यानपरः। स्त्रीमनोहरम्।
2 Note the expressions —क्षीणदुःखफला ह्यसि। शिरस्यञ्जलिमाधाय। न त्वामिहस्थां जानीते राघवः। स्थास्यन्ति पथिरामस्य। न शर्म लभते रामः। भक्तमश्नाति पञ्चमम्।
3 Write anoteon —(1) गोष्पदीकृतः। (2) भर्तुः सन्देशहर्षिता। ( ३ ) कश्चित्।
4 Note the grammatical irregularities in this passage and correct them.
NOTES
विभूषितंAn ornament. उडुराज The lord of constellations i. e. the moon. भर्तुः सन्देशहर्षिता Rejoiced at the message of her husband. राक्षस-
पद The sent of the demon i. e. his capital, Lanka. गोष्पद A small puddle. सागरमेखला Having a girdle of the ( four) oceans. of. चतुरुदधिमालामेखला। शक्तिमन्तौ ( with Loc.) Able to. ममैव न तु दुःखानां etc. cf. ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः Raghu. XIV. विपर्यय end. कच्चित् I hope.मह्यं for मम। विष्टम्भयित्वा for विष्टभ्य। न शर्म लभते He is not happy, he is ill at ease. स्त्रीमनोहर Liked by women. पञ्चमम् In the fifth division of the day.
——————————
२७ शुकनासोपदेशः
[This is an extract from Bana’s Kādambarī. Here we see Shukanāsa giving a piece of advice to Chandrāpīda.]
तात चन्द्रापीड, विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति। केवलं च निसर्गत एवाभानुभेद्यमरत्नालोकोच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम्। अपरिणामोपशमो दारुणो लक्ष्मीमदः। अशिशिरोपचारहार्योऽत्यन्ततीव्रो दर्पदाहज्वरोष्मा। गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वं चेति महतीयं खल्वनर्थपरम्परा। सर्वाविनयानामेकैकमप्येषामायतनं किमुत समवायः। यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः। अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजोभ्रान्तिरविदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः। इन्द्रियहरिणहारिणी च सततमतिदुरन्तेयमुपभोगमृगतृष्णिका। भवादृशा एव भवन्ति भाजनान्युपदेशानाम्। अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशाः। अयमेव चानास्वादितविषयरसस्य ते काल उपदेशस्य। कुसुमशरशरप्रहारजर्जरिते हि हृदये जलमिव गलत्युपदिष्टम्। अकारणं च भवति दुष्प्रकृतेरन्वयः श्रुतं वा विनयस्य। चन्दनप्रभवो न दहति किमनलः। किंवा प्रशमहेतुनापि न प्रचण्डतरीभवति वडवानलो वारिणा। गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नानं नोद्वेगकरः प्रजागरः। विशेषेण तु राज्ञाम्। विरला हि तेषामुपदेष्टारः। प्रतिशब्दक इव राजवचनमनुगच्छति जनो भयात्। अलीकाभिमानोन्मादकारीणि धनानि। राज्यविषविकारतन्द्राप्रदा राजलक्ष्मीः।
आलोकयतु तावत्कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम्। इयं हि लक्ष्मीः क्षीरसागरात्पारिजातपल्लवेभ्यो रागमिन्दुशकलादेकान्तवक्रतामुच्चैःश्रवसश्चञ्चलतां कालकूटान्मोहनशक्तिं मदिराया मदं कौस्तुभमणेरतिनैष्ठुर्यमित्येतानि सहवासपरिचयवशाद्विरहविनोदनचिह्नानि गृहीत्वेवोद्गता। न ह्येवंविधमपरमपरिचितमिह जगति किञ्चिदस्ति यथेयमनार्या। लब्धापि खलु दुःखेन परिपाल्यते। न परिचयं रक्षति। नाभिजनमीक्षते। न रूपमालोकयते। न शीलं पश्यति। न वैदग्ध्यं गणयति। गन्धर्वनगरलेखेव पश्यत एव नश्यति। सरस्वतीपरिगृहीतमीर्ष्ययेव नालिङ्गति जनम्। गुणवन्तमपवित्रमिव न स्पृशति। उदारसत्त्वममङ्गलमिव न बहु मन्यते। तोयराशिसंभवापि तृष्णां संवर्धयति। अमृतसहोदरापि कटुकविपाका। यथा यथा चेयं चपला दीप्यते तथा तथा दीपशिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति। न हि तं पश्यामि यो ह्यपरिचितयानया न निर्भरमुपगूढो यो वा न विप्रलब्धः।
एवंविधया चानया दुराचारया कथमपि दैववशेन परिगृहीता विक्लवा भवन्ति राजानः। तथा हि। केचित् खद्योतोन्मेषमुहूर्तमनोहराभिर्मनस्विगर्हिताभिःसंपद्भिः प्रलोभ्यमाना आसन्नमृत्यव इव बन्धुजनमपि नाभिजानन्ति। तृष्णाविषमूर्च्छिताः कनकमयमिव सर्वं पश्यन्ति। अनुदिवसमापूर्यमाणाः पापेनैवाध्मातमूर्तयो भवन्ति। तदवस्थाश्च व्यसनशतशरव्यतामुपगता वल्मीकतृणाग्रावस्थिता जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति।
अपरे तु स्वार्थनिष्पादनपरैर्धनपिशितग्रासगृध्रैरास्थाननलिनीबकैर्द्यूतं विनोद इति परदाराभिगमनं वैदग्ध्यमिति मृगया श्रम इति पानं विलास इति प्रमत्तता शौर्यमिति स्वदारपरित्यागोऽव्यसनितेति गुरुवचनावधीरणमपरप्रणेयत्वमिति नृत्यगीतवाद्यवेश्याभिसक्ती रसिकतेति परिभवसहत्वं क्षमेत्यविशेषज्ञताऽपक्षपातित्वमिति दोषानपि गुणपक्षमध्यारोपयद्भिः प्रतारणकुशलैर्धूर्तैरमानुषोचिताभिः स्तुतिभिः प्रतार्यमाणा वित्तमदमत्तचित्ता निश्चेतनतया तथैवात्मन्यारोपितालीकाभिमाना मर्त्यधर्माणोऽपि दिव्यांशावतीर्णमिवात्मानमुत्प्रेक्षमाणाः सर्वजनस्योपहास्यतामुपयान्ति। मिथ्यामाहात्म्यगर्वनिर्भराश्च न प्रणमन्ति देवताभ्यः। नाभिवादयन्त्यभिवादनार्हान्। जरावैक्लव्यप्रलपितमिति पश्यन्ति वृद्धजनोपदेशम्। आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदे-
शाय। कुप्यन्ति हितवादिने। सर्वथा तमभिनन्दन्ति तमालपन्ति तं पार्श्वेकुर्वन्ति तस्य वचनं शृण्वन्ति तं बहुमन्यन्ते योऽहर्निशमनवरतमुपरचिताञ्जलिरधिदैवतमिव विगतान्यकर्तव्यः स्तौति यो वा माहात्म्यमुद्भावयति।
तदेवंप्रायेऽति कुटिलकष्टचेष्टासहस्रदारुणे राज्यतन्त्रेऽस्मिन्महामोहकारिणि च यौवने कुमार तया प्रयतेथा यथा नोपहस्यसे जनैर्न निन्द्यसे साधुभिर्नोपालभ्यसे सुहृद्भिर्न शोच्यसे विद्वद्भिः। यथा च न प्रकाश्यसे विटैर्न प्रतार्यसे कुशलैर्नास्वाद्यसे भुजंगैर्नावलुप्यसे सेवकवृकैर्न प्रलोभ्यसे वनिताभिर्नोन्मत्तीक्रियसे मदनेन नाक्षिप्यसे विषयैर्नापह्रियसे सुखेन। कामं भवान् प्रकृत्यैव धीरः। पित्रा च महता प्रयत्नेन समारोपितसंस्कारः। तरलहृदयमप्रतिबुद्धं च मदयन्ति धनानि। तथापि भवद्गुणसंतोषो मामेवं मुखरीकृतवान्। इदमेव च पुनः पुनरभिधीयसे। विद्वांसमपि सचेतनमपि महासत्त्वमप्यभिजातमपि धीरमपि प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति। सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवान्नवराज्याभिषेकमङ्गलम्। कुलक्रमागमुद्वह पूर्वपुरुषैरूढां धुरम्। अवनमय द्विषतां शिरांसि। उन्नमय बन्धुवर्गम्। अयं च ते प्राप्तकालः प्रतापमारोपयितुम् आरूढप्रतापो हि राजा त्रैलोक्यदर्शीव सिद्धादेशो भवति। इत्येतावदभिधायोपशशाम।
— कादम्बरी
EXERCISES
1 Dissolve and name the compounds —अतिगहनम्। यौवनप्रभवम्। इन्द्रियहरिणहारिणी। दुष्प्रकृतेः। तोयराशिसम्भवा। अमृतसहोदरा। एवंविधया। खद्योतोन्मेषमुहूर्तमनोहराभिः। अतिकुटिलकष्टचेष्टासहस्रदारुणे। पूर्वपुरुषैः।
2 Use in sentences —किमुत। यथा यथा… तथा तथा। कामम् कुप्। असूय्।
3 Name fully — विप्रलब्धः। प्रलोभ्यमानाः। प्रतार्यमाणाः। उद्भावयति। मदयन्ति। खलीकरोति। आरोपयितुम्।
4 Compare this passage with passage 29 below.
NOTES
गर्भेश्वरत्वम् Lordship inherited from birth. (i.ebeing born with a silver spoon in the mouth). अप्रतिमरूपत्वम् Having an extraordinary (excellent ) form (beauty). अनर्थपरम्परा A long line of
evils or calamities. एकैकं Each separately. समवायः Collection, group. मृगतृष्णिका Mirage (of worldly pleasures). अतिदुरन्ता Quite endless. विशन्ति Enter, take effect. कुसुमशर Cupid, god of love उपदिष्टं Words of advice प्रचण्डतरीभवति Rages all the more wildly. अजलं स्नानं Bath without water. इन्दुशकलात् From the streak of the moon. उच्चैःश्रवस् Name of the horse of Indra. Cf. चाञ्चल्यमुच्चैःश्रवसस्तुरङ्गात् etc. दुःखेन परिपाल्यते Is hard to keep. गन्धर्वनगरलेखेव Like the outline of an aerial city, खद्योतोन्मेषetc. Temporarily charming like the twinkling of the fire-fly. कनकमयं Golden, yellowish (as a swooning person finds everything to be). आघ्यातमूर्तयःWith their bodies puffed up (i. e. they grow fat) being stuffed as it were with sin. अपरे तुंetc. For these lines cf. Lesson 29 where we find how all this has been actually done. मर्त्यधर्माणोऽपिetc. Considering themselves as partial incarnation of god, though they are no better than human beings. The king was, however, popularly believed to be an incarnation of god as can be seen from various descriptions of kings in classical literature. cf. ‘महती देवता ह्येषा नररूपेण तिष्ठति। एवं मुखरीकृतवान्, Made me speak thus. सिद्धादेशो भवतिHas his commands obeyed.
———————————
२८ महेन्द्रः कामं गिरिजागिरिशयोर्घटने नियुनक्ति
[ This passage is taken from the Pāravatī-Pariṇaya, a small dramatic work, attributed to Bāṇabhaṭṭa. Bāṇa is noted for his bombastic style, long involved construction abounding in very long compounds. In this passage, however, such compounds and construction are conspicuous by their absence so much so that some scholars doubt whether Bāṇabhaṭṭa, the author of the famous prose works Kadambarī and Harsha-Charita, could have written this drama.
Summary: The demon Tāraka was sorely oppressing the gods; and none else but the son of Shiva and Pārvati could kill him. Such was the boon he had obtained from the Creator. Shiva was, however, practising severe penance and it was no easy task to persuade him to give up penance and marry Pārvati. In the course of conversation, Brihaspati casually mentions the name of Cupid who is accordingly invited by Indra and entrusted with the difficult task, which he accepts, though not without hesitation.]
(ततः प्रविशति देवदूतः।)
देवदूतः। अयं स्वामी बृहस्पतिना किमपि मन्त्रयन्वर्तते। तेदनमुपसर्पामि। (इत्युपसृत्य।) जयतु जयतु स्वामी।
महेन्द्रः। देवल, किमुद्विग्न इव विलोक्यसे।
देवदूतः। अतिभूमिं गमितामसुरपीडां कथं स्वामिने विज्ञापयामि।
महेन्द्रः। मा भैषीः। कथय तेषामुद्यमम्।
देवदूतः। कथयामि श्रूयताम्।
उद्धृत्यामरदीर्घिकाजलभुवामम्भोरुहाणां ततिं
स्वैरं नन्दनपादपानभिमतानामूलमुन्मूल्य नः।
हृत्वा वाञ्छितवस्तुदानचतुरां तामर्जुनीं दुर्जनाः
(इत्यर्धोक्ते विरमति।)
महेन्द्रः। अवशिष्टं च कथ्यताम्।
देवदूतः।
स्वर्गस्त्रैणकचग्रहं रचयितुं निःशङ्कमुद्युञ्जते॥१॥
महेन्द्रः। देवल, कुलिशसहाये मद्बाहौ जाग्रति किमेवमतिशङ्का क्रियते। यथा।
वृत्रं बलं च नमुचिं च कथावशेषं
कृत्वा विधाय किल पर्वतपक्षभेदम्।
त्रैलोक्यरक्षणपटोर्मम तारकेऽस्मि-
न्वेधोवरः किमु महानयमन्तरायः॥२॥
तत्कतिपयैरेव दिवसैस्तत्प्रतिक्रिया भविष्यति। गच्छ त्वं समुचितनियोगकरणाय।
देवदूतः। तथा। (इति निष्क्रान्तः)
महेन्द्रः। गुरो, किमतः परं विधातव्यम्। यथा पूर्वेद्युरेव तारकदनुजाक्रान्तिमसहमानैरस्माभिरमरपरिषदा सार्धं भगवानुपस्थितः पद्मयोनिराचष्ट। यथा सेनान्यमन्तरेण नान्येन तारको निहन्तव्यः। तदुत्पादने चायमभ्युपायः।
हैमवते कटकतटे शशाङ्कचूडामणिस्तपस्तनुते।
यत्नेन येनकेनचिदस्तु प्रणयी स पार्वत्याम्॥३॥
ततस्तयोरात्मसंभवेन सेनान्या कुमारेण वो मनोरथसिद्धिर्भविष्यति।
महेन्द्रः। तत्कथं गिरिजा गिरिशेन परिग्राह्यते। कदा वा तदुत्पन्नः कुमारः पूरयिष्यति नो मनोरथान्।
बृहस्पतिः। न हीश्वराणां व्याहृतयो व्यभिचरन्ति।
महेन्द्रः। (सस्मरणं सहर्षं च।) विरिञ्च्यसमादिष्टमस्मत्कार्यमप्यङ्गीकुर्वतीव पितुर्निदेशेन सपरिजना पार्वती दिवसे दिवसे समागत्य भगवन्तमिन्दुशेखरं परिचरतीति रम्भामुखादश्रौषम्।
बृहस्पतिः। यद्येवं सिद्धं नः समीहितम्।
महेन्द्रः। किमेतावता।
मुग्धैरप्सरसां विलाससहितैर्वाक्यैर्मनोहारिभिः
कर्णान्तस्खलितैरपाङ्गवलितैरारोचितभ्रूलतैः।
बाहोः स्रस्तकुचोत्तरीयघटनामञ्जुक्वणत्कङ्कणै-
र्व्यापारैरपि यो विकारपदवीं न प्रापितः संयमी॥४॥
तस्य पुनरचिन्तनीयमधिकानन्दसुन्दरमनादिनिधनमनञ्जनमगुणक्रियमात्मानमबाह्येन चक्षुषा साक्षात्कुर्वतः समुपसंहृताखिलद्वैतकल्पनाविकल्पस्य स्वतन्त्रकर्तुश्चराचरगुरोर्भगवतश्चन्द्रमौलेः कियद्वशीकरणं गौरीपरिचरणम्।
बृहस्पतिः। भगवन्, अन्ययुवतिसामान्यामेव तां न मन्येथाः। यतः।
आसेचनकतनुश्रीरन्तःकरणस्य किमपि संवननम्।
सा खलु गिरिराजसुता संमोहनमस्त्रमेव पुष्पेषोः॥५॥
महेन्द्रः। (सहर्षम्।) पुष्पेषोरित्युपोद्घातेन स्मारितोस्मि स एव तयोर्गिरिजागिरिशर्योर्घटने पटीयानिति।
बृहस्पतिः। (सहर्षम्।)
त्रैलोक्यशासने दक्षा तावकी मतिरूर्जिता।
शान्तिकं पौष्टिकं कर्तुं शक्ता नः केवलं मतिः॥६॥
यतो मदीयापि बुद्धिरिमां वितर्कपदवीं नावतीर्णा। तदविलम्बितमेव समाहूयतां कामः।
महेन्द्रः। (विलोक्य सहर्षम्।)
मुखरमधुपमालाचारुमौर्वीसनाथं
त्रिभुवनजययोग्यं चापमंसे दधानः।
मुखमुदितविलासं वीक्षमाणः प्रियायाः
सहमधुरिह मन्दं मन्दमायाति कामः॥७॥
(कामो रतिवमन्ताभ्यां सार्धमुसर्पति। चापगर्भेणाञ्जलिना सविलासं प्रणमति)
महेन्द्रः। (आसनान्तिकं हस्तेन निर्दिशन्।) सखे काम, इहोपविश्यताम्।
(कामो रतिवसन्ताभ्यां सार्धमुपविशति।)
बृहस्पतिः। अये, माननीयं भवन्तं स्थाने खलु मानयति महेन्द्रः।
कामः। (अञ्जलिं बद्ध्वा)
त्रैलोक्यनाथस्यतवातिशक्तेः किमस्ति कार्यं मघवन्मयापि।
प्रकाशिताशेषदिशावकाशो दिवाकरो दीपमपेक्षते किम्॥८॥
बृहस्पतिः। मा भवानेवमाचष्ट।
असावलोकसामान्यचापविद्याधुरंधरः।
करोतु कार्यं सकलं बाहुस्तव दिवौकसाम्॥९॥
महेन्द्रः। सखे काम,
चक्रेण विष्णोरपि यद्दुरापं तरस्विना वा शतकोटिना मे।
तत्साधयेत्पुष्पमयं तदस्त्रमहो भवानद्भुतबाहुवीर्यः॥१०॥
कामः। (सगर्वम्) स्वामिन्, यस्ते सापत्नमाचरति।
दनुजो वा मनुजो वा मुनिरपि वा मुग्धचन्द्रचूडो वा।
सुरलोकसुन्दरीणां स भवतु बद्धः कटाक्षशृङ्खलया॥११॥
(महेन्द्रो बृहस्पतेर्मुखमवलोकयति।)
बृहस्पतिः। अये काम, यस्त्वया चरमोऽर्थः परिगणितश्चन्द्रचूडो वेति स इदानीं शङ्करः शैलराजकटकसीम्नि निरतिशयशीतलान्तःकरणस्तपश्चरति।
कामः। ततस्ततः।
बृहस्पतिः। तामिदानीं पितुर्निदेशेन सपरिजना पार्वती सौभाग्यमयीव सालभञ्जिका सौन्दर्यदेवतेव विग्रहिणी परिचरति।
कामः। ततस्ततः।
बृहस्पतिः। तयोश्च मेलने दिविषदां महती कार्यसिद्धिः। सा च भवन्तमेव कटाक्षयति।
कामः। (आत्मगतम्।) अनात्मज्ञता हि पुंसामात्मनिधनमापादयति, यदहमात्मप्रशंसापरवशः परमेश्वरमपि सामान्यवृत्त्या पर्यजीगणम्।
वसन्तः। (आत्मगतम्) अन्यदुपक्रान्तमन्यदेवापतितम्।
क्वायं सुगन्धिविशिखः स्वदमानचापः
स्त्रीणां वशीकरणकर्मणि जागरूकः।
क्वासौ ललाटनयनानल विस्फुलिङ्ग-
वार्तावशेषितपुरत्रितयो महेशः॥१२॥
रतिः। अहो, अत्याहितमापतितं यत्खण्डपरशुर्जेतव्यः।
कामः। यत्पुनः परिजनपरमाणोर्मत्तोऽपि मखभुजः कार्यमिच्छिन्ति तदात्मव्ययेनापि कर्म कर्तुमुद्युज्यते।
महेन्द्रः।
संमोहने तव शरे संहितमात्रे गिरीन्द्रकन्यायाः।
मुखमतिमुदितविलासं विलोकयति मुग्धधृतिरीशः॥१३॥
तदीषत्करेऽस्मिन्कार्ये भवता न किंचिदपि शङ्कनीयम्।
कामः।
त्यजन्यास्यामि कार्याय प्राणान्प्रियतमानपि।
यशःशरीरममलं लभन्ते ह्यनुषङ्गिणः॥१४॥
तथाद्यदिष्टं स्वामिना तथा करिष्यामि।
महेन्द्रो बृहस्पतिश्च। (हस्तमुद्यम्य)
अस्तु स्वस्त्ययनं तवाद्य मरुतां सत्याशिषामाशिष-
स्त्वां रक्षन्तु यशश्च तेऽस्तु विपुलं लोकत्रये दीव्यतु।
शौर्यंत्वद्भुजयोरिदं च भवतात्पुङ्खानुपुङ्खोदयं
किञ्चोद्योगमिमं समर्थयतु नः स्वच्छन्दचेष्टाविधिः॥ १५॥
(कामो रतिवसन्ताभ्यां सह शङ्कमानो निष्कान्तः।)
महेन्द्रः। गुरो, विरिञ्च्यादेशादनुरूपमस्माभिरेव तावदनुष्ठितम्। कार्यसिद्धौ भगवती नियतिरेव प्रभवति।
बृहस्पतिः। अहमपि प्रस्तुतकार्यसिद्धये कुलदेवताः प्रार्थयितुं गमिष्यामि।
(इति निष्क्रान्ताः सर्वे।)
— पार्वतीपरिणये द्वितीयोऽङ्कः।
EXERCISES
1 Name fully—
(मा) भैषीः; पटीयान्। (मा) आचष्ट। सखे। जाग्रति। अवतीर्णा। उद्विग्न।कटाक्षयति। पर्यजीगणम्। अश्रौषम्।
2 Note the use of—
इव। किमु। सार्धम्। अन्तरेण। स्थाने। किं कार्यम्। प्र + भू। Loc. Abs।अप + ईक्ष्।
3 Note the formation of—
तावकी। कियत्। स्त्रैणम् \। Give some other words thus formed.
4 Decline —
सेनानी। सखि। पति। मघवन्। श्वन्। युवन्। पुम्स्। आशिस्। जाग्रत्
5 Use compound expressions for—
कतिपयैः दिवसैः। दिवसे दिवसे
त्रिभुवनजययोग्यं चापमंसे दधानः।
6 Dissolve and name the compounds—
अम्भोरुहम्। नन्दनपादपः। निःशङ्कम्। कुलिशसहायः। त्रैलोक्यरक्षणपटुः। पूर्वेद्युः। पद्मयोनिः। शशाङ्कचूडामणिः। अन्ययुवतिसामान्या। पुष्पेषुः। मुखरमधुमालाचारुमौर्वीसनाथम्। सहमधुः। चापगर्भः। दुरापम्। कटाक्षशृङ्खला। सपरिजना। सुगन्धिविशिखः।
7 Note the usages—
(a) अतिभूमिं गमितामसुरपीडां कथं स्वामिने निवेदयामि।
(b) कथावशेषं कृत्वा। वार्तावशेषितपुरत्रितयः।
(c) न हीश्वराणां व्याहृतयो व्यभिचरन्ति। cf. Kn. 3.62.
(d) व्यापारशतैरपि यो विकारपदवीं न प्रापितः संयमी।
(e) मदीयापि बुद्धिरिमां वितर्कपदवीं नावतीर्णा।
(f) अनात्मज्ञता हि पुंसामात्मनिधनमापादयति।
(g) अन्यदुपक्रान्तमन्यदेवापतितम्।
(h) यशः शरीरममलं लभन्ते ह्यनुषङ्गिणः।
NOTES
विलोक्यसे= दृश्यसे You appear to be. अतिभूमिं गमिता Carried to excess. आमूलमुन्मूल्य Taking out root and branch, exterminating.
अर्जुनी = धेनुः। स्त्रैणम् = स्त्रीणां समूहः All the damsels. कुलिशं वज्रं। मद्वाहौ जाग्रति Loc. Abs. As long as I (lit. my arm) am watchful.परिग्रह To accept, to marry,समीहितं =इष्टं। यो विकारपदवीं न प्रापितः Who is not disturbed or perturbed अनञ्जनः= निरञ्जनः। कियत् How meagre, how futile.संवननं = वशीकरणमन्त्रः। पुष्पेषुः =मदनः। स्थाने ind. Properly, rightly. मघवन् - इन्द्र\। शतकोटि Indra’s thunderbolt.सापत्नं Enmity. निरतिशयशीतलान्तःकरणः With a perfectly unaffected and calm mind. परमेश्वरमपिसामान्यवृत्या पर्यजीगणम्I spoke of even the great god as though he were an ordinary person. वार्ताविशेषितपुरत्रितयो महेशःGod Shiva who burnt the three cities (lit. who left the three cities only in name). खण्डपरशुः = शिवः। आत्मव्ययेन = प्राणैः At the cost of my life. ईषत्कर Easy. अनुरूपम् According to.
—————————
२९ महाव्यसनसप्तकस्य गुणत्वापादनम्
[ This passage is taken from Dashakumāra-Charitam of Daṇḍin who is also the author of Kavyadārsha and is said to have flourished in the latter half of the sixth century. His style is almost akin to that of Bāṇa.
In this passage we see how cleverly evil habits are shown-almost proved-to be very useful. This passage affords an excellent example of “गुणायन्ते दोषाः” — though by no means in the mouth of a good man in this case.]
देव यथा मृगया ह्यौपकारिकी न तथान्यत्। अत्र हि व्यायामोत्कर्षादापत्सूपकर्ता दीर्घाध्वलङ्घनक्षमो जङ्घाजवः, कफापचयादारोग्यैकमूलमाशयाग्निदीप्तिः, मेदोपकर्षादङ्गानां स्थैर्यकार्कश्यातिलाघवादीनि, शीतोष्णवर्षक्षुत्पिपासासहत्वं, सत्वानामवस्थान्तरेषु चित्तचेष्टितज्ञानं, वृकव्याघ्रादिघातेन स्थलपथशल्यशोधनं, शैलाटवीप्रदेशानां विविधकर्मक्षमाणामालोचनं, आटविकवर्गविश्रम्भणं, उत्साहशक्तिसन्धुक्षणेन प्रत्यनीकवित्रासनमिति बहुतमा गुणाः। द्यूतेऽपि द्रव्यराशेस्तृणवत्यागादनुपमानमाशयौदार्यं, जयपराजयानवस्थानाद्धर्षविषादयोरविधेयत्वं, पौरुषैकनिमित्तस्यामर्षस्य वृद्धिः, अक्षहस्तभूम्यादिगोचराणामत्यन्तदुरुपलक्ष्याणां कूटकर्मणामुपलक्षणादनन्त-बुद्धिनैपुण्यं, एकविषयोपसंहाराच्चित्तस्यातिचित्रमैकाग्र्यं, अध्यवसायसहचरेषु
साहसेष्वभिरतिः, अतिकर्कशपुरुषप्रतिसंसर्गादनन्यधर्षणीयता, मानावधारणं, अकृपणं च शरीरवापनमिति। उत्तमाङ्गनाभोगेऽप्यर्थधर्मयोः सफलीकरणं भावज्ञानकौशलं, अलोभक्लिष्टमाचेष्टितं, अखिलासु कलासु वैचक्षण्यं, अलब्धोपलब्धिलब्धानुरक्षणरक्षितोपभोगभुक्तानुसन्धानरुष्टानुनयादिष्वजस्रमभ्युपायरचनया बुद्धिवाचोः पाटवं, उत्कृष्टशरीरसंस्कारात्सुभगवेषतया लोकसंभावनीयता, परं सुहृत्प्रियत्वं, गरीयसी परिजनव्यपेक्षा, स्मितपूर्वाभिभाषित्वं,दाक्षिण्यानुवर्तनं, अपत्योत्पादनेनोभयलोकश्रेयस्करत्वमिति। पानेऽपि नानाविधरागभङ्गपटीयसामासवानामासेवनात्स्पृहणीयवयोव्यवस्थापनं, अहङ्कारप्रकर्षादशेषदुःखतिरस्करणं, अपराधप्रमार्जनान्मनःशल्योन्मार्जनं, अश्राव्यशंसिभिरनर्गलप्रलापैर्विश्वासोपबृंहणं, मत्सराननुबन्धादानन्दैकतानता संविभागशीलतया सुहृद्वर्गसंवर्गणं, अनुत्तराणि विलसितानि, भयार्तिहरणाच्चसाङ्ग्रामिकत्वमिति। वाक्पारुष्यं दण्डो दारुणो दूषणानि चार्थानामेव यथावकाशमौपकारिकाणि। नहि मुनिरिव नरपतिरुपशमरतिरभिभवितुमरिकुलमलं, अवलम्बितुं च लोकतन्त्रमिति।
— दशकुमारचरिते अष्टम उच्छ्वासः।
EXERCISES
1 How are abstract nouns formed from adjctives?
2 Note the use of Insrumental, Ablative and Locative.
3 Dissolve and name the compounds—
दीर्घाध्वलङ्घनक्षमः।आरोग्यैकमूलम्। मेदोपकर्षः। शीतोष्णवातवर्षक्षुत्पिपासासहत्वम्। अवस्थान्तरेषु। प्रत्यनीकवित्रासनम्। सफलीकरणम्। स्मितपूर्वाभिभाषित्वम्। अनुपमानम्। उपशमरतिः।
4 कानि सप्त महाव्यसनानि। तानि कथमौपकारिकाणि विशेषतो राज्ञाम्।
5 महाव्यसनानामपकारित्वं प्रस्थापयत।
NOTES
** व्यसनसप्तकम्** cf. स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यार्थदूषणे। दण्डपारुष्यमित्येतन्महाव्यसनसप्तकम्॥ औपकारिकी Helpful, useful. उत्कर्ष A great deal. अपचय Decrease, loss, reduction. (= अपकर्ष). स्थैर्यं = कर्मसहनत्वम् Tenacity. सत्त्वानामवस्थान्तरेषु etc. Knowledge of the mental operations of (various) animals under different circumstances. गवलः = अरण्यमहिषः। सस्यलोप Destruction of crops. स्थलपथशल्यशोधनम् Removing the dangers on the land-route. विविधकर्मक्षमाणां (प्रदेशानाम्)
Which are fit for various things. विश्रम्भणम् = विश्वासोत्पादनम्। संधुक्षणम् Kindling, increasing. प्रत्यनीकवित्रासनम् Frightening the inimical host; inspiring the hostile forces with terror. बहुतमाः = बहवः। आशयौदार्यम् = चित्तौदार्यम्। अनवस्थान Instability. अक्षहस्तभूम्यादिगोचराणां (कूटकर्मणाम्) (Frauds) committed with the help of dice, manual skill, and the ground. एकविषयोपसंहारConcentration on one subject. ( = तदेकवृत्तित्वम्). अध्यवसायसहचरेषु साहसेष्वभिरतिःLove of daring which always accompanies resoluteness (firm mind). धर्षणीयता = अभिभवनीयत्वम्। सम्भावनीयता = संमानः, मान्यता। नानाविधरागभङ्गपटीयसाम्……..(Wine) Skilled in (creating) shades of various colours. अङ्गजरागः = कामः। मत्सराननुबन्धात् etc. Continuity of joy owing to absence of jealousy. संवर्गणम् =एकीकरणम्।
—————————
३० कुशसूनुरतिथिः
[This is an extract from Raghuvamsham of Kālidāsa, It tells us briefly how king Atithi discharged his kingly duties. This may be taken as a description of an ideal king.]
अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती।
पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना॥१॥
स पितुः पितृमान्वंशं मातुश्चानुपमद्युतिः।
अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ॥२॥
तमादौकुलविद्यानामर्थमर्थविदां वरः।
पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता॥३॥
प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम्।
मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः॥४॥
वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः।
किं तत्साध्यं यदुभये साधयेयुर्न सङ्गताः॥५॥
स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम्।
ददर्श संशयच्छेद्यान्व्यहारानतन्द्रितः॥६॥
ततः परमभिव्यक्तसौमनस्यनिवेदितः।
युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः॥७॥
यदुवाच न तन्मिथ्या यद्ददौ न जहार तत्।
सोऽभूद्भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन्॥८॥
वयोरूपविभूतीनामेकैकं मदकारणम्।
तानि तस्मिन्समस्तानि न तस्योत्सिसिचे मनः॥९॥
प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः।
निकषे हेमरेखेव श्रीरासीदनपायिनी॥ १०॥
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम्।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः॥११॥
रात्रिंदिवविभागेषु यदादिष्टं महीक्षिताम्।
तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः॥१२॥
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः।
स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते॥१३॥
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः।
सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि॥१४॥
दुर्गाणि दुर्ग्रहाण्यासंस्तस्य रोद्धुरपि द्विषाम्।
न हि सिंहो गजास्कन्दो भयाद्गिरिगुहाशयः॥१५॥
हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते।
तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः॥१६॥
परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु।
अवृणोदात्मनो रन्ध्रंरन्ध्रेषु प्रहरन्रिपून्॥१७॥
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान्।
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः॥१८॥
स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन्।
तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः॥१९॥
एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना।
वृषेव देवो देवानां राज्ञां राजा बभूव सः॥२०॥
दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम्।
दधुः शिरोभिर्भूपाला देवाः पौरन्दरीमिव॥२१॥
ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ।
यथा साधारणीभूतं नामास्य धनदस्य च॥२२॥
इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभूत्
यादोनाथःशिवजलपथः कर्मणे नौचराणाम्।
पूर्वापेक्षी तदनु विदधे कोषवृद्धिं कुबेरः
तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः॥२३॥
— रघुवंशे सप्तदशः सर्गः।
EXERCISES
1 Use in sentences - नाम। ग्रह् Caus. \। मूर्तिमत्। उभय। प्रति + रुह्Caus. ।उभ। उद्यत। प्र + हृ। धा। साधारणीभूतम्।
2 Dissolve and name the compounds – स्मितपूर्वाभिभाषिणम्। धर्मस्थसखः। भग्नव्रतः। रात्रिंदिवाविभागषु। विकल्पपराङ्मुखः। अविज्ञातपरस्परैः। दूरापवर्जितच्छत्रेः।
3 Name fully - अग्राहयत्। अभूत्। प्रतिरोपयन्। समस्तानि। जजागार। स्थापितानि। जिह्राय। उद्यन्। पौरन्दरीम्।
4 Expand the similes in this passage using यथा - तथा for इव.
NOTES
सोऽभूद्भग्नव्रतः etc. Whatever he did could never be undone. But he always restored the defeated kings to their kingdom even after having conquered their territories. Thus here what he did was undone by himself or in other words he became भग्नव्रत. वयोरूपविभूतीनांetc. Cf. गर्भेश्वरत्वमभिनवयौवनत्वं etc. XXVII. निकषे हेमरेखेव Like the gold streak, left on the surface of a touch-stone, which generally sticks fast to it. St. 15. The second line contains a very fine illustration. स्वपन्नपि जजागार He was wakeful even while asleep. यथा साधारणीभूतम् etc. So that the epithet धनद became common to both himself and Kubera. धनदः i.eधनं दयते इति = कुबेरः। धनं ददाति इति = अतिथिः।
३१ सेयं याति शकुन्तला पतिगृहम्
[ This passage is admittedly the best part of the best play of the best poet. Kālidāsa’s Shākuntala is said to be the most charming. play that was ever written in Sanskrit; and this portion of the play has a very strong hold on the mind of its reader. Kālidāsa is supposed to have lived in the court of king Vikramāditya in the fourth century A. D. He is famous both as a poet and as a dramatist. He is said to have composed a number of works of which the most famous are Raghu-vansham, Kumāra-sambhavam, Megha-dūtam,Vikramorvashiyam, Mālavikāgnimitram, andShākuntalam.
Summary:— Kaṇ
va, thinking it fit to send Shakuntalā to her husband, makes arrangements for her departure. In this passage we find her taking leave of everything dear to her and see how dearly she is loved by all. Before she starts, Kaṇva gives her a piece of advice in four memorable verses and heaves a sigh of relief after her departure. This picture of a very familiar household incident is so beautifully drawn by the poet that this passage has an abiding charm of its own.]
काश्यपः।
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम्।
वैक्लव्यं मम तावदीदृशंमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं तु तनयाविश्लेषदुःखैर्नवैः॥१॥
गौतमी। जाते, एष त आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः। आचारं तावत्प्रतिपद्यस्व।
शकुन्तला। (सव्रीडम्) तात वन्दे।
काश्यपः। वत्से,
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव।
सुतं त्वमपि सम्राजं सेव पूरुमवाष्नुहि॥२॥
गौतमी। भगवन्, वरः खल्वेषः। नाशीः।
काश्यपः। वत्से, इतः सद्योहुताग्नीन् प्रदक्षिणीकुरुष्व।
(सर्वे परिक्रामन्ति)
काश्यपः। (ऋक्छन्दसाशास्ते)
अमी वेदीं परितः क्लृप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः।
अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु॥३॥
प्रतिष्ठस्वेदानीम्। (सदृष्टिक्षेपम्)क्व ते शार्ङ्गरवमिश्राः।
(प्रविश्य)
शिष्यः। भगवन् इमे स्मः।
काश्यपः। भगिन्यास्ते मार्गमादेशय।
(सर्वे परिक्रामन्ति)
शार्ङ्गरवः। इत इतो भवती।
काश्यपः। भो भोः संनिहितास्तपोवनतरवः।
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम्।
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम्॥४॥
(कोकिलरवं सूचयित्वा)
अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः।
परभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम्॥५॥
(आकाशे)
रम्यान्तरः कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमयूखतापः।
भूयात् कुशेशयरजोमृदुरेणुरस्याः
शान्तानुकूलपवनश्च शिवश्चपन्थाः॥६॥
(सर्वे सविस्मयमाकर्णयन्ति)
गौतमी। जाते, ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः। प्रणम भगवतीः।
शकुन्तला। (सप्रणामं परिक्रम्य) नन्वार्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्यांदुःखेन मे चरणौ पुरतः प्रवर्तेते। (स्मृत्वा) तात लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये।
काश्यपः। अवैमि ते तस्यां सोदर्यस्नेहम्। इयं तावद्दक्षिणेन।
शकुन्तला। वनज्योत्स्ने, चूतसंगतापि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः। अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि।
काश्यपः।
संकल्पितं प्रथममेव मया तवार्थे
भर्तारमात्मसदृशं सुकृतैर्गता त्वम्।
चूतेन संश्रितवती नवमालिकेय-
मस्यामहं त्वयि च संप्रति वीतचिन्तः॥७॥
इतः पन्थानं प्रतिपद्यस्व।
(सर्वे परिक्रामन्ति)
शकुन्तला। तात, एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदानघप्रसवा भवति, तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ।
काश्यपः। नेदं विस्मरिष्यामः।
शकुन्तला। को नु खल्वेष निवसने मे सज्जते।
काश्यपः। वत्से,
यस्य त्वया व्रणविरोपणमिङ्गुदीनां
तैलं न्यषिच्यत मुखे कुशसूचिविद्धे।
श्यामाकमुष्टिपरिवर्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते॥८॥
शकुन्तला। वत्स, किं सहवासपरित्यागिनीं मामनुसरसि। अचिरप्रसूतया जनन्याविना वर्धित एव। इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति। निवर्तस्व तावत्। (इति रुदती प्रस्थिता)
काश्यपः।
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं।
बाष्पं कुरु स्थिरतया विहतानुबन्धम्।
अस्मिन्नलक्षितनतोन्नतभूमिभागे।
मार्गे पदानि खलु ते विषमी भवन्ति॥९॥
शार्ङ्गरवः। भगवन्, ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते। तदिदं सरस्तीरम्। अत्र संदिश्य प्रतिगन्तुमर्हसि।
काश्यपः। तेन हीमां क्षीरवृक्षच्छायामाश्रयामः। शार्ङ्गरव, त्वया स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः।
अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन-
स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम्
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः॥१०॥
शार्ङ्गरवः। गृहीतः सन्देशः।
काश्यपः। वत्से, त्वमिदानीमनुशासनीयासि। वनौकसोऽपि सन्तो लौकिकज्ञा वयम्।
शार्ङ्गरवः। न खलु धीमतां कश्चिदविषयो नाम।
काश्यपः। सा त्वमितः पतिकुलं प्राप्य
शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥११॥
वत्से, परिष्वजस्व सखीजनं च।
शकुन्तला। (पितरमाश्लिष्य) कथमिदानीं तातस्याङ्कात् परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्ये।
काश्यपः। वत्से, किमेवं कातरासि।
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला।
तनयमचिरात् प्राचीवार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि॥१२॥
(शकुन्तला पितुः पादयोः पतति।)
शकुन्तला। (सख्यावुपेत्य) हला, द्वे अपि मां सममेव परिष्वजेथाम्।
सख्यौ। (तथा कृत्वा) सखि, यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत् ततस्तस्मादिमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय।
शकुन्तला। अनेन संदेहेन वामाकम्पितास्मि।
सख्यौ। मा भैषीः। अतिस्नेहः पापशङ्की।
शार्ङ्गरवः। युगान्तरमारूढः सविता।त्वरतामत्रभवती।
शकुन्तला। (आश्रमाभिमुखी स्थित्वा।) तात, कदा नु भूयस्तपोवनं प्रेक्षिष्ये।
काश्यपः। श्रूयताम्।
भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं
शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन्॥१३॥
गौतमी। जाते परिहीयते गमनवेला। निवर्तय पितरम्। अथवा चिरेणापि पुनःपुनरेषैवं मन्त्रयिष्यते। निवर्ततां भवान्।
शकुन्तला। (भूयः पितरमाश्लिष्य) तपश्चरणपीडितं तातशरीरम्। तन्मातिमात्रंमम कृत उत्कण्ठितुम्।
काश्यपः। (सनिःश्वासम्।)
शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम्।
उटजद्वारविरूढं नीवारबलिं विलोकयतः॥१४॥
गच्छ। शिवास्ते पन्थानः सन्तु।
(निष्क्रान्ता शकुन्तला सहयायिनश्च)
सख्यौ। हा धिक् हा धिक्। अन्तर्हिता शकुन्तला वनराज्या। तात, शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशामः।
काश्यपः। स्नेहप्रवृत्तिरेवंदर्शिनी। (सविमर्शं परिक्रम्य।) हन्त भोः, शकुन्तलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम्। कुतः।
अर्थो हि कन्या परकीय एव
तामद्य संप्रेष्य परिग्रहीतुः।
जातो ममायं विशदः प्रकामं
प्रत्यर्पितन्यास इवान्तरात्मा॥१५॥
(इति प्रस्थिताः सर्वे)
— अभिज्ञानशाकुन्तले चतुर्थोऽङ्कः।
EXERCISES
1 Dissolve and name - आनन्दपरिवाहिन्। प्रियमण्डना। वनवासबन्धुः। छायाद्रुमः। कुशेशयरजोमृदुरेणुः। शान्तानुकूलपवनः। सोदर्यः। वीतचिन्तः। अनघप्रसवा। पुत्रकृतकः। अचिरप्रसूता। ओदकान्तम्। भाग्यायत्तम्। प्रत्यभिज्ञानमन्थरः। गर्भमन्थरा। चतुरन्तमहीसपत्नी। रचितपूर्वम्। प्रत्यर्पितन्यासः। अन्तरात्मा।
2 Note दौष्यन्तिः = दुष्यन्तस्य अपत्यं पुमान्। Give some more words thus formed.
3 Decline - सम्राज्। दारा। पति। पथिन्।
4 Note the use of - परितः। यथा। वि + सृज्Caus.। पुरस्कृत्य गम्। यदि नाम। दृश् Caus.। किम्। मा स्म।
5 Name fully - अपघ्नन्तः। संस्तीर्ण। संनिहिताः। (मा) गमः। सम्प्रेष्य।
6 Study the following usages —
(a)
आचारं तावत्प्रतिपद्यस्व।
(b)
भगिन्यास्ते मार्गमादेशय।
(c)
अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि।
(d)
अहं त्वयि सम्प्रति वीतचिन्तः।
(e)
इदानीं त्वां तातश्चिन्तयिष्यति।
(f)
अतिस्नेहः पापशङ्की।
(g)
युगान्तरमारूढः सविता।
(b)
परिहीयते गमनवेला।
(i)
शिवास्ते पन्थानः सन्तु।
NOTES
आचारं तावत्प्रतिपद्यस्व Hasten to do him reverence. भर्तुर्बहुमता भव Mayest thou be highly esteemed by thy lord. प्रतिष्ठस्व Set out onthy journey. प्रियमण्डनाetc. Though fond of ornaments she never robbed you of any sprouts through her affection for you. ज्ञातिजनस्निग्धाभिः Who love thee with the affection of a relative. सोदर्यस्नेह Sisterly affection. दक्षिणेन On the right. व्रणविरोपणं (sc. तैलं) Healing balm. पुत्रकृतकःNurseling. सहवासपरित्यागिनी Who deserts her companions. ओदकान्तं स्निग्धो जन etc. A beloved person should be accompanied as far as the (margin of the first) stream. अबान्धवकृता स्नेहप्रवृत्तिःThe pure spontaneous love (not created in her by any of her relatives).सामान्यप्रतिपत्तिपूर्वकं etc. You should love her equally with your imperial consorts. लौकिकज्ञा वयम् We are not ignorant of worldly matters. भाग्येष्वनुत्सेकिनी When fortune smiles, be not puffed up. प्रतिक्षणमाकुला Constantly engrossed in great works befitting his (imperial) dignity. अतिस्नेहः पापशङ्की Excessive love always apprehends evil (where it is least suspected). Cf. ‘प्रेम पश्यति भयान्यपदेऽपि’.परिहीयते गमनवेला The auspicious time for our journey is fast passing. शिवास्ते पन्थानः सन्तु May thy journey be prosperous. स्नेहप्रवृत्तिरेवं दर्शिनी It is (your) affection that makes (you) view (it) in this light.
—————————
३२ चन्द्रापीडो महाश्वेतां सान्त्वयति।
[This is an extract from Kādambarī showing us how Chandrāpiḍa persuaded Mahāshwetā to remain alive consoling her at the same time by showing the great probability-even certainty-of her reunion with Vaishampāyana.]
चन्द्रापीडस्तु प्रथममेव तस्या रूपेण विनयेन दाक्षिण्येन मधुरालापतया निःसङ्गतया चातितपस्वितया च प्रशान्तत्वेन च निरभिमानतया च महानुभावत्वेन च शुचितया चोपारूढगौरवोऽभूत्। तदानीं तु तेनापरेण दर्शितसद्भावेन स्ववृत्तान्तकथनेन तया च कृतज्ञतया हृतहृदयः सुतरामारोपितप्रीतिरभवत्। आर्द्रीकृतहृदयश्च शनैः शनैरेनामभाषत। भगवति क्लेशभीरुरकृतज्ञः सुखासङ्गलुब्धो लोकः स्नेहसदृशं कर्मानुष्ठातुमशक्तो निष्फलेनाश्रुपातमात्रेण स्नेहमुपदर्शयन्रोदिति। त्वया तु कर्मणैव सर्वमाचरन्त्या किमिव
न प्रेमोचितमाचेष्टितं येन रोदिषि। तदर्थमाजन्मनःप्रभृति समुपचितपरिचयः प्रेयानसंस्तुत इव परित्यक्तो बान्धवजनः। संनिहिता अपि तृणावज्ञयावधीरिता विषयाः। विमुक्तान्यतिशयितसुनासीरसमृद्धीन्यैश्वर्यसुखानि। गृहीतं ब्रह्मचर्यम्। आयोजितस्तपसि महत्यात्मा। वनिताजनदुष्करमविकष्टमङ्गीकृतमरण्यावस्थानम्। अपि चानायासेनैवात्मा दुःखाभिहतैः परित्यज्यते। महीयसा तु यत्नेन गरीयसि क्लेशे निक्षिप्यते केवलम्। यदेतदनुमरणं नाम तदतिनिष्फलम्।अविद्वज्जनाचरित एष मार्गः। मोहविलसितमेतत्। अज्ञानपद्धतिरियम्। मौर्ख्यस्खलितमिदम्। यदुपरते पितरि भ्रातरि सुहृदि भर्तरि वा प्राणाः परित्यज्यन्ते। स्वयं चेन्न जहति न परित्याज्याः। अत्र हि विचार्यमाणे स्वार्थ एव प्राणपरित्यागोयमसह्यशोकवेदनाप्रतीकारत्वादात्मनः। उपरतस्य तु न कमपि गुणमावहति। न तावत्तस्यायं प्रत्युज्जीवनोपायः। न धर्मोपचयकारणम्। न शुभलोकोपार्जनहेतुः। न निरयपातप्रतीकारः। न दर्शनोपायः। न परस्परसमागमनिमित्तम्। अन्यामेव स्वकर्मफलपरिपाकोपचितामसाववशो नीयते भूमिम्। असावप्यात्मघातिनः केवलमेनसा संयुज्यते। जीवंस्तु जलाञ्जलिदानादिना बहूपकरोत्युपरतस्यात्मनश्च। मृतस्तु नोभयस्यापि। स्मर तावत्प्रियामेकपत्नीं रतिं भगवति भर्तरि मकरकेतौ हरनयनहुतभुजा दग्धेऽप्यविरहितामसुभिः। उत्तरां च विराटदुहितरं बालां बालशशिनीव नयनानन्दहेतौ विनयवति विक्रान्ते च पञ्चत्वमभिमन्यावुपगतेऽपि धृतदेहाम्। अन्याश्च रक्षःसुरासुरमुनिमनुजसिद्धगन्धर्वकन्यका भर्तृरहिताः श्रूयन्ते सहस्रशो विधृतजीविताः।
प्रोन्मुच्येतापि जीवितं संदिग्धोऽप्यस्य समागमो यदि स्यात्। भगवत्या तु ततः पुनः स्वयमेव समागमसरस्वती समाकर्णिता। अनुभवे च को विकल्पः। कथं च तादृशानामप्राकृताकृतीनां महात्मनामवितथगिरां गरीयसापि कारणेन गिरि वैतथ्यमास्पदं कुर्यात्। उपरतेन च सह जीवन्त्याकीदृशी समागतिः। अतो निःसंशयमसावुपजातकारुण्यो महात्मा पुनः प्रत्युज्जीवनार्थमेवैनमुत्क्षिप्य सुरलोकं नीतवान्। अचिन्त्यो हि महात्मनां प्रभावः। बहुप्रकाराश्च संसारवृत्तयः। चित्रं च दैवम्। आश्चर्यातिशययुक्ताश्च तपःसिद्धयः। अनेकविधाश्च कर्मणां शक्तयः। अपि च सुनिपुणमपि विमृशद्भिः किमिवान्यत्तदपहरणे कारणमाशङ्कयते जीवितप्रदानादृते।
न चासंभाव्यमिदमवगन्तव्यं भवत्या। चिरप्रवृत्त एष पन्थाः। तथापि। विश्वावसुना गन्धर्वराजेन मेनकायामुत्पन्नां प्रमद्वरां नाम कन्यामाशीविषविलुप्तजीवितां स्थूलकेशाश्रमे भार्गवस्य नप्ता प्रमतितनयो मुनिकुमारकोरुरुर्नाम स्वायुषोऽर्धेन योजितवान्। अर्जुनं चाश्वमेधतुरगानुसारिणमात्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृतप्राणमुलूपी नाम नागकन्या सोच्छ्वासमकरोत्। अभिमन्युतनयं च परीक्षितमश्वत्थामास्त्रपावकपरिप्लुष्टमुदरादुपरतमेव निर्गतमुत्तराप्रलापोपजनितकृपो भगवान्वासुदेवो दुर्लभानसून्प्रापितवान्। अत्रापि कथञ्चिदेवमेव भविष्यति। तथापि किं क्रियते। क्व उपालभ्यते। प्रभवति हि भगवान्विधिः। बलवती च नियतिः। आत्मेच्छया न शक्यमुच्छ्वसितुमपि। अतिपिशुनान्यस्यैकान्तनिष्ठुरस्य दैवहतकस्य विलसितानि न क्षमन्ते दीर्घकालमव्याजरमणीयं प्रेम। प्रायेण च निसर्गत एवानायतस्वभावभङ्गुराणि सुखान्यायतस्वभावानि च दुःखानि। तथा हि कथमप्येकस्मिञ्जन्मनि समागमो जन्मान्तरसहस्राणि च विरहः प्राणिनाम्। अतो नार्हस्यनिन्द्यमात्मानं निन्दितुम्। आपतन्ति हि संसारपथमतिगहनमवतीर्णमेते वृत्तान्ताः। धीरा हि तरन्त्यापदम्। इत्येवंविधैरन्यैश्च मृदुभिरुपसान्त्वनैः संस्थाप्य तां पुनरपि निर्झरजलेनाञ्जलिपुटोपनीतेनानिच्छन्तीमपि बलात्प्रक्षालितमुखीमकारयत्।
—
कादम्बरी।
EXERCISES
1 Dissolve and name the compounds
- निःसङ्गतया। स्नेहसदृशम्।अतिशयितसुनासीरसमृद्धीनि। अरण्यावस्थानम्। अविद्वज्जनाचरितः। परस्परसमागमनिमित्तम्। एकपत्नीम्। अप्राकृताकृतीनाम्। अवितथगिराम्। अश्वमेधतुरगानुसारिणम्।
2 Note the uses of
- प्रभृति। उप + कृ। गुणं आवह्। एनसा संयुज्। ऋते। तथा हि। प्र+भू।
3 Mark the expressions
- आरोपितप्रीतिरभवत्। तृणावज्ञयावधीरिता विषयाः। आयोजितस्तपस्यात्मा। अत्र हि विचार्यमाणे। अविरहितामसुभिः। धृतदेहाम्। गिरि चैतथ्यमास्पदं कुर्यात्। सोच्छ्वासमकरोत्। असून्प्रापितवान्। प्रभवति हि भगवान्विधिः। अनायतस्वभावभङ्गुराणि सुखानि आयतस्वभावानि च दुःखानि। संसारपथमवतीर्णमेते वृत्तान्ता आपतन्ति।
NOTES
निःसङ्गत्ताWant of worldly attachments. सुनासीर Indra. असह्यशोकवेदना etc. Being a remedy to remove the pangs of the unbearable grief. न गुणमावहति is of no use, does no good to. प्रत्युज्जीवन Revival. एनसा संयुज्यते Incurs sin. अप्राकृताकृतीनां of extraordinary persons. अचिन्त्य Inconceivable.
————————————
३३ सीता - परित्यागः
[This passage is taken from Uttar-Rāma-Charitam of Bhavabhūti, a great poet and playwright who flourished in the eighth century A. D. Though ranking very high as poet, he falls short of Kālidāsa in his capacity as an artist. His style is far from being smooth like that of Kālidāsa. It is rugged. There are, however, certain passages in his works that are unrivalled in their beauty, force and loftiness of sentiment. Besides Uttara-Rāma-Charita, he has composed two other plays-Mahās-Vira-Charitam and MālatīMādhavam.
Summary:—
Rama Comes to know from his spy, Durmukha, how people blamed him for accepting Sītā after her long stay in Rāvaṇa’s palace. As a king he thinks himself bound to satisfy his subjects and hence orders his brother Lakshmaṇa to leaveSītā in a forest. In this passage the dramatist has done his best in depicting the struggle between Rāma the king and Rāma the husband of Sītā.]
दुर्मुखः। (उपसृत्य) जयतु जयतु देवः।
रामः। ब्रूहि यदुपलब्धम्।
दुर्मुखः। उपस्तुवन्ति देवं पौरजानपदा विस्मारिता वयं महाराजदशरथस्य रामदेवेनेति।
रामः। अर्थवाद एषः। दोषं तु मे कञ्चित् कथय येन स प्रतिविधीयेत।
दुर्मुखः।(सास्रम्) शृणोतु देवः। (कर्णे एवमेवम्)।
रामः। अहह तीव्रसंवेगो वाग्वज्रः। (इति मूर्च्छति)
दुर्मुखः। आश्वसितु देवः।
रामः। (आश्वस्य)
हा हा धिक् परगृहवासदूषणं यद्
वैदेह्याः प्रशमितमद्भुतैरुपायैः।
एतत्तत्पुनरपि दैवदुर्विपाका-
दालर्कंविषमिव सर्वतः प्रसृप्तम्॥१॥
तत्किमत्र मन्दभाग्यः करोमि। (विमृश्य सकरुणम्) अथवा किमन्यत्
सतां केनापि कार्येण लोकस्याराधनं व्रतम्।
यत्पूरितं हि तातेन मां च प्राणांश्च मुञ्चता॥२॥
संप्रत्येव भगवता वसिष्ठेन संदिष्टम् युक्तः प्रजानामनुरञ्जने स्याः इति।
अपि च
यत्सावित्रैर्दीपितं भूमिपालैर्लोकश्रेष्ठैः साधु शुद्धं चरित्रम्।
मत्संबन्धात्कश्मला किंवदन्ती स्याच्चेदस्मिन्हन्त धिङ् मामधन्यम्॥३॥
हा देवि देवयजनसंभवे। हा स्वजन्मानुग्रहपवित्रीकृतवसुन्धरे। हा जनकवंशनन्दिनि। हो पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि। हा रामैकजीविते। हा महारण्यवासप्रियसखि। हा तातप्रिये। हा स्तोकप्रियवादिनि कथमेवंविधायास्तवायमीदृशः परिणामः।
त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः।
नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे॥४॥
(दुर्मुखं प्रति)
दुर्मुख। ब्रूहि लक्ष्मणमेष ते नूतनो राजा रामः समाज्ञापयति। (कर्णे एवमेवम्)
दुर्मु०। कथमिदानीमग्निपरिशुद्धाया गर्भपरिस्फुरितपवित्ररघुकुलसंतानाया देव्या दुर्जनवचनादेवमनार्यमध्यवसितं देवेन।
रामः। शान्तम्। कथं दुर्जनाः पौरजानपदाः।
इक्ष्वाकुवंशोऽभिमतः प्रजानां जातं च दैवाद्वचनीयबीजम्।
यच्चाद्भुतं कर्म विशुद्धिकाले प्रत्येतु कस्तद् ह्यतिदूरवृत्तम्॥५॥
तद्गच्छ।
दुर्मु०। हा देवि। (इति निष्क्रान्तः)।
रामः। हा कष्टमतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः।
शैशवात्प्रभृति पोषितां प्रियां सौहृदादपृथगाशयामिमाम्।
छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिकामिव॥६॥
तत्किमित्यस्पर्शनीयः पातकी देवीं दूषयामि।
(सीतायाः शिरः स्वैरमुन्नमय्य बाहुमाकर्षन्)
अपूर्वकर्मचाण्डालमयि मुग्धे विमुञ्च माम्।
श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम्॥७॥
(उत्थाय) हन्त विपर्यस्तः संप्रति जीवलोकः। अद्य पर्यवसितं जीवितप्रयोजनं रामस्य। शून्यमधुना जीर्णारण्यं जगत्। असारः संसारः। कष्टप्रायं शरीरम्। अशरणोऽस्मि। किं करोमि। का गतिः। क्वगच्छामि।
अथवा।
दुःखसंवेदनायैव रामे चैतन्यमर्पितम्।
मर्मोपघातिभिः प्राणैर्वज्रकीलायितं स्थिरैः॥८॥
हा अम्ब अरुन्धति। हा भगवन्तौ वसिष्ठविश्वामित्रौ। हा भगवन्पावक। हा देवि भूतधात्रि। हा तात जनक। हा तात। हा मातरः। हा प्रियसख महाराज सुग्रीव। हा सौम्य हनूमन्। हा परमोपकारिन् लङ्काधिपते बिभीषण।हा सखि त्रिजटे। दूषिताः स्थ परिभूताः स्थ रामहतकेन। अथवा को नामाहमेतेषामाह्वाने।
ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना।
मया गृहीतनामानः स्पृश्यन्त इव पाप्मना॥९॥
योऽहम्
विश्रम्भादुरसि निपत्य लब्धनिद्रा-
मुन्मुच्य प्रियगृहिणीं गृहस्य शोभाम्।
आतङ्कस्फुरितकठोरगर्भगुर्वीं
क्रव्याद्भ्यो बलिमिव निर्घृणः क्षिपामि॥१०॥
(सीतायाः पादौ शिरसि कृत्वा) देवि देवि भयमपश्चिमस्ते रामस्य शिरसि पादपङ्कजस्पर्शः। (इति रोदिति। गत्वा पुनः प्रतिनिवृत्य) हा देवि कथमेवंविधा गमिष्यसि। भगवति वसुन्धरे श्लाघ्यां दुहितरमवेक्षस्व जानकीम्।
जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम्।
यां देवयजने पुण्ये पुण्यशीलामजीजनः॥११॥
(इति निष्क्रान्तः)
— उत्तररामचरितम्।
EXERCISES
1 Dissolve and name the compounds – पौरजानपदाः। लोकश्रेष्ठः। देवयजनसम्भवा। एवंविधा। विषद्रुमः। कष्टप्रायम्। मर्मोपघातिनः। प्रियसखः। क्रव्याद्।
2 Name fully - विस्मारिताः वज्रकीलायितम्। अजीजनः।
3 Note the use of - वि + स्मृ Causal । धिक्। क्षिप्।
4 Note the following usages —
(a)
अतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः।
(b)
छद्मना परिददामि मृत्यवे।
(c)
हन्त विपर्यस्तः सम्प्रति जीवलोकः।
(d)
को नामाहमेतेषामाह्वाने।
NOTES
** अर्थवादः** Praise eulogy. उद्वेगःDisturbance. प्रशमितं Removed, expiated. आलर्क Of a mad dog. मत्सम्बन्धात् On my account. गर्भपरिस्फुरित etc…….In whose woh is throbbing the pure progeny of Raghu’s line. अभिमत Dear to.अपृथगाशया Whose heart was not different from mine. सौनिकःA butcher. स्वैरम् Gently. अपूर्वकर्मचाण्डाल A villain of unprecedented deeds. आतङ्कःFear. कठोर Fully developed. गोत्रमङ्गलम् The auspiciousness of the family.
——————————
३४ दुर्वासाः सरस्वतीं शपति
[This is an extract from Bāṇa’s Harshacharita.
Durvāsas grew angry with Sarasvatī when she laughed at him in derision and cursed her in spite of the threats of Sāvitrī and the entreaties of his friends and pupils. Sāvitrī was, thereupon,
about to curse bim when she was prevented by Saraswatī from doing so. God Brahman then severely scolded the wrathful sage for the wrong he had committed and at the same time consoled Saraswatī by allowing Sāvitrī as: her companion and making the curse only conditional, so that she would be free from the curse as soon as she looked upon tho face of her son.]
पुरा किल भगवान् स्वं लोकमधितिष्ठन् परमेष्ठी विकासिनि पद्मविष्टरे समुपविष्टः शुनासीरप्रमुखैर्गीर्वाणैः परिवृतो ब्रह्मोदिताः कथाः कुर्वन्नन्याश्च निरवद्या विद्यागोष्टीर्विभावयन् कदाचिदासाञ्चक्रे। तथासीनं च तं त्रिभुवनप्रतीक्ष्यं सर्वे दक्षचाक्षुषप्रभृतयः सप्रजापतयः सर्वे च सप्तर्षिपुरःसरमहामुनयः सिषेविरे। विद्याविसंवादकृताश्च तत्र तेषामान्योन्यस्य विवादाः प्रादुरभूवन्। अथातिरोषणः प्रकृत्या महातपा मुनिरत्रेस्तनयस्तारापतेर्भ्राता द्वितीयेन मन्दुनाम्ना मुनिना सह कलहायमानः साम गायन् क्रोधान्धो विस्वरमकरोत्। सर्वेषु शापभयप्रतिपन्नमौनेषु मुनिषु देवी सरस्वती तच्छ्रुत्वा जहास दृष्ट्वा तु तां तथा हसन्तीं स मुनिराःपापे दुर्गृहीतविद्यालवावलेपे दुर्विदग्धे मामप्यपहससीत्युक्त्वा कोपतरलिताङ्गुलिना करेणाक्षमालां विक्षिप्य कामण्डलवेन वारिणा समुपस्पृश्य शापजलं जग्राह।
अत्रान्तरे स्वयम्भुवोऽभ्यासे समुपविष्टा देवी सावित्री आः पाप क्रोधोपहत दुरात्मन्ननात्मज्ञ ब्रह्मबन्धो मुनिखेटक कथमात्मस्खलितविलक्षः सकल- सुरासुरमुनिमनुजवन्दनीयां त्रिभुवनमातरं सरस्वतीं शप्तुमभिलषसीत्युक्त्वा बृसीमपहाय समुत्तस्थे। मर्षय मर्षय भगवन्नभूमिरेषा शापस्येत्यनुशास्यमानोऽपि तापसैरुपाध्याय स्खलितमेकं क्षमस्वेति बद्धाञ्जलिपुटैः प्रसाद्यमानोऽपि शिष्यैः पुत्र मा कृथास्तपसः प्रत्यूहमिति निवार्यमाणोऽप्यत्रिणा रोषावेशविवशो दुर्वासा दुर्विनीते व्यपनयामि ते विद्यालवावलेपविशेषजनितामुन्नतिमधस्ताद्गच्छ मर्त्यलोकमित्युक्त्वा तच्छापोदकं विससर्ज। ततः प्रतिशापदानोद्यतां च सावित्रीं सखि संहर क्रोधं संस्तुतमतयोऽपि जात्यैव द्विजन्मानो माननीया इत्यभिदधाना सरस्वत्येनां न्यवारयत्। अथ तां तथा शप्तां सरस्वतीं दृष्ट्वापितामहः सधीरमुवाच। ब्रह्मन्न खलु साधुसेवितोऽयं पन्था येनासि प्रवृत्तः। पुरस्तादुद्दामप्रसृतोन्द्रियवाजिसमुत्था-
पितं रजः कलुषयति दृष्टिमनक्षजिताम् कियद्दूरं वा चक्षुरीक्षते। विशुद्धया धिया पश्यन्ति कृतबुद्धयः सर्वानसतः सतो वा। निसर्गविरोधिनी चेयं पयःपावकयोरिव एकत्र धर्मक्रोधयोर्वृत्तिः। आलोकमपहाय कथं तमसि निमज्जसि। क्षमा हि मूलं सर्वतपसाम्। परदोषदर्शनदक्षा दृष्टिरिव कुपिता नते बुद्धिरात्मनो दोषान्पश्यति। क्व महातपोभारवैषयिकता क्व पुरोभागित्वम्। अतिरोषणश्चक्षुष्मानपि अन्ध एवाजनि। न हि खलु कोपकलुषिता विमृशति मतिः कर्तव्यमकर्तव्यं वा। कुपितस्य हि प्रथमान्धकारिणी भवति विद्या ततो भ्रुकुटी। आदाविन्द्रियाणि रागः समास्कन्दति चरमं चक्षुः। आरम्भे तपो गलति पश्चात् स्वेदसलिलम्। पूर्वमयशः स्फुरति अनन्तरमधरः। कथं च ते विषपादपस्येव लोकविनाशाय वल्कलानि जातानि। अनुचिता खल्वस्य मुनिवेषस्य हारयष्टिरिव वृृत्तमुक्ता चित्तवृत्तिः। शैलूष इव वृथा वहसि कृत्रिमोपशमम्। अनेनापि लधिम्ना चाद्याप्युपर्येव प्लवसे ज्ञानोदन्वतः। न खल्वेडमूकाक्षा एडा जडा वा एते महर्षयः। रोषदोषनिषेव्ये स्वहृदये निग्राह्ये किमर्थमसि निगृहीतवाननागसं सरस्वतीम्। एतानि तान्यात्मस्खलितवैलक्ष्याणि यैर्याति वाच्यतामविदग्धो जनः। इत्युक्त्वा पुनराह। भद्रे सरस्वति मा गा विषादम्। एषा त्वामनुयास्यति सावित्री। विनोदयिष्यति चास्मद्विरहितां त्वाम्। आत्मजमुखकमलावलोकनावधिश्चते शापोऽयं भविष्यतीत्यभिधाय विसर्जितसुरासुरमुनिमण्डलः समुचिताह्निककरणायोदतिष्ठत्। सरस्वत्यपि शप्ता किञ्चिदधोमुखी सह सावित्र्या गृहमगात्।
—
हर्षचरितम्।
EXERCISES
1 Dissolve and name the compounds
—
दक्षचाक्षुषप्रभूतयः। सप्तर्षिपुरःसरमहामुनयः। द्विजन्मानः। वृत्तमुक्ता। ज्ञानोदन्वान्। अस्मद्विरहिता। आत्मजमुखकमलावलोकनावधिः।
2 Name fully — विभावयन्। आसीनः। कलहायमानः। कामण्डलवेन। निवार्यमाणः। निमज्जसि। अजनि। (मा) गाः। सिषेविरे।
3 Note the uses of -अधि + स्था। आस्(with Present Part. )। अन्योन्य Loc. Abs. ।क्व
—
क्व।
4 Write a note on the use of - (i) Perfect. (ii) Simple Future.
5 Note the following usages —
(a) परमेष्ठी कथाः कुर्वन् आसाञ्चक्रे।
(b)
अन्योन्यस्य विषादाः प्रादुरभूवन्।
(c)
कथं सरस्वतीं शप्तुमभिलषसि।
(d)
न खलु साधुसेवितोऽयं पन्था येनासि प्रवृत्तः।
(e)
निसर्गविरोधिनी चेयं पयःपावकयोरिव एकत्र धर्मक्रोधयोर्वृत्तिः।
(f)
अनुचिता खल्वस्य मुनिवेशस्य हारयष्टिरिव वृत्तमुक्ता चित्तवृत्तिः।
(g)
रोषदोषनिषेव्ये स्वहृदये निग्राह्ये किमर्थमसि निगृहीतवाननागसं सरस्वतीम्।
NOTES
शुनासीर Indra. परमेष्ठिन् God Brahman. ब्रह्मोदिताःConnected with the Vedas. विद्यागोष्ठीःConversations about learning. प्रतीक्ष्य = पूज्य। विस्वरमकरोत् Chanted a discordant note. पुरस्तात् First. अनक्षजिताम् Of those who have not conquered their senses. कृतबुद्धयः The wise. परदोषदर्शनवृक्षा… पश्यति cf. खलः सर्षपमात्राणि परछिद्राणि पश्यति। आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति। अन्धकारिणी = तमोमयी।राग Passion, red colour. स्फुर् To come up, to be produced, to tremble.वृत्तमुक्ता —(i) वृत्ताः मुक्ताः यस्यां सा—हारयष्टिः (ii) वृत्तात् मुक्ता। (= च्युता, भ्रष्टा) —चित्तवृत्तिः। एड Deaf. रोषदोषनिषेध्ये etc. Loc. Abs. has the sense of “Instead of”.
––––––––––
३५ कर्णाश्वत्थाम्नोः कलहः
[Bhaṭṭa-Nārāyaṇa is a drmatist of the latter half of the ninth century A. D. He is said to have lived in the reign of king Avantivarman. No other work of this writer is yet known except the play Veṇī-Samhāramfrom which this piece is adopted. His style is rather high-sounding and abstruse, but it is at the same time very effective.
Summary-Ashwatthāman, in a fit of sorrow, began to boast of his prowess to Duryodhana in the hearing of Karṇa. Duryodhana was thinking of installing Karṇa as the commander-in-chief and the latter feels, therefore, insulted by the boast of Ashwatthāman. Then begins the quarrel and from words they proceed to blows; hut are somehow pacified.]
(ततः प्रविशतिः कर्णदुर्योधनवासनस्थौ।)
दुर्योधनः। अङ्गराज।
तेजस्वी रिपुहतबन्धुदुःखपारं
बाहुभ्यां व्रजति धृतायुधप्लवाभ्याम्।
आचार्यः सुतनिधनं निशम्य संख्ये
किं शस्त्रग्रहसमये विशस्त्र आसीत्॥१॥
अथवा सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्यजेति। यतः शोकान्धचेतसा तेन विमुच्य क्षत्रधर्मकार्कश्यं द्विजातिसुलभो मार्दवपरिग्रहः कृतः।
कर्णः। राजन्कौरवेश्वर न खल्विदमेवम्।
** दुर्यो०**। कथं तर्हि।
** कर्णः**। एवं किल द्रोणस्याभिप्राय आसीद्यथाश्वत्थामा मया पृथिवीराज्येभिषेक्तव्य इति। तस्याभावाद्वृद्धस्य मे ब्राह्मणस्य वृथा शस्त्रग्रहणमिति तथा कृतवान्।
दुर्यो०। (सशिरःकम्पम्) एवमिदम्।
कर्णः। एतदर्थ च कौरवपाण्डवपक्षपातप्रवृत्तमहासङ्ग्रामस्य राजकस्य परस्परक्षयमुपेक्षमाणेन तेन प्रधानपुरुषवध उपेक्षा कृता।
दुर्यो०। उपपन्नमिदम्।
कर्णः। न चायं ममैकस्याभिप्रायः। अन्येऽभियुक्ता अपि नैवेदमन्यथा मन्यन्ते।
दुर्यो०। एवमेतत् कः सन्देहः।
दत्वाभयं सोऽतिरथी वध्यमानं किरीटिना।
सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्यथा॥२॥
(तत उपसर्पतः कृपाश्वत्थामानौ)
दुर्यो०। (दृष्ट्वा) अये कथं कृपोऽश्वत्थामा च। (आसनादवतीर्य) गुरो अभिवादये। (अश्वत्थामानं प्रति) आचार्यपुत्र एहि परिष्वजस्व माम्।
(आलिङ्ग्य पार्श्व उपवेशयति। अश्वत्थामा बाष्पमुत्सृजति।)
कर्णः। द्रौणायने अलमत्यर्थमात्मानं शोकानले प्रक्षेप्तुम्।
दुर्यो०। आचार्यपुत्र को विशेष आवयोरस्मिन्व्यसनार्णवे। पश्य
ततस्तव प्रणयवान्स पितुः सखा मे
शस्त्रे यथा तव गुरुः स तथा ममापि।
किं तस्य देहनिधने कथयामि दुःखं
जानीहि तद्गुरुशुचा मनसा त्वमेव॥३॥
अश्व०। राजन्नेवं पक्षपातिनि त्वयि युक्तमेव शोकभारं लघूकर्तुम्। किं तु
मयि जीवति मत्तातः केशग्रहमवाप्तवान्।
कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम्॥४॥
कर्णः। द्रोणायने किमत्रक्रियते यदा तेनैव सर्वपरिभवत्राणहेतुना शस्त्रमुत्सृजतैतादृशीमवस्थामात्मा नीतः।
अश्व०। अङ्गराज किमाह भवान्। किमत्र क्रियत इति। श्रूयतां यत्क्रियते।
यो यः शस्त्रं बिभर्ति स्वभुजगुरुबलः पाण्डवीनां चमूनां
यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः
क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्॥५॥
दुर्यो०। आचार्यपुत्र तस्य तथाविधस्यानन्यसाधारणस्य ते वीरभावस्य किमन्यत्सदृशम्।
कृपः। राजन्सुमहान्खलु द्रोणपुत्रेण वोढुमध्यवसितः समरभारः। तदहमेवं मन्ये। भवता कृतपरिकरोऽयमुच्छेत्तुं लोकत्रयमपि समर्थः। किं पुनर्युधिष्ठिरबलम्। अतोऽभिषिच्यतां सैनापत्ये।
दुर्यो०। सुष्ठु युज्यमानमभिहितं युष्माभिः। किं तु प्राक्प्रतिपन्नोऽयर्थोऽङ्गराजस्य।
कृपः। राजन्। असदृशपरिभवशोकसागरे निमज्जन्तमेनमङ्गराजस्यार्थे नवोपेक्षितुं युक्तम्। अस्यापि च तदेवारिकुलमनुशासनीयम्। अतः किमस्य पीडा न भविष्यति।
अश्व०।राजन्कौरवेश्वर किमद्यापि युक्तायुक्तविचारणया।
प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा-
मकेशवमपाण्डवं भुवनमद्य निःसोमकम्।
इयं परिसमाप्यते रणकथाद्य दोःशालिना
व्यपैतु नृपकाननातिगुरुद्यभारो भुवः॥६॥
** कर्णः**। द्रोणात्मज वक्तुं सुकरमिदमध्यवसितुं दुष्करम्। बहवः कौरवबलेऽस्य कर्मणः शक्ताः।
अश्व०। अङ्गराज एवम्। बहवः कौरवबले शक्ताः। किं तु दुःखोपहतः शोकावेशाद्ब्रवीमि। न पुनर्वीरजनाधिक्षेपेण।
कर्णः। मूढ दुःखितस्याश्रुपातःकुपितस्य चायुधद्वितीयस्य संग्रामावतरणमुचितम्। नैवंविधाः प्रलापाः।
अश्व०। (सक्रोधम्) अरेरे राधागर्भभारभूत सूतापसद किमेवमाक्षिपसि।
कर्णः।
सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम्।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम्॥७॥
अश्व०। किमाह भवान्। ममापि नामाश्वत्थाम्नो दुःखितस्याश्रुभिः प्रतिक्रियामुपदिशसि न शस्त्रेण।
निर्वीर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं
सम्प्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा।
जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले
क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्त्रेण नास्त्रेण किम्॥८॥
कर्णः। ( सक्रोधम् ) अरेरे वाचाट वृथाशस्त्रग्रहणदुर्विदग्ध बटो।
निर्वीर्यं वा सवीर्यं वा मया नोत्सृष्टमायुधम्।
यथा पाञ्चालभीतेन पित्रा ते बाहुशालिना॥९॥
** अश्व०**। (सक्रोधम्)। अरे रथकारकुलकलङ्क राधागर्भभारभूत आयुधानभिज्ञ तातमप्यधिक्षिपति। अथवा
स भीरुः शूरो वा प्रथितभुजसारस्त्रिभुवने
कृतं यत्तेनाजौ प्रतिदिनमियं वेत्ति वसुधा।
परित्यक्तं शस्त्रं कथमिति स सत्यव्रतधरः
पृथासूनुः साक्षी त्वमसि रणभीरो क्व नु तदा॥१०॥
** कर्णः**। ( विहस्य) एवं भीरुरहम् त्वं पुनर्विक्रमैकरसः। तव पितरमनुस्मृत्य महान्मे संशयो जातः। अपि च रे मूढ
यदि शस्त्रमुज्झितमशस्त्रपाणयो
न निवारयन्ति किमनुदायुधान्।
यदनेन मौलिदलनेप्युदासितं
सुचिरं स्त्रियेव नृपचक्रसंनिधौ॥११॥
अश्व०। (सक्रोधं सकंपं च) दुरात्मन् राजवल्लभप्रगल्भ सूतापसद असंबद्धप्रलापिन्
कथमपि न निषिद्धो दुःखिना भीरुणा वा
द्रुपदतनयपाणिस्तेन पित्रा ममाद्य।
तव भुजबलदर्पध्मायमानस्य वामः
शिरसि चरण एष न्यस्यते वारयैनम्॥१२॥
(इति तथा कर्तुमुत्तिष्ठति)
कृपदुर्योधनौ। गुरुपुत्र मर्षय मर्पय। (इति वारयतः)
(अश्वत्थामा चरणप्रहारं नाटयति)।
** कर्णः**। (सक्रोधमुत्थाय खड्गमाकृष्य) अरे दुरात्मन् ब्रह्मबन्धो आत्मश्लाघिन्
जात्या काममवध्योऽसि चरणं त्विदमुद्धृतम्।
अनेन लूनं खड्गेनपतितं वेत्स्यसि क्षितौ॥१३॥
अश्व०। अरे मूढ जात्या चेदवध्योऽहमियं सा जातिः परित्यक्ता।
(इति यज्ञोपवीतं छिनत्ति।)
EXERCISES
1 Dissolve and name the compounds — आसनस्थः। अङ्गराजः। धृतायुधप्लवौ। विशस्रः। द्विजातिसुलभः। व्यसनार्णवः। अधिकवयाः। प्रतीपः। तथाविधः। सुमहान्। आयुधद्वितीयः। सूतापसदः। मदायत्तम्। प्रतिदिनम्। विक्रमैकरसः। अशस्त्रपाणिः। उदायुधः। परिकुपितभीमार्जुनभयः। प्रियसखः।
2 Note the uses of —यावत्… तावत्। उपेक्षा। अन्यथा। अलम्। विशेषः। सदृशम्। प्रतिपक्षः। शक्तः। उचितम्। उदासितम्। कामम्। अन्योन्य। किम्। यथा।
3 Name fully — उपपन्नम्। लघूकर्तुम्। उत्सृजता। अध्यवसितः। आह। अध्यवसितुम्। उत्सृष्टम्। स्त्रिया। लूनम्। वेत्स्यसि। अवध्यः। पन्थाः। सेत्स्यति।
4 Note the uses —
(a) सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्वजेति।
(b)
द्विजातिसुलभो मार्दवपरिग्रहः कृतः।
(c)
अलमत्यर्थमात्मनं शोकानले प्रक्षेप्तुम्।
(d)
को विशेष आवयोरस्मिन्व्यसनार्णवे।
(e)
पक्षपातिनि त्वयि युक्तमेव शोकभारं लघूकर्तुम्।
(f)
तेन शस्त्रमुत्सृजतैतादृशीमवस्थामात्मा नीतः।
(g)
प्राक्प्रतिपन्नोऽयमर्थोऽङ्गराजस्य।
(b)
वक्तुं सुकरमिदमध्यवसितुं दुष्करम्।
(i)
बहवोऽस्य कर्मणः शक्ताः।
(j)
अनेन मौलिदलनेऽप्युदासितम्।
(k)
मौलो वा रचयाञ्जलिम्।
NOTES
प्लव A boat. किं विशस्रआसीत् Why did he discard his weapon? कार्कश्यंHardness. मार्दव Softness. उपपन्न Plausible. अन्यथा Otherwise, false. तेनैव… आत्मा नीतः When he reduced himself to such a state by giving up arms. स्वभुजगुरुबलः=बाहुमात्र सहायः। वोढुमध्यवसितः समरभारः He has determined to (undertake) bear the brunt of the battle. कृतपरिकरः Installed as & general. प्राक्प्रतिपन्नः अयमर्थःThis office has been already promised. वीरजनाधिक्षेपेण To revile warriors. गुरुशापKarṇalived with Parashurāma in the disguise of a Brāhmaṇa and acquired from him the secrets of the art of fighting. The latter, however, came to know the trick Karṇa had played upon him and cursed him saying that he (Karṇa) won’t be able to use his knowledge in war. उदासितम् He remained indifferent. ध्मायमान Beingpuffed up or elated. ब्रह्मबन्धु Brāhmaṇa in name only. वामः Left सेत्स्यति Will be acomplished.
३६ पार्वती-परीक्षा
[This is an extract from Kumāra-sambhavam. In this passage we are told how Shiva himself approches Pāravati in the disguise of a young hermit and puts her love to test. She, however, proves her fidelity to the best and is at last rewarded with what she had so long wanted.]
अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्निव ब्रह्ममयेन तेजसा।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा॥१॥
तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती।
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः॥२॥
विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम्।
उमां स पश्यनृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः॥३॥
अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते।
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम्॥४॥
अपि त्वदावर्जितवारिसम्भृतं प्रवालमासामनुबन्धि वीरुधाम्।
चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा॥५॥
अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु।
य उत्त्पलाक्षि प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते॥ ६॥
यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः।
तथा हि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम्॥७॥
विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गैः सलिलैर्दिवश्च्युतैः।
यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः॥८॥
प्रयुक्तसत्कारविशेषमात्मना न मां परं संप्रतिपत्तुमर्हसि।
यतः सतां सन्नतगात्रि संगतं मनीषिभिः साप्तपदीनमुच्यते॥९॥
अतोऽत्र किञ्चिद्भवतींबहुक्षमां द्विजातिभावादुपपन्नचापलः।
अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हसि॥१०॥
कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः।
अमृग्यमैश्वर्यसुखं नवं वयस्तपःफलं स्यात्किमतः परं वद॥११॥
भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी।
विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि त्वयि॥१२॥
अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु कुतः पितुर्गृहे।
पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये॥१३॥
किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्।
वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते॥१४॥
दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः।
अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत्॥१५॥
निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते।
न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम्॥१६॥
अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते।
उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः॥१७॥
मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम्।
शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते॥१८॥
अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः।
करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः॥१९॥
कियच्चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः।
तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम्॥२०॥
इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम्।
अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत॥२१॥
सखी तदीया तमुवाच वर्णिनं निबोध साधो तव चेत्कुतूहलम्।
यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः॥२२॥
इयं महेन्द्रप्रभृतीनाधिश्रियश्चतुर्दिगीशानवमस्य मानिनी।
अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति॥२३॥
यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती।
तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम्॥२४॥
द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपः साक्षिषु दृष्टमेष्वपि।
न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः॥२५॥
न वेद्मिस प्रार्थितदुर्लभः कदा सखीभिरस्रोत्तरमीक्षितामिमाम्।
तपः कृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम्॥२६॥
अगूढसद्भावामेतीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया।
अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः॥२७॥
अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम्।
कथाञ्चिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत॥२८॥
यथा श्रुतं वेदविदां वर त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥२९॥
अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे।
अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे॥३०॥
अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाह कौतुकः।
करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम्॥३१॥
त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः।
वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च॥३२॥
चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते।
अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु॥३३॥
इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति॥३४॥
द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी॥३५॥
वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु।
वरेषु यद्वालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने॥३६॥
निवर्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा।
अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया॥३७॥
इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया।
विकुञ्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते॥३८॥
उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम्।
अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम्॥३९॥
विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा।
जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः॥४०॥
अकिञ्चनः सम्प्रभवः स संपदां त्रिलोकनाथः पितृसद्मगोचरः।
स भीमरूपः शिव इत्युदीर्यते न सन्ति यथार्थ्याविदः पिनाकिनः॥४१॥
विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा।
कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः॥४२॥
असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा।
करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली॥४३॥
विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम्।
यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति॥४४॥
अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते॥४५॥
निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्॥४६॥
इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः॥४७॥
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेपणाय पदमुद्धृतमुद्वहन्ती।
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ॥४८॥
अद्यप्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ।
अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते॥४९॥
—कुमारसंभवे पञ्चमः सर्गः।
EXERCISES
1 Decline — दिव्। सुभ्रू। युवन्। आत्मभू।
2 Name fully —प्रचक्रमे। भवतीम्। अमूग्यम्। सुभ्रु। ईप्सितः। निवेदितम्।आस्थ। उदीर्यते। विवक्षता। आमनन्ति। विवक्षुः।
3 Note the uses of — नाम। अपि। प्र + वृत्। तथाहि। यथा…तथा। अयं जनः। कृप्। आ + मुच्। कदाचित्। क्व…… क्व। नूनम्। अह्नाय।
4 Note the formation —जटिल। आतिथेयी। गाङ्ग। आत्मीय। वैदिकी।
5 Dissolve and name the compounds —अजिनाषाढधरः। शरीरबद्धः। वपुर्विशेषेषु। अतिगौरवाः। समित्कुशम्। उत्पलाक्षि। उदारदर्शने। मनीषिभिः। साप्तपदीनन्। प्रष्टुमनाः। प्रार्थितदुर्लभः। श्लथलम्बिनीः। अर्धभागेन। पुरारिम्। उन्मदना। अग्रहस्तः।
NOTES
आषाढ A staff used by ascetics. प्रथमाश्रमः = ब्रह्मचर्याश्रमः। आतिथेयी Hospitable to guests (अतिथिषु साधुः). साम्येपि Even though they stood on a par with each other. अतिगौरवाःExcessively respectful. क्रम Decorum. पापवृत्तये न रूपं A lovely form does not tend to sinful behaviour. न मां परं etc. You should not look upon me as a stranger. अलभ्यशोकाभिभवा Incapable of being afflicted by grief. पराभिमर्षः Outrage. सूचये = सूचिग्रहणार्थम्। कल्पते Is fit for. स्थिरः Hard-hearted. न करोति लक्ष्यं अस्य चक्षुषः Who does not at once show himself to you. स्वयंकृतजन्मसु Planted by herself. सीता Ploughed ground: तदवग्रह Drought caused by him (i.e. Indra). चिरण्यवस्थापितवाक्Who had long settlod (in her mind) the words to be spoken. उच्चैः पदलङ्घनोत्सुकःDesirous of reaching a high position. अमङ्गलाम्यासरतिः Taking delight in foul practices अनुवृत्तिं कृ To approve of.आ + मुच् To put on. चतुष्क A hall. स्मेरमुख Smiling, with a smile on his face. विरूपाक्षम् - (1) Having ugly eyes. (2) Having odd eyes. अलक्ष्यजन्मता - (1) Want of any knowledge of birth (i. e, absence of traceable heredity). (2) Whose birth is inconceivable. वैदिकी यूपसत्क्रिया Holy consecration as of a sacrificial post. निराशिस्Indifferent. पितृसद्मम् = श्मशान। न कामवृत्तिर्वचनीयं etc. One who acts wilfully does not care for censure. मार्गाचल etc. Like a river agitated by the obstruction of a hill in its course. अह्नाय =झटिति। नवतां विधत्ते Produces freshness (i. e. makes one refreshed).
३७ भार्गवो दाशरथिमाह्वयते
[Jayadeva, a poet and dramatist of some reputation, is said to have flourished during the reign of Laxmaṇasena in the beginning of the twelfth century A. D. His style, like that of almost all the later writers, is rather high and involved. It is, never-the-less, vigorous and effective. Jayadeva is the author of the charming lyric poem Gita-Govinda. The other known work attributed to him is a drama Prasanna-Rāghavam, from which the following extract is taken.
Summary — Rāma had broken the bow of god Shiva who was the Guru of Bhārgava i. e. Parashurāma. Bhārgava, therefore, thought it his duty to punish the insolent Kshatriya who had insulted the great god by breaking his bow into two. This passage very beautifully brings out the salient characteristics of both Bhargava and Rāma]
(ततः प्रविशतो रामलक्ष्मणौ)
लक्ष्मणः। (सकौतुकम्)
मौर्वीं धनुस्तनुरियं च बिभर्ति मौञ्जीं
बाणाः कुशाश्च विलसन्ति करे तथास्याः।
धारोज्ज्वलः परशुरेष कमण्डलुश्च
तद्वीरशान्तरसयोः किमयं विकारः॥१॥
आर्य किं पुनरिदं ब्रह्मक्षत्रवर्णात्मकं चित्रमिव स्फुरति।
रामः। वत्स न विदितं ते। नन्वयं स भगवान् भार्गवो येन क्रौंचमहीधराशिखरं विद्धं छिन्नं च यस्य क्रीडाकुठारेण हैहयपतेरुद्दामदोःकाननम्।
** लक्ष्मणः**। तर्हि विस्मयनीयशीलो भगवान्।
रामः। विस्मयनीयशीलानां शिखामणिरिति वक्तव्यम्।
(उभौ परिक्रामतः)
रामः। (अञ्जलिं बद्ध्वा) भगवन् भृगुकुलशिरः शिखण्डक एष सानुजस्य मेप्रश्रयरमणीयः प्रणामः।
जामदग्न्यः। समरविजयी भूयाः।
रामः। भगवन् भृगुकुलमौलिमाणिक्य अनुगृहीतोऽस्मि
भार्गवः। (स्वगतम्। सकरुणम्)
रामे चन्द्राभिरामे विनयवति शिशौ किं प्रकुप्या तिमात्रम्।
(विमृश्य सक्रोधम्)
हुं चापं चन्द्रमौलेश्चपलमतिरसाविक्षुभञ्जं बभञ्ज।
(पुनः सानुक्रोशम्)
बाला वैधव्यदीक्षां जनकनृपसुता नार्हतीयं मदस्त्रात्
(पुनर्विचिन्त्य सामर्षम्)
आः शान्तो मे कुठारः कथमयमधुना रेणुकाकण्ठशत्रुः॥२॥
(प्रकाशम्) दाशरथे इयमसौ मे त्वयि समुदाचारानुसारिणी वाग्वृत्तिरेव।
रामः। (विहस्य) मनोवृत्तिस्तु कीदृशी।
भार्गवः। चण्डीशकार्मुकविमर्दकयोस्तव बाह्वोर्दर्पं कठिनेनानेन कुठारेण शातयामि।
रामः। भगवन् निग्रहानुग्रहयोः स्वाधीनोऽयं जनः। परं ते कोपबीजं
शातुमिच्छामि।
भार्गवः। अहो दर्पान्धता। ननु रे न भग्नं किं त्वया जगद्गुरुशरासनम्।
रामः। भगवन् अलीकलोकवार्तया निरपराधे मयि मुधा कोपकलङ्कितोऽसि।
भार्गवः। तत् किं स्वस्ति हरकार्मुकाय।
रामः। नहि नहि।
भार्गवः। तत्कथं निरपराधोऽसि।
रामः।
मया स्पृष्टं न वा स्पृष्टं कार्मुकं पुरवैरिणः।
भगवन्नात्मनैवेदमभज्यत करोमि किम्॥३॥
भार्गवः। आः कथं रे चन्दनदिग्धं नाराचं निधाय हृदयं मे शीतलयसि। तदलमनेन। (कुठारमुद्यम्य) हे राम कामरिपुकार्मुकभङ्गसञ्जातपातक। तवैष कठोरधारो निष्करुणः कुठारः कण्ठं विशतु। तत्प्रवीरो भव।
रामः।
हारः कण्ठं विशतु यदि वा तीक्ष्णधारः कुठारः।
स्त्रीणां नेत्राण्यधिवसतु नः कज्जलं वा जलं वा।
संपश्यामो ध्रुवमिह सुखं प्रेतभर्तुर्मुखं वा
यद्वा तद्वा भवतु न वयं ब्राह्मणेषु प्रवीराः॥४॥
जामदग्न्यः। (सामर्षम्) कथं मां प्रणतिपात्रं मुनिमात्रं मन्यसे। कथं क्षत्रियजातिगर्वितो ब्राह्मणजातिं तृणाय मन्यसे। स एव जामदग्न्यः खल्वहं यः क्षत्रकण्ठविगलदुष्णाजोऽञ्जलीन् समर्प्य पितंस्तोषयामास। तदलमिदानीमपि,
कृत्वा त्रिःसप्तकृत्वः समिति विशसनं पूर्वमुर्वीपतीनाम्
कृत्वान्यत् सप्तकृत्त्वः पुनरपि कदनं दुर्मदानां नृपाणाम्।
निर्माय क्ष्मापतीनां प्रतिसमरहृतैरुत्तमैरुत्तमाङ्गैः
कापालीमक्षमालां झटिति भगवतो भैरवस्यार्पयामि॥ ५॥
** रामः**। हे भृगुतिलक आत्मनो यशोवित्तं मुधा मा हारय।
जामदग्न्यः। कथं रे हारयिष्यामि। (विमृश्य) अथवा
किन्नाम वाग्डम्बरपण्डितेषु
युष्मासु वाणीः प्रचुराः प्रयुञ्जे।
बाणान् रिपुप्राणहरान् मदीयान्
सर्वेऽपि यूयं सहिताः सहध्वम्॥६॥
रामः। नन्वहमेव सहिष्ये।
भार्गवः। रे तव गुरुरपि कौशिको मन्नाराचभयात्पद्मासनं भगवन्तं ब्राह्मींतनुं ययाचे।
रामः। कथं गुरुमप्यधिक्षिपसि। तदतःपरं न सहिष्ये। (साटोपम्) अये जामदग्न्यतत् कुलिशकठिनं कोदण्डं रामेणैवानेन भग्नम् \। भवतु तत् त्रैयक्षं वा नारायणीयं वा। मम दोर्विलासस्तन्न गणयति।
जामदग्न्यः। (सहर्षम्) साधु रे क्षत्रियपोत साधु यत्किल जामदग्न्यनाम्नश्चण्डधाम्नःपुरतः खद्योत इव विद्योतसे।
रामः। अलमलं वाग्डम्बरेणानेन। क्रियतां यथाभिलषितम्।
भार्गवः॥ यदि शक्तोऽसि तदेहि समरक्षमां क्षमामवतरावः।
(इति निष्क्रान्तौ।)
— प्रसन्नराघवम्।
EXERCISES
1 Dissolve and name the compounds —ब्रह्मक्षत्रवर्णात्मकम्। उद्दामदोः काननम्। विस्मयनीयशीलः। प्रश्रयरमणीयः। चन्द्राभिरामः। समुदाचारानुसारिणी। जगद्गुरुशरासनम्। निरपराधः। प्रतिसमरहृतम्। वाग्डम्बरपण्डितः। रिपुप्राणहरः। कुलिशकठिनम्।
2 Name fully—विद्धम्। भूयाः। इक्षुभञ्जम्। शातयामि। शीतलयसि। हारय। अर्पयामि। सप्तकृत्वस्। त्रिः।
3 Note the uses of —स्वस्ति। अधि + वस्। मन्। ऋ Causal ।सहित। याच्। गण्। अलम्। आत्मना।
4 Note the derivation of - मौञ्जी। भार्गवः। दाशरथिः। जामदग्न्यः। कापाली। कौशिकः। ब्राह्मी। त्रैयक्षम्। नारायणीम्।
5 Decline —दोस्। असृज्। पति। क्ष्मापति।
6 Note the following usages—
(a)
वत्स न विदितं ते।
(b)
तर्हि विस्मयनीयशीलो भगवान्।
(c)
समरविजयी भूयाः।
(d)
शिशौ किं प्रकुप्यातिमात्रम्।
(e)
चापमिक्षुभञ्जंबभञ्ज।
(f)
असौ मे त्वयि समुदाचारानुसारिणी वाग्वृत्तिरेव।
(g)
निग्रहानुग्रहयोः स्वाधीनोऽयं जनः।
(h)
निरपराधे मयि सुधा कोपकलङ्कितोऽसि।
(i)
तत्किं स्वस्ति हरकार्मुकाय
(j)
यद्वा तद्वा भवतु न वयं ब्राह्मणेषु प्रवीराः।
(k)
ब्राह्मणजातिं तृणाय मन्यसे।
(l)
आत्मनो यशोवित्तं मुधा मा हारय।
(m)
अलं वाग्डम्बरेणानेन। क्रियतां यथाभिलषितम्।
NOTES
वीरशान्तरसयोःविकारः Product of the sentiments of heroism and peacefulness combined. हैहयपति Also called सहस्रार्जुन on account of his having a thousand arms, इक्षुभञ्जं बभञ्ज Broke it like sugar-
cane. रेणुकाकण्ठशत्रुःThis refers to the fact that Parashurāma, in obedience to his father, had cut off the head of his mother Reṇukā with his axe.समुदाचारानुसारिणी Customary, following the accepted custom. Inclination of the mind, thought, as opposed to वाग्वृत्ति.बीज Cause. आत्मनैव Of itself.प्रेतभर्तृ God of death. यद्वा तद्वा भवतु Whatever be the result, whatever might befall. मा हारय Do not deprive yourself of.चण्डधामन् The sun. खद्योत A firefly. समरक्षमा Suitable for a fight.
————————————
३८ सुरासुरसैन्यसंग्रामः
[Kumāra-Sambhavam is one of the great classical epics. It is the work of the great poet and dramatist Kālidāsa though it does not always rise to the same level as his other famous works.
In this extract (from Kumāra-Sambhavam), the poet has graphically described the fierce battle that the demons fought with the gods. The description, faithful as it is in various details, presents to us a very nice picture of the battle-field and the art of warfare as it existed in those ancient days.]
अथान्योन्यं विमुक्तास्त्रशस्त्रजालैर्भयङ्करैः।
युद्धमासीत्सुनासीरसुरारिबलयोर्महत्॥१॥
पत्तिः पत्तिमभीयाय रणाय रथिनं रथी।
तुरङ्गस्थं तुरङ्गस्थो दन्तिस्थं दन्तिनि स्थितः॥२॥
सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाञ्चिते।
आसीत्कवचविच्छेदो वीराणां मिलतां मिथः॥३॥
निर्दयं खड्गभिन्नेभ्यः कवचेभ्यः समुत्थितैः।
आसन्व्योमदिशस्तूलैः पलितैरिव पाण्डुराः॥४॥
खड्गारुधिरसंलिप्ताश्चण्डांशुकरभासुराः।
रजोघने रणेऽनन्ते विद्युतां वैभवं दधुः॥५॥
विसृजन्तो मुखैर्ज्वाला भीमा इव भुजङ्गमाः।
विसृष्टाः सुभटै रुष्टैर्व्योमव्यानशिरे शराः॥६॥
निर्भिद्य दन्तिनः पूर्वं पातयामासुराशुगाः।
पेतुः प्रवरयोधानां प्रीतानामाहवोत्सवे॥७॥
विभिन्नं धन्विनां बाणैर्व्यथार्तमिव विह्वलम्।
ररास विरसं व्योम श्येनप्रतिरवच्छलात्॥८॥
चापैराकर्णमाकृष्टैर्विमुक्तादूरमाशुगाः।
अधावन्रुधिरास्वादलुब्धा इव रणैषिणाम्॥९॥
कुन्ताश्चकासिरे चण्डमुल्लसन्तो रणार्थिनाम्।
जिह्वाभोगा यमस्येव लेलिहाना रणाङ्गणे॥१०॥
प्रज्वलत्कान्तिचक्राणि चक्राणि वरचक्रिणाम्।
चण्डांशुमण्डलश्रीणि रणव्योमनि बभ्रमुः॥११॥
कश्चिदभ्यागते वीरे जिघांसौ मुदमादधौ।
परावृत्य गते क्षुब्धे निषसादाहवप्रियः॥१२॥
अभितोऽभ्यागतान्योद्धुंवीरान्रणमदोद्धतान्।
प्रत्यनन्दन्भुजादण्डरोमोद्गमभृतो भटाः॥१३॥
शस्त्रभिन्नेभकुम्भेभ्यो मौक्तिकानि च्युतान्यधुः।
अध्याहवक्षेत्रमुप्तकीर्तिबीजाङ्कुरश्रियम्॥१४॥
रणे बाणगणैर्भिन्ना भ्रमन्तो भिन्नयोधिनः।
निममज्जुर्मिलद्रक्तनिम्नगासु महागजाः॥१५॥
खड्गनिर्लूनमूर्धानो व्यापतन्तोऽपि वाजिनः।
प्रथमं पातयामासुरसिना दारितानरीन्॥१६॥
वीराणां शस्त्रभिन्नानि शिरांसि निपतन्त्यपि।
अधावन्दन्तदष्टोष्ठभीमान्यभिरिपुं क्रुधा॥१७॥
क्रोधादभ्यापतद्दन्तिदन्तारूढाः पदातयः।
अश्वारोहा गजारोहप्राणान्प्रासैरपाहरन्॥१८॥
शस्त्रच्छिन्नगजारोहा विभ्रमन्त इतस्ततः।
युगान्तवातचलिताः शैला इव गजा बभुः॥१९॥
मिलितेषु मिथो योद्धुं दन्तिषु प्रसभं भटाः।
अगृह्णन्युध्यमानाश्च शस्त्रैः प्राणान्परस्परम्॥२०॥
आक्षिप्ता अपि दन्तीन्द्रैः कोपनैः पत्तयः परम्।
तदसूनहरन्खङ्गाघातैः स्वस्य पुरः प्रभो॥२१॥
उत्क्षिप्य करिभिर्दूरान्मुक्तानां योधिनां दिवि।
प्रापि जीवात्मभिर्दिव्या गतिर्वा विग्रहैर्मही॥२२॥
धन्विनस्तुरगारूढा गजारोहाञ्शरैः क्षतान्।
प्रत्यैच्छन्मूर्छितान्भूयो योद्धुमाश्वसतश्चिरम्॥२३॥
खड्गेन मूलतो हृत्वा दन्तिनो रदनद्वयम्।
प्रतिपक्ष्ये प्रविष्टोऽपि पदातिर्निरगाद्द्रुतम्॥२४॥
करेण करिणा वीरः सुगृहीतोऽपि कोपिना।
असिनासूञ्जहाराशु तस्यैव स्वयमक्षतः॥२५॥
तुरङ्गसादिनं शस्त्रहृतप्राणं गतं भुवि।
अबद्धोऽपि महावाजी न साश्रुनयनोऽत्यजत्॥२६॥
भल्लेन शितधारेण भिन्नोऽपि रिपुणाश्वगः।
नामूर्च्छत्कोपतो हन्तुमियेष प्रपतन्नपि॥२७॥
मिथः प्रासाहतौ वाजिच्युतौ भूमिगतौ रुषा।
शस्त्र्या युयुधतुः कौचित्केशाकेशि भुजाभुजि॥२८॥
रथिनो रथिभिर्बाणैर्हृतप्राणा दृढासनाः।
कृतकार्मुकसन्धानाः सप्राणा इव मेनिरे॥२९॥
न रथी रथिनं भूयः प्राहरच्छस्त्रमूर्च्छितम्।
प्रत्याश्वसन्तमन्विच्छन्नतिष्ठद्युधि लोभतः॥३०॥
अन्योन्यं रथिनौ कौचिद्गतप्रणौ दिवं गतौ।
एकामप्सरसं प्राप्य युयुधाते वरायुधौ॥३१॥
मिथोऽर्धचन्द्रनिर्लूनमूर्धानौ रथिनौ रुचा।
खेचरौ भुवि नृत्यन्तौ स्वकबन्धावपश्यताम्॥३२॥
रणाङ्गणे शोणितपङ्कपिच्छिले कथं कथञ्चिन्ननृतुर्धृतायुधाः।
नदत्सु तुर्येषु परेतयोषितां गणेषु गायत्सुकबन्धराजयः॥३३॥
इति सुररिपुर्वृत्ते युद्धे सुरासुरसैन्ययो-
रुधिरसरितां मज्जद्दन्तिव्रजेषु तटेष्वलम्।
अरुणनयनः क्रोधाद्भीमभ्रमद्भृकुटीमुखः
सपदि ककुभामीशानभ्यागमत्स युयुत्सया॥३४॥
— कुमारसम्भवे षोडशः सर्गः।
EXERCISES
1 Dissolve and name the compounds - पुलकाञ्चिते। निर्दयम्। व्योमदिशः। चण्डांशुकरभासुराः। आशुगाः। व्यथार्तम्। आकर्णम्। रुधिरास्वादलुब्धाः। चण्डांशुमण्डलश्रीणि। आहवप्रियः। शस्त्रभिन्नेमकुम्भेभ्यः। भिन्नयोधिनः। मिलद्रक्तनिम्नगासु। दन्तदष्टोष्ठभीमानि। दन्तीन्द्रः॥ दन्तमुसलौ। सुगृहीतः। केशाकेशि। भुजाभुजि।
2 Decline वपुस्। श्री। द्वय।
3 Name fully - अभीयाय। दधुः। व्यानशिरे। पेतुः। धन्विनाम्। लेलिहाना। बभ्रमुः। जिघांसौ \। अभ्युप्तम्। निर्लूनम्। दारितान्। प्रापि। जिघृक्षोः। जिघृक्षया। निरगात्। अभ्यागमत्। युयुत्सया।
4 Exemplify the different kinds of बहुव्रीहि.
5 How will you recognise ’ Aorist’ and ’ Desiderative ’ ?
NOTES
सुनासीर Indra. सुरारि The demon.पत्ति A foot-soldier. अभि+ इ To attack. आसीत्कवचविच्छेदः The armours were perforated, (the hair standing erect on the bodies, piercing the armours). रजोघने etc. The battle-field was dense with dust and the bright swords shining in the sun appeared like lightnig. रुष्ट Angry. निर्भिद्य दन्तिनः पूर्वं etc. The arrow had such a quick effect that the elephants fell down dead even before the arrow had reached the ground. श्येनप्रतिरवच्छलात् In the guise of the echoing cries of a hawk. चण्डांमण्डलश्रीणि (चक्राणि) Having the splendour of the orb of the hot-rayed (sun). कीर्तिबीजांकुरश्रियम् The pearls fallen from the split up temples of elephants appeared like the sprouts of the seed of fame sown in the field of battle. भितयोधिनः The warriors on whose back were killed (= विदीर्णयन्तारः)। वाजिनःFrom the
horse. शस्त्रच्छिन्नगजारोहाः Cf. भिन्नयोधिनः। प्रत्यैच्छन् Waited for.तुरङ्गसादिन् ( = अश्वग) A horseman. शस्त्री Scimitar. खेचर Moving in the sky. कबन्ध A headless trunk.परेतयोषितः Female ghosts.मज्जद्दन्तिव्रजेषु In which herds of elephants sank down. युयुत्सा Desire of fighting. ककुभामीशान् The guardians of the eight quarters (Cf. ककुभां दिशामीशानिन्द्रादीनष्ट दिक्पालान्।)
—————————————
३९ हर्षः आमयाविनं पितरं द्रष्टुं गच्छति
[This is an extract from Harsha-Charitam. Harsha while on a hunting expedition receives the news of his father’s illness and at once hastens to his side. This passage contains a touching description of the meeting of the father and the son.]
अथ कदाचिद् राज्यवर्धनं कवचधरमाहूय हूणान्हन्तुं हरिणानिव हरिणेशः किशोरमपरिमितबलानुयातं चिरन्तनैरमात्यैः प्रधानैश्च महासामन्तैः कृत्वा साभिसारमुत्तरापथं प्राहिणोत्। प्रयान्तं च देवो हर्षः कतिचित्प्रयाणकानि तुरङ्गमैरनुवव्राज। प्रविष्टे च कैलासप्रभाभासिनीं ककुभं भ्रातरि निवर्तमानो नवे वयसि वर्तमानो विक्रमरसानुरोधी केसरिशरभशार्दूलवराहबहुलेषु तुषारशैलोपकण्ठेषु क्रीडन्मृगयया मृगलोचनः कतिपयान्यहानि बहिरेव व्यलम्बत। चकार चाकर्णाकृष्टभासुरभल्लवर्षी स्वल्पीयोभिरेव दिवसैर्निःश्वापदान्यरण्यानि।
एकदा तु वासतेय्यास्तुरीये यामे प्रत्यूषस्येव स्वप्ने चटुलज्वालापुञ्जपिञ्जरितसकलककुभं दुर्निवारणदावहुतभुजा दह्यमानं केसरिणमद्राक्षीत्। तस्मिन्नेव दावदहने समुत्सृज्य शावकानुत्प्लुत्यात्मानं पातयन्तीं सिंहीमपश्यत्। आसीच्चास्य चेतसि। लोहेभ्यः कठिनतराः खलु स्नेहमया बन्धनपाशाः। यदाकृष्टास्तिर्यञ्चोऽप्येवमाचरन्तीति। प्रबुद्धस्यास्य दक्षिणेतरमक्षि पस्पन्दे। गात्रेष्वकस्मादेव च वेपथुर्विपप्रथे। निर्निमित्तमन्तबन्धनस्थलाच्चचालेव हृदयम्। अकारणादेवाजायत गरीयसी दुःखासिका। किमिदमिति समुपनतविविधविकल्पविमथितमतिरपगतधृतिश्चिन्तावनमितवदनः स्तिमिततारकेण चक्षुषा समुद्भिद्यमानस्थलकमलिनीवनमिव चकार चकोरेक्षणः क्षणं क्षोणीम्। अह्नि
च तस्मिञ्शून्येनैव चेतसा चिक्रीड मृगयाम्। आरोहति च हरितहये मध्यमह्नो भवनमागत्य उभयतो मन्दं मन्दं वाह्यमानतनुतालवृन्तो वेत्रपट्टिकामधिशयानः साशङ्क एव तस्थौ। अथ दूरादेव दीर्घाध्वगन्तारं कुरङ्गकनामानमायान्तमद्राक्षीत्।
दृष्ट्वा पूर्वनिमित्तपरम्पराविर्भूतभीतिरखिद्यत हृदयेन। कुरङ्गकस्तु कृतप्रणामः समुपसृत्य प्रथममाननलग्नं विषादमुपनिन्ये पश्चाल्लेखम्। तं च हर्षः स्वयमेवावाचयत्। लेखार्थेनैव च सह गृहीत्वा हृदयेन सन्तापमविग्नरूपोऽभ्यधात्। कुरङ्गक किं मान्द्यं तातस्येति। स चाचचक्षे देव दाहज्वरो महानिति। तच्चाकर्ण्य सहसैवास्य हृदयं पफाल। कृतमनाश्च जनयितुरायुष्कामोऽपरिमितमणिकनकरजतजातमात्मपरिबर्हमशेषं ब्राह्मणसादकरोत्। वेपमानहृदयश्चारुह्यतुरङ्गममेकाक्येव प्रावर्तत।
प्रस्थितस्य चास्य प्रदक्षिणेतरं प्रयान्तो विनाशमुपस्थितं राजसिंहस्य हरिणाः प्रकटयांबभूवुः। अशिशिररश्मिमण्डलाभिमुखश्च हृदयमवदारयन्निव दावशुष्के दारुणि दारुणं ररास वायसः। दुर्निमित्तैरनभिनन्द्यमानगमनैश्च नितरामशङ्कत। पितृस्नेहात्तत्तदुपेक्षमाणस्तुरङ्गमस्कन्धबद्धलक्ष्यं चक्षुरविचलं दधानो तूष्णींभूतेन भूपाललोकेनानुगम्यमानो बहुयोजनसंपिण्डितमध्वानमेकेनैवाह्नासमलङ्घयत् क्रमेण च राजद्वारं प्रतिषिद्धसकललोकप्रवेशं ययौ। तुरगादवतीर्णश्चाभ्यन्तरान्निष्क्रामन्तमप्रसन्नमुखरागं सुषेणनामानं वैद्यकुमारकमद्राक्षीत्। कृतनमस्कारं चाप्राक्षीत् सुषेण, अस्ति तातस्य विशेषो न वेति। सोऽब्रवीत् नास्तीदानीं यदि भवेत् कुमारं दृष्ट्वेति। मन्दं मन्दं द्वारपालैः प्रणम्यमानश्च दुःखदीनवदनेन बद्धमण्डलेनोपांशुन्याहृतैः केनचित् चिकित्सकदोषानुद्भावयता, केनचिद्दुःस्वप्ननावेदयता, केनचित् कार्तान्तिकादेशान् प्रकाशयता, अन्येनानित्यतां भावयता संसारं चापवदता कलिकालविलसितानि च निन्दता दैवं चोपालभमानेनपरेण धर्माय कुप्यता राजकुलदेवताश्चाधिक्षिपता बाह्यपरिजनेन कथ्यमानकष्टपार्थिवावस्थं राजकुलं विवेश। अविरलबाष्पपयःपरिप्लुतलोचनेन पितृपरिजनेन वीक्ष्यमाणो विविधौषधिद्रव्यद्रवगन्धगर्भमुत्क्वथतां क्वाथानां सर्पिषां तैलानां च पच्यमानानां गन्धमाजिघ्रन्नवाप तृतीयं कक्ष्यान्तरम्।
तत्र चातिनिःशब्दे पिहितपक्षद्वारके परिहृतकपाटरटिते घटितगवाक्षरक्षितमरुति निभृतसंज्ञानिर्दिश्यमानसकलकर्मणि धवलगृहे स्थितम्, अनवरतपरिवर्तनैस्तरङ्गिणि शयनीये शेषमिव विषोष्मणा क्षीरोदन्वति विचेष्टमानम्, आसन्नयमदर्शनोद्वेगादिव किञ्चिदन्तःप्रविष्टतारकं चक्षुर्दधानम्, अत्युष्णनिःश्वासदग्धयेव श्यामायमानया रसनया निवेद्यमानदारुणसन्निपातारम्भम्, अङ्गभङ्गवलनोत्क्षिप्तभुजयुगलम्, समीपे कालस्य अन्तिकेऽन्त्योच्छ्वासस्य द्वारि दीर्घनिद्रायाः जिह्वाग्रे जीवितेशस्य वर्तमानम्, विरलं वाचि विह्वलं वपुषि क्षीणमायुषि प्रचुरं प्रलापे सन्ततं श्वसिते पार्श्वोपविष्टयानवरतरोदनोच्छूननयनया मुहुर्मुहुः’ आर्यपुत्र, स्वपिषि’ इति व्याहरन्त्या देव्या यशोमत्या शिरसि वक्षसि च स्पृश्यमानं पितरमद्राक्षीत्। अवनिपतिस्तु दूरादेव दृष्ट्वातिदयितं तनयं तदवस्थोऽपि प्रसार्य भुजौ एह्योहीत्याह्वयञ्शरीरार्धेन शयनादुदगात्। ससंभ्रममुपसृतं चैनं विनयावनम्रमुन्नमय्य बलादुरसि निवेश्य विशन्निव प्रेम्णा निशाकरमण्डलमध्यम्, मज्जन्निवामृतमये महासरसि, पीडयन्नङ्गैरङ्गानि विस्मृतज्वरसंज्वरः सुचिरमालिलिङ्ग। पस्पर्श च पुनः पुनर्वेपथुमतापाणितलेन क्षयाक्षामकण्ठश्च कृच्छ्रादिवावादीत्। वत्स, कृशोऽसीति। भण्डिस्त्वकथयत्। देव, तृतीयमहः कृताहारस्यास्याद्येति। तच्छ्रुत्वा बाष्पवेगगृह्यमाणाक्षरं कथं कथमप्यायतं निःश्वस्योवाच। वत्स, जानामि त्वां पितृप्रियमतिमृदुहृदयम्। नार्हस्यतिमात्रमात्मानं शुचे दातुम्। निशितमिव शस्त्रं तक्ष्णोति मां त्वदीयस्तनिमा। न ह्यल्पपुण्यभाजां वंशमलंकुर्वन्ति भवादृशाः। त्वज्जन्मनैव कृतार्थोऽस्मि निरभिलाषोऽस्मि जीविते। भिषगनुरोधः पाययति मामौषधम्। प्रजाभिस्तु बन्धुमन्तो राजानो न ज्ञातिभिः। तदुत्तिष्ठ। कुरु पुनरेव सर्वाः क्रियाः। कृताहारे च त्वय्यहमपि स्वयमुपयोक्ष्ये पथ्यम्।
इत्येवमभिहितस्य चास्य धक्ष्यन्निव हृदयमतितरां शोकानलः सन्दुधुक्षे। क्षणमात्रं च स्थित्वा पित्रा पुनराहारार्थमादिश्यमानो धवलगृहादवततार।
—
हर्षचरितम्।
EXERCISES
1 Name fully —
स्वल्पीयोभिः\। अद्राक्षीत्। कठिनतरः। दक्षिणेतरम्। गरीयसी। अवतीर्णः। अप्राक्षीत्। वीक्ष्यमाणः। आजिघ्रन्। प्रसार्य। उन्नमय्य। स्नान्। अवादीत्। विधुरयति। अधिकतरम्। निशितम्। धक्ष्यन्। अतितराम्।
2 Write a note on the formation and uses of the degrees of comparison.
3 Decline — कतिपय। अहन्। अक्षि। चक्षुस्। चतुर्।
4 Note the uses of — अधि+शी।समम्। पाcausal.
5 Dissolve and name the compounds — दवहुतभुजा। आयुष्कामः। आत्मपरिबर्हम्। प्रतिषिद्धसकललोक-प्रवेशम्। तदवस्थः। विनयावनम्रम्। प्रणतजननीकः। बाष्पवेगगृह्यमाणाक्षरम्।
6 Note the formation of —चिरन्तन। उत्तरापथम्। तुरीय। स्नेहमय। सहस्रधा। ब्राह्मणसादकरोत्। तृतीय। तनिमन्। त्वदीय। भवादृश।
NOTES
हरिणेशःA lion. कैलासप्रभाभासिनीं ककुभं The direction shining with the lustre of Kailāsa i. e. the north. नवं वयस् Youth. बहुल Abounding in. तुषारशैल The Himālaya. मृगयया बहिरेव व्यलम्बत He remained out (of his capital) hunting. वासतेयी Night. दावहुतभुज् Forest conflagration. दक्षिणेतर Left. समुपनतविविधविकल्प etc. Whose mind was perturbed with the various thoughts that occurred to him. स्तिमिततारकेण चक्षुषा etc. He made the earth appear like a lotus-bed on land with the pupil of his eye (kept) steady. शून्य Vacant**. हरितहय** The sun. पूर्वनिमित्तपरम्पराविर्भूतभीतिः Who was inspired with fear on account of the series of ill-omens. एकेनैवाह्नाIn a day. यदि भवेत् कुमारं दृष्ट्वा If at all any chage for better takes place, it will be only after seeing your honour.अनवरतरोदनोच्छूननयनया With her eyes swollen on account of constant weeping. शरीररार्धेन शयनादुदगात्i. e He sat up in his bed वेपथुमत् Trembling. तृतीयमहः etc. It is now three days since he took meals. बाष्पवेगगृह्यमाणाक्षरं With his words interrupted by a forcible gush of tears. आयतं निःश्वस्य Heaving deep sighs. नार्हस्यतिमात्रं etc. It does not behove you to give yourself up so much to grief. भिषगनुरोधete. It is only on account of the persistent entreaties of the doctors that I am drinking medicine.
––––––––––––––
४० उदयनः वासवदत्तां पश्यति
[ This is an extract from Swapna-Wāsawadattam of Bhāsa whose works have only recently engaged the attention of Sanskrit scholars. No less than thirteen plays are attributed to Bhāsa. The number and variety of his plays combined with the simplicity of style and realism of characters etc. are a decisive proof of the high
merit of Bhāsa as a playwright. Absence of compounds and involved construction-which are the characteristic marks of later Sanskrit works-go to prove the antiquity of the author; and oriental scholars seem inclined to date Bhāsa somewhere about 5th or 4th century B. C.
As it was necessary for some political reasons to form an alliance with the king of Magadha, the minister of Udayana gives out that he and Queen Wāsawadattāwere burnt in a big fire that consumed Lāvāṇaka. Some time after this king Udayana is married to Padmāvatī, the sister of the king of Magadha and the alliance is formed. But Udayana’s love for Wāsawadattā is as strong as ever and he is always ill at ease. While thus thinking of Wāsawadattā he is told that Queen Padmāvatī is suffering from headache. He therefore, at once goes to the place where she is reported to be lying on bed. But not finding her there he reclines on the bed and falls asleep. Soon after this comes Wāsawadattā to comfort Padmāvatī. But she soon comes to know her mistake and leaves that place in haste. The king, however, wakes up just then and suspects that she must be Wāsawadattā and says so to his buffoon who tries his best to persuade him to the contrary.]
(ततः प्रविशति राजा।)
राजा।
श्लाध्यामवन्तिनृपतेः सदृशीं तनूजां
कालक्रमेण पुनरागतदारभारः।
लावाणके हुतवहेन हृताङ्गयष्टिं
तां पद्मिनीं हिमहतामिव चिन्तयामि॥१॥
(प्रविश्य।)
विदूषकः। त्वरतां त्वरतां तावद्भवान्। तत्रभवती पद्मावती शीर्षवेदनया दुःखिता।
राजा। भोः! कष्टम्।
रूपश्रिया समुदितां गुणतश्च युक्तां
लब्ध्वा प्रियां मम तु मन्द इवाद्य शोकः।
पूर्वाभिघातसरुजोऽप्यनुभूतदुःखः
पद्मावतीमपि तथैव समर्थयामि॥२॥
अथ कस्मिन् प्रदेशे वर्तते पद्मावती।
** विदूषकः**। समुद्रगृहके किल शय्यास्तीर्णा।
राजा। तेन हि तस्य मार्गमादेशय।
विदूषकः। एत्वेतु भवान्।
(उभौ परिक्रामतः।)
विदूषकः। इदं समुद्रगृहकम्। प्रविशतु भवान्।
राजा। पूर्वं प्रविश।
विदूषकः। भोः। तथा। ( प्रविश्य। ) अविधा तिष्ठतु तिष्ठतु तावद् भवान्। एष खलु दीपप्रभावसूचितरूपो वसुधातले परिवर्तमानोऽयं काकोदरः।
राजा। (प्रविश्यावलोक्य सस्मितम्) अहो सर्पव्यक्तिर्वैधेयस्य।
ऋज्वायतां हि मुखतोरणलोलमालां
भ्रष्टां क्षितौ त्वमवगच्छसि मूर्ख ! सर्पम्।
मन्दानिलेन निशि या परिवर्तमाना।
किञ्चित् करोति भुजगस्य विचेष्टितानि॥३॥
विदूषकः। सुष्ठु भवान् भणति। न खल्वयं काकोदरः। तत्रभवती पद्मावतीहागस्य निर्गता भवेत्।
राजा। वयस्य! अनागतया भवितव्यम्।
विदूषकः। कथं भवाञ्जनाति।
राजा। किमत्र ज्ञेयं। पश्य।
शय्या नावनता तथास्तृतसमा न व्याकुलप्रच्छदा
न क्लिष्टं हि शिरोपधानममलं शीर्षाभिघातौषधैः।
रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित्कृता
प्राणी प्राप्य रुजं पुनर्न शयनं शीघ्रं स्वयं मुञ्चति॥४॥
विदूषकः। तेन ह्यस्यां शय्यायां मुहूर्तकमुपविश्य तत्रभवतीं प्रतिपालयतु भवान्।
राजा। बाढम्। (उपविश्य ) वयस्य! निद्रा मां बाधते। कथ्यतां काचित् कथा।
विदूषकः। अहं कथयिष्यामि। हुङ्कृतिं करोत्वत्रभवान्।
राजा। बाढम्।
विदूषकः। अस्ति नगर्युज्जयिनी नाम। तत्राधिकरमणीयान्युदकस्नानानि वर्तन्ते किल।
राजा। कथमुज्जयिनी नाम।
विदूषकः। यद्यनभिप्रेतैषा कथा अन्यां कथयिष्यामि। अस्ति नगरं ब्रह्मदत्तं नाम। तत्र किल राजा काम्पिल्यो नाम।
राजा। मूर्ख! राजा ब्रह्मदत्तः, नगरं काम्पिल्यमित्यभिधीयताम्।
विदूषकः। किं राजा ब्रह्मदत्तः, नगरं काम्पिल्यम्।
राजा। एवमेतत्।
विदूषकः। तेन हि मुहूर्तकं प्रतिपालयतु भवान्, यावदोष्ठगतं करिष्यामि। राजा ब्रह्मदत्तो नगरं काम्पिल्यम् इति बहुशस्तदेव पठित्वा) इदानीं शृणोतु भवात्।अये सुप्तोऽत्रभवान्। अतिशीतलेयं वेला। आत्मनः प्रावारकं गृहीत्वागमिष्यामि। (निष्कान्तः।)
(ततः प्रविशति वासवदत्ता आवन्तिकावेषेण चेटी च)
** चेटी**। एत्वेत्वार्या। दृढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता।
वासवदत्ता। कुत्र शयनं रचितं पद्मावत्याः।
चेटी। समुद्रगृहके किल शय्यास्तीर्णा। इदं समुद्रगृहकम्। प्रविशत्वार्या।यावदहमपि शीर्षानुलेपनं त्वरयामि। (निक्रान्ता )
वासवदत्ता। अहो, अकरुणाः खल्वीश्वरा मे। विरहपर्युत्सुकस्यार्यपुत्रस्य विश्रामस्थानभूतेयमपि नाम पद्मावत्यस्वस्था जाता। यावत् प्रविशामि। (प्रविश्यावलोक्य) अहो परिजनस्य प्रमादः। अस्वस्थां पद्मावतीं केवलं दीपसहायां कृत्वा परित्यजति। इयं पद्मावत्यवसुप्ता। यावदुपविशामि। अथवान्यासनपरिग्रहेणाल्पइव स्नेहः प्रतिभाति। तदस्यां शय्यायामुपविशामि। (उपविश्य) किं नु खल्वेतया सहोपविशन्त्या अद्य प्रह्लादितमिव मे
हृदयम्। दिष्ट्याविच्छिन्नसुखनिःश्वासा। निवृत्तरोगया भवितव्यम्। यावच्छयिष्ये। (शयनं नाटयति।)
राजा। (स्वप्नायते) हा वासवदत्ते।
वासवदत्ता। (सहसोत्थाय।) हम्, आर्यपुत्रः। न खलु पद्मावती। किन्तु खलु दृष्टास्मि। महान् खल्वार्ययौगन्धरायणस्य प्रतिज्ञाभारो मम दर्शनेन निष्फलः संवृत्तः।
राजा। हा अवन्तिराजपुत्रि।
वासवदत्ता। दिष्ट्या स्वप्नायते खल्वार्यपुत्रः। नात्र कश्चिज्जनः। यावन्मुहूर्तकं स्थित्वा दृष्टिं हृदयं च तोषयामि।
राजा। हा प्रिये। हा प्रियशिष्ये! देहि मे प्रतिवचनम्।
वासवदत्ता। चिरं स्थितास्मि। कोऽपि मां पश्येत्। तद् गमिष्यामि। अथवा शय्यावलम्बितमार्यपुत्रस्य हस्तं शयनीय आरोप्य गमिष्यामि। (तथा कृत्वा निष्क्रान्ता)
राजा। (सहसोत्थाय।) वासवदत्ते! तिष्ठ तिष्ठ। हा धिक्।
निष्क्रामन् संभ्रमेणाहं द्वारपक्षेण ताडितः।
ततो व्यक्तं न जानामि भूतार्थोऽयं मनोरथः॥५॥
(प्रविश्य)
विदूषकः। अयि प्रतिबुद्धोऽत्रभवान्।
राजा। वयस्य। प्रियमावेदये धरते खलु वासवदत्ता।
विदूषकः। अविहा वासवदत्ता। कुत्र वासवदत्ता। चिरात्खलूपरता वासवदत्ता।
राजा। वयस्य ! मा मैवम्।
शय्यायामवसुप्तं मां बोधयित्वा सखे गता।
दग्धेति ब्रुवता पूर्वं वञ्चितोऽस्मि रुमण्वता॥६॥
विदूषकः। अविहा, असम्भावनीयमेतद्। न। उदकस्नानसङ्कीर्तनेन तत्रभवतीं चिन्तयता सा स्वप्ने दृष्टा भवेत्।
राजा।
यदि तावदयं स्वप्नो धन्यमप्रतिबोधनम्।
अथायं विभ्रमो वा स्याद् विभ्रमो ह्यस्तु मे चिरम्॥७॥
विदूषकः। मेदानीं भवानात्मानमवहसितं कर्तुम्। किन्त्वस्मिन् राजकुलेऽवन्तिसुन्दरी नाम यक्षिणी प्रतिवसति। सा त्वया दृष्टा भवेत्।
राजा। न न।
स्वप्नस्यान्ते विबुद्धेन नेत्रविप्रोषिताञ्जनम्।
चारित्रमपि रक्षन्त्या दृष्टं दीर्घालकं मुखम्॥८॥
अपि च वयस्य! पश्य पश्य।
योऽयं सन्त्रस्तया देव्या तया बाहुर्निपीडितः।
स्वप्नेऽप्युत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति॥९॥
— स्वप्नवासवदत्ते पञ्चमोऽङ्कः।
EXERCISES
1 Name and dissolve the compounds —पुनरागतदारभारः। पूर्वाभिघातसरुजः। दीपप्रभावसूचितरूपः। ऋज्वायताम्। मुखतोरणलोलमालाम्। विश्रामस्थानभूता। शय्यावलम्बितम्। नेत्रविप्रोषिताञ्जनम्।
2 Name fully — आस्तीर्णा। परिवर्तमानः। भ्रष्टां। जनयितुम्। रुजा। स्वप्नायते। आरोप्य। धरते। बोधयित्वा।
3 Decline fully — निशा। सखि।
4 Study the following expressions —
(a) त्वरतां त्वरतां तावद्भवान्।
(b)
पद्मावतीमपितथैव समर्थयामि।
(c)
( माला ) किञ्चितकरोति भुजगस्य विचेष्टितानि।
(d)
निद्रा मां बाधते।
(e)
मुहूर्तकं प्रतिपालयतु भवान् यावदोष्ठगतं करिष्यामि।
(f)
अकरुणाः खल्वीश्वराः मे।
(g)
…..दीपसहायां कृत्वा परित्यजति।
(h)
दिष्ट्याविच्छिन्नसुखनिःश्वासा। निवृत्तरोगया भवितव्यम्।
(i)
ततो व्यक्तं न जानामि भूतार्थोऽयं मनोरथः।
(j)
मेदानीं भवाननर्थंचिन्तयित्वा।
5 Explain fully — महान् खल्वार्ययौगन्धरायणस्य प्रतिज्ञाभारो मम दर्शनेन निष्फलः संवृत्तः।
NOTES
पुनरागतदारभारः Who am again bent under the burden of a (second) wife. [ The second marriage is burdensome to the king on account of his deep love for his first wife Wāsawadattā.] अवन्तिनृपतेः तनूजा is Wāsawadattā, the first wife of the king. लावाणके etc. This line refers to the report that Wāsawadattā was consumed by fire in the village of Lāvāṇaka. हिमहतां पद्मिनीम् इव A very usual simile. cf. हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता P. 8. 45. शीर्षवेदनया दुःखिताIs suffering from headache. मन्द एवetc. My grief has a little abated as I have obtained etc.I am afraid that Padmāvatī will meet with the same fate (as Wāsawadattā). तस्यमार्गमादेशय Show me the way to it. काकोदर A serpent. मुखतोरण The outer arch. भ्रष्टा Fallen. अवगच्छति सर्पम् You take it to be a serpent. किञ्चित् चरितं करोति Imitates to a certain extent.प्रच्छद A covering for the bed. शिरोपधानं न क्लिष्टं The pillow is not soiled.दृष्टिविलोभनं जनयितुंTo create an attraction for (i. e. to attract) the eyes. निद्रा मां बाधतेI am overpowered by sleep i. e. I feel inclined to sleep. यावदीष्ठगतं करिष्यामि While I repeat it so that it may be on my lips (i. e. at the tip of my tongue). दृढम्Excessively. रचितं Spread, prepared. अकरुणाः खल्वीश्वरा मे Gods are, indeed, cruel to me. केवलं दीपसहायां कृत्वाLeaving her all alone (lit. with only the lamp for her companion). अन्यासनपरिग्रहेण etc. Taking a separate seat points to a somewhat imperfect or defective love. दिष्ट्या I am glad that etc., fortunately etc. यौगन्धरायणस्य प्रतिज्ञाभारः Yaugandharāyaṇa’s plan was to introduce Wāsawadattā to Udayana after a few days; but the plan would be frustrated if she is seen and recognised by Udayana at this stage. द्वारपक्षThe panel of a door.भूतार्थोऽयं मनोरथःWhether this is a reality or merely & creation of fancy. धरते = जीवति। चिरात् Long ago.सन्त्रस्ता Afraid (that she might be discovered). रोमहर्षHorripilation.
———————————
संकीर्ण-पद्यानि
सज्जनः
सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकम्
अन्यदेहविलसत्परितापात्सज्जनो द्रवति नो नवनीतम्॥१॥
हृदयानि सतामेव कठिनानीति मे मतिः
खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः॥२॥
वज्रादपि कठोराणि मृदूनि कुसुमादपि
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति॥३॥
अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः
हेम्नः कठिनस्यापि हि द्रवणोपायोऽस्ति न तृणानाम्॥४॥
तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः
सत्यं ब्रह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम्।
मान्यान्मानय विद्विषोऽप्यनुनय प्रच्छादय स्वान्गुणान्
कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां लक्षणम्॥५॥
ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम्
पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति॥६॥
उत्तमः क्लेशविक्षोभं क्षमः सोढुं न हीतरः
मणिरेव महाशाणघर्षणं न तु मृत्कणः॥७॥
स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसताम्
न त्यजन्ति रुतं मञ्जु काकसम्पर्कतः पिकाः॥८॥
अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम्।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समाः॥९॥
छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव॥१०॥
धवलयति समग्रं चन्द्रमा जीवलोकं
किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि।
भवति विदितमेतत्प्रायशः सज्जनानां
परहितनिरतानामादरो नात्मकार्ये॥११॥
सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य॥१२॥
दुर्जनसहवासादपि शीलोत्कर्षं न सज्जनस्त्यजति
प्रतिपर्व तपनवासी निःसृतमात्रः शशी शीतः॥१३॥
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभारा नारिकेला नराणाम्।
ददति जलमनल्पं स्वादु तज्जीवनान्तं
न हि कृतमुपकारं साधवो विस्मरन्ति॥१४॥
उपचरितव्याः सन्तो यद्यपि कथयन्ति नैकमुपदेशम्
यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि॥१५॥
खलः
खलः सर्षपमात्राणि परच्छिद्राणि पश्यति
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति॥
गुणिनां गुणेषु सत्स्वपि पिशुनजनो दोषमात्रमादत्ते
पुष्पे फले विरागी क्रमेलकः कण्टकौघमिव॥१७॥
दुर्जनैरुच्यमानानि सस्मितानि प्रियाण्यपि
अकालकुसुमानीव भयं संजनयन्ति हि॥१८॥
खलः करोति दुर्वृत्तं यत्तत् फलति साधुषु
दशाननो हरेत्सीतां बन्धनं स्यान्महोदधेः॥१९॥
बोधितोऽपि बहुसूक्तिविस्तरैः
किं खलो जगति सज्जनो भवेत्।
स्नापितोऽपि बहुशो नदीजलै-
र्गर्दभः किमु हयो भवेत्क्वचित्॥२०॥
खलो न साधुतां याति सद्भिः संबोधितोऽपि सन्
सरित्पूरप्रपूर्णोऽपि क्षारः किं मधुरायते॥२१॥
हलाहलं खलु पिपासति कौतुकेन
कालानलं परिचुचुम्बिषति प्रकामम्
व्यालाधिपं च यतते परिरब्धुमद्धा
यो दुर्जनं वशयितुं तनुते मनीषाम्॥२२॥
संवर्धितोऽपि पयसा भुजगो न वश्य-
स्तत्पालकानपि निहन्ति बलेन सिंहः
दुष्टः परैरुपकृतस्तदनर्थकारी
विश्वासलेश इह नैव बुधैर्विधेयः॥२३॥
व्योमनि बीजाङ्कुरुते चित्रं निर्माति सुन्दरं पवने
रचयति रेखाः सलिले यस्तु खले चरति सत्कारम्॥२४॥
अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते
विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे॥२५॥
अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः
एकस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते॥२६॥
गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे
गुणा दोषायन्ते तदिदमपि नो विस्मयपदम्
महामेघः क्षारं पिबति कुरुते वारि मधुरं
फणी क्षीरं पीत्वा वमति गरलं दुःसहतरम्॥२७॥
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया
उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम्॥२८॥
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्॥२९॥
दुश्चरितैरेव निजैर्भवति दुरात्मा विशङ्कितो लोके
दर्शनपथमापन्नंपद्मगकुलमाकुलीभवति॥३०॥
साधुखलानामन्तरम्
सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम्
असद्भिः शपथेनोक्तं जले लिखितमक्षरम्॥३१॥
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः
मदा एतेऽवलिप्तानामेत एव सतां दमाः॥३२॥
अमृतं किरति हिमांशुर्विषमेव फणी समुद्गिरति
गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाशयति॥३३॥
गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः
अलिरेति वनात्कमलं न दर्दुरस्त्वेकवासोऽपि॥३४॥
सुभाषितं हारि विशत्यधोगलान्न दुर्जनस्यार्क रिपोरिवामृतम्
तदेव धत्ते हृदयेन सज्जनो हरिर्महारत्नमिवातिनिर्मलम्॥३५॥
मुक्त्वा निःश्रीकमप्यब्जं मराली न गतोऽन्यतः
भ्रमराली त्वगाद्वेगादिदं सदसदन्तरम्॥३६॥
अपूर्वः कोऽपि कोपाग्निः सज्जनस्येतरस्य च
एकस्य शाम्यति स्नेहाद्वर्धतेऽन्यस्य वारितः॥३७॥
इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा रसविशेषः
तद्वत्सज्जनमैत्री विपरीतानां तु विपरीता॥३८॥
आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात्
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम्॥ ३९॥
नारिकेलसमाकारा दृश्यन्ते खलु सज्जनाः।
अन्ये बदरिकाकारा बहिरेव मनोहराः॥४०॥
विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय॥४१॥
गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेति निर्बलः।
पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः॥४२॥
उत्तमो नातिवक्ता स्यादधमो बहुभाषकः
न हि स्वर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते॥४३॥
गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः
नीचो वदति न कुरुते सुजनो न वदति करोत्येव॥४४॥
अनुकुरुतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्याः
विदधाति रन्ध्रमेको गुणवानन्यस्तु पिदधाति॥४५॥
उद्यमः
काष्ठादग्निर्जायते मध्यमानाद्भूमिस्तोयं खन्यमाना ददाति
सोत्साहानां नास्त्यसाध्यं नराणां मार्गारब्धाः सर्वयत्नाः फलन्ति॥४६॥
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥४७॥
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः
विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता॥४८॥
न दैवमपि संचिन्त्य त्यजेदुद्योगमात्मनः
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति॥४९॥
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्
तथा पुरुषकारेण विना दैवं न सिध्यति॥५०॥
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्
क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते॥५१॥
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः
प्रत्यक्षं दृश्यते लोके कृतस्यापकृतस्य च॥५२॥
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा
कृतं फलति सर्वत्र नाकृतं भुज्यते क्वचित्॥५३॥
शाखायां सुसमासीनः सलीलं विध्यते खगः
उत्पतंस्त्वनपायः स्यादनुद्योगो भयावहः॥५४॥
त्यक्त्वालसान्दैवपरान्मनुष्यानुत्थानयुक्तान्पुरुषान्हि लक्ष्मीः
अन्विष्य यस्माद्वृणुते नृपेन्द्र तस्मात्सदोत्थानवता हि भाव्यम्॥५५॥
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्
एवं पुरुषकारेण विना दैवं न सिध्यति॥५६॥
यात्यधोऽधो व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः
कूपस्य खनिता यद्वत्प्राकारस्येव कारकः॥५७॥
दुरापमपि लोकेऽस्मिन्यद्यद्वस्त्वभिवाञ्छति
तत्तदाप्नोति मेधावी तस्मात्कार्यः समुद्यमः॥५८॥
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत्॥५९॥
दैवं पुरुषकारश्च कालश्च पुरुषोत्तम
त्रयमेतन्मनुष्याणां पिण्डितं स्यात्फलावहम्॥६०॥
अन्योक्तयः
कलभ तवान्तिकमागतमलिमेनं मा कदाप्यवज्ञासीः
अपि दानसुन्दराणां द्विपधुर्याणामय शिरोधार्यः॥६१॥
गिरिगह्वरेषु गुरुगर्वगुम्फितो गजराजपोत न कदापि संचरेः
यदि बुध्यते हरिशिशुः स्तनन्धयो भविता करेणुपरिशेषिता मही॥६२॥
स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण सखे
गजश्रेणीनाथ त्वमहि जटिलायां वनभुवि
असौ कुम्भिभ्रान्त्या खरनखरविद्रावितमहा-
गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः॥६३॥
गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः
राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते॥६४॥
भुक्ता मृणालपटली भवता निपीतान्यम्बूनि यत्र नलिनानि निषेवितानि
रे राजहंस वद तस्य सरोवरस्य कृत्येन केन भवितासि कृतोपकारः॥६५॥
नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत्
विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः॥६६॥
किं खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते
सलिलमपि यन्नतावकर्मणव वदनं प्रयाति तृषितानाम्॥६७॥
साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमाः
नीरे नीरचरैः समं स भगवान्निद्राति नारायणः
एवं वीक्ष्य तवाविवेकमथ च प्रौढिं परामुन्नतेः
किं निन्दान्यथवा स्तवानि कथय क्षीरार्णव त्वामहम्॥६८॥
ग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपि यश्चातक-
स्त्वां ध्यायन् घन वासरान्कथमपि द्राघीयसो नीतवान्
दैवाल्लोचनगोचरेण भवता तस्मिन्निदानीं यदि
स्वीचक्रे करकानिपातनकृपा तत्किं प्रति ब्रूमहे॥६९॥
वितर वारिद वारि दवातुरे चिरपिपासितचातकपोतके
प्रचलिते मरुति क्षणमन्यथा क्व च भवान्क्व पयः क्व च चातकः॥७०॥
दवदहनजटालज्वालजालाहतानां
परिगलितलतानां म्लायतां भूरुहाणाम्
अयि जलधर शैलश्रेणिशृङ्गेषु तोयं
वितरसि बहु कोऽयं श्रीमदस्तावकीनः॥७१॥
वाता वान्तु कदम्बरेणुशबला नृत्यन्तु सर्पद्विषः
सोत्साहा नववारिभारगुरवो मुञ्चन्तु नादं घनाः
मग्नांकान्तवियोगशोकजलधौ मां वीक्ष्य दीनाननां
विद्युत् किं स्फुरसि त्वमप्यकरुणे स्त्रीत्वे समाने सति॥७२॥
यदि गर्जति वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषाः
अयि विद्युत्प्रमदानां त्वमपि च दुःखं न जानासि॥७३॥
नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः
अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि॥७४॥
रे कूप जीवितागार यदि दातृत्वमिच्छसि
तदा त्वं गुणवत्पात्रमेकं वा संनिधौ कुरु॥७५॥
अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते
उद्गिरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारैः॥७६॥
पाटीर तव पटीयान्कः परिपाटीमिमामुरीकर्तुम्
यत् पिंषतामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम्॥७७॥
यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां नीतः
तानपि वहसि पटीरज किं कथयामस्त्वदीयमौन्नत्यम्॥७८॥
अपसर मधुकर दूरं परिमलबहुलेऽपि केतकीकुसुमे
इह नहि मधुलवलाभो भवति परं धूलिधूसरं वदनम्॥७९॥
अपनीतपरिमयान्तरकथे पदं न्यस्य देवतरुकुसुमे
पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद्भ्रमर धन्योऽसि॥८०॥
कमलिनि मलिनीकरोषि चेतः किमिति बकैरव हेलितानभिज्ञैः
परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः॥८१॥
अयि दलदरविन्द स्यन्दमानं मरन्दं
तव किमपि लिहन्तो मञ्जुगुञ्जन्तु भृङ्गाः
दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन्
परिमलमयमन्यो बान्धवो गन्धवाहः॥८२॥
तावत्कोकिल विरसान्यापय दिवसान्वनान्तरे निवसन्
यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति॥८३॥
हे हेमकार परदुःखविचारमूढ
किं मां मुहुः क्षिपसि वारशतानि वह्नौ
दग्धे पुनर्मयि भवन्ति गुणातिरेका
लाभः परं खलु मुखे तव भस्मपातः॥८४॥
गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा
उचितज्ञासि तुले किं तुलयसि गुञ्जाफलैः कवलम्॥८५॥
सङ्कीर्ण–श्लोकाः
बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति
संभूयाम्भोधिमभ्येति महानद्या नगापगा॥८६॥
हस्त इव भूतिमलिनो यथा यथा लङ्घयति खलः सुजनम्
दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम्॥८७॥
तरुमूलादिषु निहितं जलमाविर्भवति पल्लवाग्रेषु।
निभृतं यदुपक्रियते तदपि महान्तो वहन्युच्चैः॥८८॥
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते
प्रायः स्वं महिमानं क्रोधात्प्रतिपद्यते जन्तुः॥८९॥
अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम्॥९०॥
गुणेष्वनादरं भ्रातः पूर्णश्रीरपि मा कृथाः।
संपूर्णोऽपि घटः कूपे गुणच्छेदात्पतत्यधः॥९१॥
गुणिनां निर्गुणानां च दृश्यते महदन्तरम्
हारः कण्ठगतः स्त्रीणां नूपुराणि च पादयोः॥९२॥
उन्नतं पदमवाप्य यो लघुर्हेलयैव स पतेदिति ब्रुवन्
शैलशेखरगतो हृषत्कणश्चारुमारुतधुतः पतत्यधः॥९३॥
दुर्जनदूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः
पाणौ पायसदग्धे तक्रं फूत्कृत्य पामरः पिबति॥९४॥
सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम्
आमोदो न हि कस्तूर्याः शपथेन विभाव्यते॥९५॥
विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः
याताश्चेन्नपराञ्चन्ति द्विरदानां रदा इव॥९६॥
अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति
निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव॥९७॥
आनन्दमृगदावाग्भिः शीलशाखिमदद्विपः
ज्ञानदीपमहावायुरयं खलसमागमः॥९८॥
वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः
न हि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम्॥९९॥
शून्योऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः
विवराणि मुद्रयन्द्रागूर्णायुरिव सज्जनो जयति॥१००॥
किं जन्मना च महता पितृपौरुषेण
शक्त्या हि याति निजया पुरुषः प्रतिष्ठाम्
कुम्भो न कूपमपि शोषयितुं समर्थः
कुम्भोद्भवेन मुनिनाम्बुधिरेव पीतः॥१०१॥
हालाहलं नैव विषं विषं रमा जनाः परं व्यत्ययमत्र मन्वते
निपीय जागर्ति सुखेन तच्छिवः स्पृशन्निमां मुह्यति निद्रया हरिः॥१०२॥
तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत्
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम्॥१०३॥
नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम्
छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः॥१०४॥
अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी
बहुवचनमल्पसारं यः कथयति विप्रलापी सः॥१०५॥
समूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः॥१०६॥
विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते॥१०७॥
परोऽपि हितवान् बन्धुर्बन्धुरप्यहितः परः
अहितो देहजो व्याधिर्हितमारण्यमौषधम्॥१०८॥
बन्धनानि किल सन्ति बहूनि प्रेमरज्जुकृतबन्धनमन्यत्
दारुभेदनिपुणोऽपि षडङ्घ्रिर्निष्क्रियो भवति पङ्कजकोषे॥१०९॥
सविषोऽप्यमृतायते भवान् शवमुण्डाभरणोऽपि पावनः
भव एव भवान्तकः सतां समदृष्टिर्विषमेक्षणोऽपि सन्॥११०॥
FINIS
]