०५

प्रस्तावः

001 श्रुत्वैतान् ऋषयो ...{Loading}...

श्रुत्वैतान् ऋषयो धर्मान्
स्नातकस्य यथोदितान् ।
इदम् ऊचुर् महात्मानम्
अनल-प्रभवं भृगुम् ॥ ५.१ ॥

002 एवं यथोक्तम् ...{Loading}...

एवं यथोक्तं विप्राणां
स्वधर्मम् अनुतिष्ठताम् ।
कथं मृत्युः प्रभवति
वेद-शास्त्रविदां प्रभो ॥ ५.२ ॥

003 स तान् ...{Loading}...

स तान् उवाच धर्मात्मा
महर्षीन् मानवो भृगुः ।
श्रूयतां येन दोषेण
मृत्युर् विप्रान् जिघांसति ॥ ५.३ ॥

004 अनभ्यासेन वेदानाम् ...{Loading}...

अनभ्यासेन वेदानाम्
आचारस्य च वर्जनात् ।
आलस्याद् अन्नदोषाच् च
मृत्युर् विप्राञ् जिघांसति [मेधातिथिपाठः - विप्रान्] ॥ ५.४ ॥+++(4)+++

भोजनदोषाः

005 लशुनङ् गृञ्जनम् ...{Loading}...

लशुनं गृञ्जनं+++(=रक्तलशुनं)+++ चैव
पलाण्डुं +++(छत्राकार-)+++कवकानि+++(=mushroom)+++ च ।
अभक्ष्याणि द्विजातीनाम्
अमेध्य-प्रभवानि च ॥ ५.५ ॥

006 लोहितान् वृक्षनिर्यासान् ...{Loading}...

लोहितान् वृक्षनिर्यासान्
वृश्चन-प्रभवांस् तथा [मेधातिथिपाठः - व्रश्चन-प्रभवांस्] ।
शेलुं+++(=फलविशेषं)+++ गव्यं च पेयूषं+++(=सद्यःप्रसूतगोदुग्धं)+++
प्रयत्नेन विवर्जयेत् [मेधातिथिपाठः - पीयूषं] ॥ ५.६ ॥

007 वृथा कृसर-संयावम् ...{Loading}...

+++(वैश्वादेवादिकं विना)+++ वृथा कृसर-संयावं
पायसापूपम् एव च ।
अनुपाकृत-मांसानि
देवान्नानि हवींषि च ॥ ५.७ ॥

008 अनिर्दशाया गोः ...{Loading}...

अनिर्दशाया गोः क्षीरम्
औष्ट्रम् ऐकशफं तथा ।
आविकं सन्धिनी+++(उभयसन्ध्यक्षीरदात्रि)+++-क्षीरं
वि-वत्सायाश् च गोः पयः [मेधातिथिपाठः - सन्धिनीक्षीरं] ॥ ५.८ ॥

009 आरण्यानाञ् च ...{Loading}...

आरण्यानां च सर्वेषां
मृगाणां माहिषं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि
सर्व-शुक्तानि+++(=आम्लानि)+++ चैव हि ॥ ५.९ ॥

010 दधि भक्ष्यम् ...{Loading}...

दधि भक्ष्यं च शुक्तेषु
सर्वं च दधि-सम्भवम् [मेधातिथिपाठः - दधि-सम्भवम्] ।
यानि चैवाऽभिषूयन्ते
पुष्प-मूल-फलैः शुभैः ॥ ५.१० ॥

011 क्रव्यादाञ् शकुनान् ...{Loading}...

क्रव्यादाञ् शकुनान् सर्वांस्
तथा ग्रामनिवासिनः [मेधातिथिपाठः - क्रव्यादः शकुनीन्] ।
अनिर्दिष्टांश् चैकशफांष्
टिट्टिभं +++(पक्षिणं)+++ च विवर्जयेत् ॥ ५.११ ॥

012 कलविङ्कम् प्लवम् ...{Loading}...

कलविङ्कं+++(=चटकं)+++ प्लवं हंसं
चक्राह्वं ग्रामकुक्कुटम् ।
सारसं रज्जुवालं च
दात्यूहं शुक-सारिके [मेधातिथिपाठः - रज्जुदालं] ॥ ५.१२ ॥

013 प्रतुदाञ् जालपादांश् ...{Loading}...

+++(चञ्चुभिः)+++ प्रतुदाञ् जालपादांश् च
कोयष्टि+++(=lapwing)+++–नख-विष्किरान् [मेधातिथिपाठः - प्रतुदान्] ।
निमज्जतश् च मत्स्यादान्
सौनं+++(=सूनाप्राप्तं)+++ वल्लूरम्+++(=शोषीतमांसम्)+++ एव च ॥ ५.१३ ॥

014 बकञ् चैव ...{Loading}...

बकं चैव बलाकां च
काकोलं खञ्जरीटकम् ।
मत्स्यादान् विड्-वराहांश् च
मत्स्यान् एव च सर्वशः ॥ ५.१४ ॥

015 यो यस्य ...{Loading}...

यो यस्य मांसम् अश्नाति
स तन्मांसाद उच्यते ।
मत्स्यादः सर्वमांसादस्
तस्मान् मत्स्यान् विवर्जयेत् ॥ ५.१५ ॥

016 पाठीन-रोहिताव् आद्यौ ...{Loading}...

पाठीन-रोहिताव् आद्यौ
नियुक्तौ हव्य-कव्ययोः ।
राजीवान् सिंहतुण्डाश् च
स-शल्काश् चैव सर्वशः [मेधातिथिपाठः - राजीवाः] ॥ ५.१६ ॥

017 न भक्षयेद् ...{Loading}...

न भक्षयेद् एकचरान्
अज्ञातांश् च मृग-द्विजान् ।
भक्ष्येष्व् अपि समुद्दिष्टान्
सर्वान् पञ्चनखांस् तथा ॥ ५.१७ ॥

018 श्वाविधं शल्यकम् ...{Loading}...

श्वाविधं+++(=porcupine)+++ शल्यकं गोधां
खड्ग-कूर्म-शशांस् तथा ।
भक्ष्यान् पञ्चनखेष्व् आहुर्
अनुष्ट्रांश् चैकतो-दतः +++(न त्व् अनेकदन्तपङ्क्तीन्)+++ ॥ ५.१८ ॥

प्रायश्चित्तम्

019 छत्राकं विड्वराहम् ...{Loading}...

छत्राकं+++(=छत्राकारकवकानि)+++ विड्वराहं च
लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं+++(=leek)+++ चैव
मत्या जग्ध्वा पतेद् द्विजः ॥ ५.१९ ॥

020 अमत्यैतानि षड् ...{Loading}...

अमत्यैतानि षड् जग्ध्वा
कृच्छ्रं सान्तपनं चरेत् ।
यतिचान्द्रायाणं वापि
शेषेषूपवसेद् अहः ॥ ५.२० ॥+++(4)+++

021 संवत्सरस्यैकम् अपि ...{Loading}...

संवत्सरस्यैकम् अपि
चरेत् कृच्छ्रं द्विजोत्तमः ।
अज्ञात-भुक्त-शुद्ध्य्-अर्थं
ज्ञातस्य तु विषेशतः +++(स्यात्)+++ ॥ ५.२१ ॥+++(5)+++

यज्ञे पशुवधः

022 यज्ञार्थम् ब्राह्मणैर् ...{Loading}...

यज्ञार्थं ब्राह्मणैर् वध्याः
प्रशस्ता मृग-पक्षिणः ।
भृत्यानां चैव वृत्त्य्-अर्थम्
अगस्त्यो ह्य् आचरत् पुरा ॥ ५.२२ ॥

023 बभूवुर् हि ...{Loading}...

बभूवुर् हि पुरोडाशा
भक्ष्याणां मृग-पक्षिणाम् ।
पुराणेष्व् अपि यज्ञेषु
ब्रह्म-क्षत्र-सवेषु च [[मेधातिथिपाठः - पुराणेष्व् ऋषियज्ञेषु] ॥ ५.२३ ॥

पर्युषितान्नम्

024 यत् किम् ...{Loading}...

यत् किं चित् स्नेहसंयुक्तं
भक्ष्यं भोज्यम् अगर्हितम् ।
तत् पर्युषितम् अप्य् आद्यं
हविःशेषं च यद् भवेत् ॥ ५.२४ ॥+++(5)+++

025 चिरस्थितम् अपि ...{Loading}...

चिरस्थितम् अपि त्व् आद्यम्
अ-स्नेहाक्तं द्विजातिभिः ।
यव-गोधूमजं सर्वं
पयसश् चैव विक्रिया ॥ ५.२५ ॥+++(5)+++

मांसभक्षणम्

026 एतद् उक्तम् ...{Loading}...

एतद् उक्तं द्विजातीनां
भक्ष्याभक्ष्यम् अशेषतः ।
मांसस्याऽतः प्रवक्ष्यामि
विधिं भक्षणवर्जने ॥ ५.२६ ॥

027 प्रोक्षितम् भक्षयेन् ...{Loading}...

प्रोक्षितं भक्षयेन् मांसं
ब्राह्मणानां च काम्यया ।
यथाविधि नियुक्तस् तु
प्राणानाम् एव चाऽत्यये ॥ ५.२७ ॥

सहजता

028 प्राणस्याऽन्नम् इदम् ...{Loading}...

प्राणस्याऽन्नम् इदं सर्वं
प्रजापतिर् अकल्पयत् ।
स्थावरं जङ्गमं चैव
सर्वं प्राणस्य भोजनम् ॥ ५.२८ ॥+++(5)+++

029 चराणाम् अन्नम् ...{Loading}...

चराणाम् अन्नम् अचरा
दंष्ट्रिणाम् अप्य् अदंष्ट्रिणः ।
अहस्ताश् च स-हस्तानां
शूराणां चैव भीरवः ॥ ५.२९ ॥+++(5)+++

030 नाऽत्ता दुष्यत्य् ...{Loading}...

नाऽत्ता दुष्यत्य् अदन्न् आद्यान्
प्राणिनो ऽहन्य् अहन्य् अपि ।
धात्रैव सृष्टा ह्य् आद्याश् च
प्राणिनो ऽत्तार एव च ॥ ५.३० ॥

विधिवद्भक्षणम्

031 यज्ञाय जग्धिर् ...{Loading}...

यज्ञाय जग्धिर् मांसस्येत्य्
एष दैवो विधिः स्मृतः ।
अतो ऽन्यथा प्रवृत्तिस् तु
राक्षसो विधिर् उच्यते ॥ ५.३१ ॥+++(4)+++

032 क्रीत्वा स्वयम् ...{Loading}...

क्रीत्वा स्वयं वाप्य् उत्पाद्य
परोपकृतम् एव वा ।
देवान् पितॄंश् चाऽर्चयित्वा
खादन् मांसं न दुष्यति ॥ ५.३२ ॥

033 नाऽद्याद् अविधिना ...{Loading}...

नाऽद्याद् अविधिना मांसं
विधिज्ञो ऽनापदि द्विजः ।
जग्ध्वा ह्य् अविधिना मांसं
प्रेतस् तैर् अद्यते ऽवशः ॥ ५.३३ ॥

अवैदिककर्मसु

034 न तादृशम् ...{Loading}...

न तादृशं भवत्य् एनो
मृग-हन्तुर् धनार्थिनः ।
यादृशं भवति प्रेत्य
+++(कुविधिप्रेरितानि)+++ वृथा-मांसानि खादतः ॥ ५.३४ ॥

035 नियुक्तस् तु ...{Loading}...

नियुक्तस् तु यथान्यायं
यो मांसं नाऽत्ति मानवः ।
स प्रेत्य पशुतां याति
सम्भवान् एकविंशतिम् ॥ ५.३५ ॥+++(5)+++

036 असंस्कृतान् पशून् ...{Loading}...

+++(वैदिक-यज्ञ-दृष्ट्या)+++ असंस्कृतान् पशून् मन्त्रैर्
नाऽद्याद् विप्रः कदा चन ।
मन्त्रैस् तु संस्कृतान् अद्याच्
छाश्वतं विधिम् आस्थितः ॥ ५.३६ ॥

037 कुर्याद् घृतपशुम् ...{Loading}...

कुर्याद् घृतपशुं +++(अवैदिक-प्र)+++सङ्गे
कुर्यात् पिष्टपशुं तथा ।
न त्व् एव तु वृथा हन्तुं
पशुम् इच्छेत् कदा चन ॥ ५.३७ ॥+++(5)+++

038 यावन्ति पशु-रोमाणि ...{Loading}...

यावन्ति पशु-रोमाणि
तावत्-कृत्वो ह मारणम् ।
वृथा-पशु-घ्नः प्राप्नोति
प्रेत्य जन्मनि जन्मनि ॥ ५.३८ ॥

यज्ञहिंसौचित्यम्

039 यज्ञार्थम् पशवः ...{Loading}...

यज्ञार्थं पशवः सृष्टाः
स्वयम् एव स्वयम्भुवा ।
यज्ञो ऽस्य भूत्यै सर्वस्य
तस्माद् यज्ञे वधो ऽवधः ॥ ५.३९ ॥

040 ओषध्यः पशवो ...{Loading}...

ओषध्यः पशवो वृक्षास्
तिर्यञ्चः पक्षिणस् तथा ।
यज्ञार्थं निधनं प्राप्ताः
प्राप्नुवन्त्य् उत्सृतीः पुनः [मेधातिथिपाठः - उच्छ्रितीः] ॥ ५.४० ॥

041 मधुपर्के च ...{Loading}...

मधुपर्के च यज्ञे च
पितृ-दैवत-कर्मणि ।
अत्रैव पशवो हिंस्या
नाऽन्यत्रेत्य् अब्रवीन् मनुः ॥ ५.४१ ॥

042 एष्व् अर्थेषु ...{Loading}...

एष्व् अर्थेषु पशून् हिंसन्
वेद-तत्त्वार्थ-विद् द्विजः ।
आत्मानं च पशुं चैव
गमयत्य् उत्तमं गतिम् ॥ ५.४२ ॥

043 गृहे गुराव् ...{Loading}...

गृहे गुराव् अरण्ये वा
निवसन्न् आत्मवान् द्विजः ।
नाऽवेद-विहितां हिंसाम्
आपद्य् अपि समाचरेत् ॥ ५.४३ ॥

044 या वेद-विहिता ...{Loading}...

या वेद-विहिता हिंसा
नियतास्मिंश् चराचरे ।
अहिंसाम् एव तां विद्याद्
वेदाद् धर्मो हि निर्बभौ ॥ ५.४४ ॥

अहिंसाप्रशंसा

045 यो ऽहिंसकानि ...{Loading}...

यो ऽहिंसकानि भूतानि
हिनस्त्य् आत्म-सुखेच्छया ।
स जीवांश् च मृतश् चैव
न क्व चित् सुखम् एधते ॥ ५.४५ ॥

046 यो बन्धन-वध-क्लेशान् ...{Loading}...

यो बन्धन-वध-क्लेशान्
प्राणिनां न चिकीर्षति ।
स सर्वस्य हितप्रेप्सुः
सुखम् अत्यन्तम् अश्नुते ॥ ५.४६ ॥

047 यद् ध्यायति ...{Loading}...

यद् ध्यायति यत् कुरुते
रतिं बध्नाति यत्र च ।
तद् अवाप्नोत्य् अयत्नेन
यो हिनस्ति न किं चन ॥ ५.४७ ॥+++(5)+++

048 नाऽकृत्वा प्राणिनाम् ...{Loading}...

नाऽकृत्वा प्राणिनां हिंसां
मांसम् उत्पद्यते क्व चित् ।
न च प्राणि-वधः स्वर्ग्यस्
तस्मान् मांसं विवर्जयेत् ॥ ५.४८ ॥

049 समुत्पत्तिञ् च ...{Loading}...

समुत्पत्तिं च मांसस्य
वध-बन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत
सर्व-मांसस्य भक्षणात् ॥ ५.४९ ॥

050 न भक्षयति ...{Loading}...

न भक्षयति यो मांसं
विधिं हित्वा पिशाचवत् ।
न लोके ऽप्रियतां याति
व्याधिभिश् च न पीड्यते ॥ ५.५० ॥

051 अनुमन्ता विशसिता ...{Loading}...

अनुमन्ता विशसिता
निहन्ता क्रय-विक्रयी ।
संस्कर्ता चोपहर्ता च
खादकश् चेति घातकाः ॥ ५.५१ ॥+++(4)+++

052 स्वमांसम् परमांसेन ...{Loading}...

स्वमांसं परमांसेन
यो वर्धयितुम् इच्छति ।
अनभ्यर्च्य पितॄन् देवांस्
ततो ऽन्यो नाऽस्त्य् अपुण्यकृत् ॥ ५.५२ ॥

053 वर्षे वर्षे ...{Loading}...

वर्षे वर्षे ऽश्वमेधेन
यो यजेत शतं समाः ।
मांसानि च न खादेद् यस्
तयोः पुण्यफलं समम् ॥ ५.५३ ॥

054 फल-मूलाशनैर् मेध्यैर् ...{Loading}...

फल-मूलाशनैर् मेध्यैर्
मुन्य्-अन्नानां च भोजनैः ।
न तत् फलम् अवाप्नोति
यन् मांस-परिवर्जनात् ॥ ५.५४ ॥

055 मां स ...{Loading}...

मां स भक्षयितामुत्र
यस्य मांसम् इहाऽद्म्य् अहम् ।
एतन् मांसस्य मांसत्वं
प्रवदन्ति मनीषिणः ॥ ५.५५ ॥+++(4)+++

056 न मांस-भक्षणे ...{Loading}...

न मांस-भक्षणे दोषो
न मद्ये न च मैथुने ।
प्रवृत्तिर् एषा भूतानां
निवृत्तिस् तु महाफला ॥ ५.५६ ॥

आशौचम्

057 प्रेत-शुद्धिम् प्रवक्ष्यामि ...{Loading}...

प्रेत-शुद्धिं प्रवक्ष्यामि
द्रव्य-शुद्धिं तथैव च ।
चतुर्णाम् अपि वर्णानां
यथावद् अनुपूर्वशः ॥ ५.५७ ॥

058 दन्त-जाते ऽनुजाते ...{Loading}...

दन्त-जाते ऽनुजाते च
कृत-चूडे च संस्थिते ।
अशुद्धा बान्धवाः सर्वे
सूतके च तथोच्यते ॥ ५.५८ ॥

059 दशाहं शावम् ...{Loading}...

दशाहं शावम् आशौचं
सपिण्डेषु विधीयते ।
अर्वाक् सञ्चयनाद् अस्थ्नां
त्र्यहम् एकाहम् एव वा ॥ ५.५९ ॥

सापिण्ड्यम्

060 सपिण्डता तु ...{Loading}...

+++(प्रपितामहस्य प्रपितामहं यावत् कुलजेषु वर्तमाना)+++
सपिण्डता तु पुरुषे
सप्तमे विनिवर्तते ।
समानोदक-भावस् तु
जन्म-नाम्नोर् अवेदने
+++(चतुर्दशसु पूर्वजस्तरेष्व् अन्यतमे समान इति, ततोऽपि प्राचीनासम्बन्धा गोत्रजा एवेति च केचित्)+++॥ ५.६० ॥

061 यथेदं शावम् ...{Loading}...

यथेदं शावम् आशौचं
सपिण्डेषु विधीयते [Not in M] ।
जनने ऽप्य् एवम् एव स्यान्
निपुणं शुद्धिम् इच्छताम् [Not in M] ॥ ५.६१ ॥+++(4)+++

आशौचान्तरम्

062 सर्वेषां शावम् ...{Loading}...

सर्वेषां शावम् आशौचं
माता-पित्रोस् तु सूतकम्
[मेधातिथिपाठः - जनने ऽप्य् एवम् एव स्यान्
माता-पित्रोस् तु सूतकम्] ।
सूतकं मातुर् एव स्याद्
+++(त्र्यहात् परम्)+++ उपस्पृश्य पिता शुचिः ॥ ५.६२ ॥ [६१ मेधातिथिपाठे]

063 निरस्य तु ...{Loading}...

निरस्य तु पुमाञ् शुक्रम्
उपस्पृश्यैव शुध्यति ।
+++(तदपेक्षया, प्रसवे)+++ बैजिकाद् अभिसम्बन्धाद्
अनुरुन्ध्याद् अघं त्र्यहम् +++(पितुः)+++ ॥ ५.६३ ॥ [६२ मेधातिथिपाठे]

064 अह्ना चैकेन ...{Loading}...

अह्ना चैकेन रात्र्या च
त्रिरात्रैर् एव च त्रिभिः +++(→१० दिनैः)+++।
शव-स्पृशो विशुध्यन्ति,
त्र्यहाद् उदक-दायिनः ॥ ५.६४ ॥ [६३ मेधातिथिपाठे]

065 गुरोः प्रेतस्य ...{Loading}...

गुरोः प्रेतस्य शिष्यस् तु
पितृमेधं+++(=चरमेष्टिं)+++ समाचरन् ।
प्रेतहारैः समं तत्र
दशरात्रेण शुध्यति [मेधातिथिपाठः - प्रेताहारैः] ॥ ५.६५ ॥ [६४ मेधातिथिपाठे]

066 रात्रिभिर् मास-तुल्याभिर् ...{Loading}...

रात्रिभिर् मास-तुल्याभिर्
गर्भस्रावे विशुध्यति +++(स्त्रीः)+++ ।
रजस्य् उपरते साध्वी
स्नानेन स्त्री रजस्वला +++(शुध्यति)+++ ॥ ५.६६ ॥ [६५ मेधातिथिपाठे]

067 नृणाम् अकृतचूडानाम् ...{Loading}...

नृणाम् अकृतचूडानां
विशुद्धिर् नैशिकी स्मृता ।
निर्वृत्त-चूडकानां तु
त्रिरात्राच् छुद्धिर् इष्यते [मेधातिथिपाठः - निर्वृत्त-मुण्डकानां] ॥ ५.६७ ॥ [६६ मेधातिथिपाठे]

मृते शिशौ

068 ऊन-द्विवार्षिकम् प्रेतम् ...{Loading}...

ऊन-द्विवार्षिकं प्रेतं
निदध्युर् बान्धवा बहिः ।
अलङ्कृत्य शुचौ भूमाव्
अस्थिसञ्चयनाद् ऋते +++(स्थाने)+++ ॥ ५.६८ ॥ [६७ मेधातिथिपाठे]+++(5)+++

069 नाऽस्य कार्यो ...{Loading}...

नाऽस्य कार्यो ऽग्निसंस्कारो
न च कार्योदकक्रिया ।
अरण्ये काष्ठवत् त्यक्त्वा
क्षपेयुस्+++(=उदास्येयुः - कार्यान्तरम् उपेक्ष्य)+++ त्र्यहम् एव तु [मेधातिथिपाठः - क्षपेत त्र्यहम् एव च] ॥ ५.६९ ॥ [६८ मेधातिथिपाठे]

070 नाऽत्रिवर्षस्य कर्तव्या ...{Loading}...

नाऽत्रिवर्षस्य कर्तव्या
बान्धवैर् उदकक्रिया ।
जात-दन्तस्य वा कुर्युर्
नाम्नि वापि कृते सति ॥ ५.७० ॥ [६९ मेधातिथिपाठे]

अन्यत्र

071 स-ब्रह्मचारिण्य् एकाहम् ...{Loading}...

स-ब्रह्मचारिण्य् एकाहम्
अतीते क्षपणं स्मृतम् ।
जन्मन्य् एकोदकानां तु
त्रिरात्राच् छुद्धिर् इष्यते ॥ ५.७१ ॥ [७० मेधातिथिपाठे]

072 स्त्रीणाम् असंस्कृतानाम् ...{Loading}...

स्त्रीणाम् +++(विवाहेन)+++ असंस्कृतानां तु
त्र्यहाच् छुध्यन्ति बान्धवाः ।
यथोक्तेनैव कल्पेन
शुध्यन्ति तु स-नाभयः ॥ ५.७२ ॥ [७१ मेधातिथिपाठे]

073 अ-क्षार-लवणान्नाः स्युर् ...{Loading}...

अ-क्षार-लवणान्नाः स्युर्
निमज्जेयुश् च ते त्र्यहम् ।
मांसाशनं च नाऽश्नीयुः
शयीरंश् च पृथक् क्षितौ ॥ ५.७३ ॥ [७२ मेधातिथिपाठे]

असन्निधौ

074 सन्निधाव् एष ...{Loading}...

सन्निधाव् एष वै कल्पः
शावाशौचस्य कीर्तितः ।
असन्निधाव् अयं ज्ञेयो
विधिः सम्बन्धि+++(=समानोदक)+++-बान्धवैः+++(=सपिण्डैः)+++ ॥ ५.७४ ॥ [७३ मेधातिथिपाठे]

075 विगतन् तु ...{Loading}...

विगतं तु विदेश-स्थं
शृणुयाद् यो ह्य् अ-निर्-दशम्+++(=अनिर्गत-दशाहम्)+++ ।
यच् छेषं दश-रात्रस्य
तावद् एवाऽशुचिर् भवेत् ॥ ५.७५ ॥ [७४ मेधातिथिपाठे]

076 अतिक्रान्ते दशाहे ...{Loading}...

अतिक्रान्ते दशाहे च
त्रिरात्रम् अशुचिर् भवेत् ।
संवत्सरे व्यतीते तु
स्पृष्ट्वैवापो विशुध्यति +++(पितृ-भिन्नः)+++॥ ५.७६ ॥ [७५ मेधातिथिपाठे]+++(5)+++

077 निर्दशञ् ज्ञातिमरणम् ...{Loading}...

निर्दशं+++(=निर्गत-दशाहं)+++ ज्ञाति-मरणं
श्रुत्वा पुत्रस्य जन्म च ।
स-वासा जलम् आप्लुत्य
शुद्धो भवति मानवः +++(स्पर्शविषय एवेति केचित्)+++ ॥ ५.७७ ॥ [७६ मेधातिथिपाठे]

078 बाले देशान्तरस्थे ...{Loading}...

बाले +++(जाते)+++ देशान्तरस्थे च,
पृथक्-पिण्डे च संस्थिते ।
स-वासा जलम् आप्लुत्य
सद्य एव विशुध्यति ॥ ५.७८ ॥ [७७ मेधातिथिपाठे]

079 अन्तर्-दशाहे स्याताम् ...{Loading}...

अन्तर्-दशाहे स्यातां चेत्
पुनर् मरण-जन्मनी [मेधातिथिपाठः - चेत् स्यातां] ।
तावत् स्याद् अशुचिर् विप्रो
यावत् तत् स्याद् अ-निर्-दशम् +++(=अनिर्गतदशाहम्)+++ ॥ ५.७९ ॥ [७८ मेधातिथिपाठे]

080 त्रिरात्रम् आहुर् ...{Loading}...

त्रिरात्रम् आहुर् आशौचम्
आचार्ये संस्थिते सति ।
तस्य पुत्रे च पत्न्यां च
दिवा-रात्रम् इति स्थितिः ॥ ५.८० ॥ [७९ मेधातिथिपाठे]

081 श्रोत्रिये तूपसम्पन्ने ...{Loading}...

श्रोत्रिये +++(मैत्र्यादिभिस्)+++ तूपसम्पन्ने
त्रिरात्रम् अशुचिर् भवेत् ।
मातुले +++(पूर्वोत्तर-रात्रि-)+++पक्षिणीं रात्रिं
शिष्यर्त्विग्-बान्धवेषु च ॥ ५.८१ ॥ [८० मेधातिथिपाठे]

082 प्रेते राजनि ...{Loading}...

प्रेते राजनि स-ज्योतिर् +++(=दिनान्तं यावत् [आशौचं])+++
यस्य स्याद् विषये स्थितः ।
अश्रोत्रिये त्व् अहः कृत्स्नम्
अनूचाने तथा गुरौ [मेधातिथिपाठः - कृत्स्नाम्] ॥ ५.८२ ॥ [८१ मेधातिथिपाठे]

083 शुद्ध्येद् विप्रो ...{Loading}...

शुद्ध्येद् विप्रो दशाहेन
द्वा-दशाहेन भूमिपः ।
वैश्यः पञ्च-दशाहेन
शूद्रो मासेन शुध्यति ॥ ५.८३ ॥ [८२ मेधातिथिपाठे]

नियमान्तरम्

084 न वर्धयेद् ...{Loading}...

न वर्धयेद् अघाहानि,
+++(अनग्निक्रिया इव)+++ प्रत्यूहेन् नाऽग्निषु क्रियाः +++(- अपि तु ताः कुर्यात्)+++ ।
न च तत्कर्म कुर्वाणः
+++(मृतस्य)+++ स-नाभ्यो ऽप्य् अशुचिर् भवेत् ॥ ५.८४ ॥ [८३ मेधातिथिपाठे]

क्षुद्राशौचानि

085 दिवाकीर्तिम् उदक्याम् ...{Loading}...

दिवा-कीर्तिम्+++(=चण्डालं)+++, उदक्यां+++(=रजस्वलां)+++ च
पतितं, सूतिकां तथा ।
शवं, तत्-स्पृष्टिनं, चैव
स्पृष्ट्वा स्नानेन शुध्यति ॥ ५.८५ ॥ [८४ मेधातिथिपाठे]

086 आचम्य प्रयतो ...{Loading}...

आचम्य प्रयतो नित्यं
जपेद् अशुचि-दर्शने ।
सौरान् मन्त्रान् यथोत्साहं
पावमानीश् च शक्तितः ॥ ५.८६ ॥ [८५ मेधातिथिपाठे]

087 नारं स्पृष्ट्वास्थि ...{Loading}...

नारं स्पृष्ट्वास्थि स-स्नेहं
स्नात्वा विप्रो विशुध्यति ।
आचम्यैव तु निःस्नेहं,
गाम् आलभ्या ऽर्कम् ईक्ष्य वा ॥ ५.८७ ॥ [८६ मेधातिथिपाठे]

088 आदिष्टी नोदकम् ...{Loading}...

आदिष्टी+++(=शिष्यः)+++ +++(तर्पणेन)+++ नोदकं कुर्याद्
आ व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा
त्रिरात्रेणैव शुध्यति ॥ ५.८८ ॥ [८७ मेधातिथिपाठे]

अनाशौचम्

089 वृथा-सङ्कर-जातानाम् प्रव्रज्यासु ...{Loading}...

वृथा-सङ्कर-जातानां,
+++(सन्न्यासादिषु)+++ प्रव्रज्यासु +++(क्रियासु)+++ च तिष्ठताम् ।
आत्मनस् त्यागिनां चैव
निवर्तेतोदकक्रिया ॥ ५.८९ ॥ [८८ मेधातिथिपाठे]

090 पाषण्डम् आश्रितानाम् ...{Loading}...

पाषण्डम् आश्रितानां च
चरन्तीनां च कामतः ।
गर्भ-भर्तृ-द्रुहां चैव
सुरापीनां च योषिताम् ॥ ५.९० ॥ [८९ मेधातिथिपाठे]

091 आचार्यं स्वम् ...{Loading}...

आचार्यं स्वम् उपाध्यायं
पितरं मातरं गुरुम् ।
+++(शरीरनयनेन)+++ निर्हृत्य तु व्रती प्रेतान्
न व्रतेन वियुज्यते ॥ ५.९१ ॥ [९० मेधातिथिपाठे]

092 दक्षिणेन मृतम् ...{Loading}...

दक्षिणेन +++(द्वारेण)+++ मृतं शूद्रं
पुर-द्वारेण निर्हरेत् ।
पश्चिमोत्तर-पूर्वैस् तु
यथायोगं द्विजन्मनः ॥ ५.९२ ॥ [९१ मेधातिथिपाठे]

093 न राज्ञाम् ...{Loading}...

न राज्ञाम् अघदोषो ऽस्ति
व्रतिनां न च सत्त्रिणाम् ।
ऐन्द्रं स्थानम् उपासीना
ब्रह्मभूता हि ते सदा ॥ ५.९३ ॥ [९२ मेधातिथिपाठे]+++(5)+++

094 राज्ञो महात्मिके ...{Loading}...

राज्ञो महात्मिके स्थाने
सद्यःशौचं विधीयते ।
प्रजानां परिरक्षार्थम्
आसनं चाऽत्र कारणम् ॥ ५.९४ ॥ [९३ मेधातिथिपाठे]

095 डिम्भाहव-हतानाञ् च ...{Loading}...

डिम्भाहव+++(=riot)+++-हतानां च
विद्युता पार्थिवेन च [मेधातिथिपाठः - डिम्बाहव-हतानां] ।
गो-ब्राह्मणस्य चैवाऽर्थे
यस्य +++(आशौचम् मास्त्व् अस्येति)+++ चेच्छति पार्थिवः ॥ ५.९५ ॥ [९४ मेधातिथिपाठे]

096 सोमाग्न्य्-अर्कानिलेन्द्राणां वित्ताप्पत्योर् ...{Loading}...

सोमाग्न्य्-अर्कानिलेन्द्राणां
वित्ताप्पत्योर् यमस्य च ।
अष्टानां लोकपालानां
वपुर् धारयते नृपः ॥ ५.९६ ॥ [९५ मेधातिथिपाठे]

097 लोकेशाधिष्ठितो राजा ...{Loading}...

लोकेशाधिष्ठितो राजा
नाऽस्याशौचं विधीयते ।
शौचाशौचं हि मर्त्यानां,
लोकेभ्यः +++(आशौच)+++प्रभवाऽप्ययौ+++(=प्रवृत्तिनिवृत्ती)+++ +++(न तु लोकेशानाम्)+++ ॥ ५.९७ ॥ [९६ मेधातिथिपाठे]

098 उद्यतैर् आहवे ...{Loading}...

उद्यतैर् आहवे शस्त्रैः
क्षत्र-धर्म-हतस्य च ।
सद्यः +++(पूर्णताम् आप्य)+++ सन्तिष्ठते यज्ञस्
तथाशौचम् इति स्थितिः ॥ ५.९८ ॥ [९७ मेधातिथिपाठे]

शुचिप्राप्तिः

099 विप्रः शुध्यत्य् ...{Loading}...

विप्रः शुध्यत्य् अपः स्पृष्ट्वा
क्षत्रियो वाहनायुधम् ।
वैश्यः प्रतोदं रश्मीन् वा
यष्टिं शूद्रः कृत-क्रियः ॥ ५.९९ ॥ [९८ मेधातिथिपाठे]

असपिण्डेषु

100 एतद् वो ...{Loading}...

एतद् वो ऽभिहितं शौचं
सपिण्डेषु द्विजोत्तमाः ।
असपिण्डेषु सर्वेषु
प्रेतशुद्धिं निबोधत ॥ ५.१०० ॥ [९९ मेधातिथिपाठे]

101 असपिण्डन् द्विजम् ...{Loading}...

असपिण्डं द्विजं प्रेतं
विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण
मातुर् आप्तांश् च बान्धवान् ॥ ५.१०१ ॥ [१०० मेधातिथिपाठे]

102 यद्य् अन्नम् ...{Loading}...

यद्य् अन्नम् अत्ति तेषां तु
दशाहेनैव शुध्यति ।
अनदन्न् अन्नम् अह्नैव
न चेत् तस्मिन् गृहे वसेत् ॥ ५.१०२ ॥ [१०१ मेधातिथिपाठे]

103 अनुगम्येच्छया प्रेतम् ...{Loading}...

अनुगम्येच्छया प्रेतं
ज्ञातिम् अज्ञातिम् एव च [मेधातिथिपाठः - अज्ञातिम् एव वा] ।
स्नात्वा स-चैलः स्पृष्ट्वाग्निं
घृतं प्राश्य विशुध्यति [मेधातिथिपाठः - स-चैलं, विशुद्ध्यति] ॥ ५.१०३ ॥ [१०२ मेधातिथिपाठे]

प्रकीर्ण-नियमाः

104 न विप्रम् ...{Loading}...

न विप्रं स्वेषु तिष्ठत्सु
मृतं शूद्रेण नाययेत् ।
अस्वर्ग्या ह्य् आहुतिः सा स्याच्
छूद्र-संस्पर्श-दूषिता ॥ ५.१०४ ॥ [१०३ मेधातिथिपाठे]

शुचि-हेतवः

105 ज्ञानन् तपो ...{Loading}...

ज्ञानं तपो ऽग्निर् आहारो
मृन् मनो वार्य् उपाञ्जनम् ।
वायुः कर्माऽर्क-कालौ च
शुद्धेः कर्तॄणि देहिनाम् ॥ ५.१०५ ॥ [१०४ मेधातिथिपाठे]+++(5)+++

106 सर्वेषाम् एव ...{Loading}...

सर्वेषाम् एव शौचानाम्
अर्थ-शौचं परं स्मृतं ।
यो ऽर्थे शुचिर् हि स शुचिर्
न मृद्-वारि-शुचिः शुचिः ॥ ५.१०६ ॥ [१०५ मेधातिथिपाठे]+++(5)+++

107 क्षान्त्या शुध्यन्ति ...{Loading}...

क्षान्त्या शुध्यन्ति विद्वांसो
दानेनाऽकार्यकारिणः [मेधातिथिपाठः - शुद्ध्यन्ति] ।
प्रच्छन्न-पापा जप्येन
तपसा वेदवित्तमाः ॥ ५.१०७ ॥ [१०६ मेधातिथिपाठे] +++(4)+++

108 मृत्-तोयैः शुध्यते ...{Loading}...

मृत्-तोयैः शुध्यते शोध्यं
नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टा
सन्न्यासेन द्विजोत्तमाः ॥ ५.१०८ ॥ [१०७ मेधातिथिपाठे]

109 अद्भिर् गात्राणि ...{Loading}...

अद्भिर् गात्राणि शुध्यन्ति
मनः सत्येन शुध्यति ।
विद्या-तपोभ्यां भूतात्मा
बुद्धिर् ज्ञानेन शुध्यति [मेधातिथिपाठः - शुद्ध्यति] ॥ ५.१०९ ॥ [१०८ मेधातिथिपाठे]

द्रव्येषु

110 एष शौचस्य ...{Loading}...

एष शौचस्य वः प्रोक्तः
शरीरस्य विनिर्णयः ।
नानाविधानां द्रव्याणां
शुद्धेः शृणुत निर्णयम् ॥ ५.११० ॥ [१०९ मेधातिथिपाठे]

111 तैजसानाम् मणीनाम् ...{Loading}...

तैजसानां मणीनां च
सर्वस्याऽश्म-मयस्य च ।
भस्मनाद्भिर् मृदा चैव
शुद्धिर् उक्ता मनीषिभिः ॥ ५.१११ ॥ [११० मेधातिथिपाठे]

112 निर्लेपङ् काञ्चनम् ...{Loading}...

निर्लेपं काञ्चनं भाण्डम्
अद्भिर् एव विशुध्यति [मेधातिथिपाठः - विशुद्ध्यति] ।
अब्-जम् अश्ममयं चैव
राजतं चाऽनुपस्कृतम् ॥ ५.११२ ॥ [१११ मेधातिथिपाठे]

113 अपाम् अग्नेश् ...{Loading}...

अपाम् अग्नेश् च संयोगाद्
+हैमं रौप्यं+++(=राजतं)+++ च निर्बभौ ।
तस्मात् तयोः स्वयोन्यैव
निर्णेको+++(=शोधनं)+++ गुणवत्तरः ॥ ५.११३ ॥ [११२ मेधातिथिपाठे]

114 ताम्रायः-कांस्य-रैत्यानान् त्रपुणः ...{Loading}...

ताम्रायः-कांस्य-रैत्यानां+++(=पित्तलस्य विकारः रीति + ण्यत्)+++
त्रपुणः सीसकस्य च ।
शौचं यथार्हं कर्तव्यं
क्षाराम्लोदक-वारिभिः ॥ ५.११४ ॥ [११३ मेधातिथिपाठे]

115 द्रवाणाञ् चैव ...{Loading}...

द्रवाणां चैव सर्वेषां
शुद्धिर् उत्पवनं+++(=कस्यचिद् अंशस्यापनयनं)+++ स्मृतम् ।
प्रोक्षणं +++(घृतादीनां)+++ संहतानां च
दारवाणां च तक्षणम् ॥ ५.११५ ॥ [११४ मेधातिथिपाठे]

116 मार्जनं यज्ञपात्राणाम् ...{Loading}...

मार्जनं यज्ञपात्राणां
पाणिना यज्ञ-कर्मणि ।
चमसानां ग्रहाणां च
शुद्धिः प्रक्षालनेन तु ॥ ५.११६ ॥ [११५ मेधातिथिपाठे]

117 चरूणां स्रुक्-स्रुवाणाम् ...{Loading}...

चरूणां स्रुक्-स्रुवाणां च
शुद्धिर् उष्णेन वारिणा ।
स्फ्य-शूर्प-शकटानां च
मुसलोलूखलस्य च ॥ ५.११७ ॥ [११६ मेधातिथिपाठे]

118 अद्भिस् तु ...{Loading}...

अद्भिस् तु प्रोक्षणं शौचं
बहूनां धान्य-वाससाम् ।
प्रक्षालनेन त्व् अल्पानाम्
अद्भिः शौचं विधीयते ॥ ५.११८ ॥ [११७ मेधातिथिपाठे]

119 चैलवच् चर्मणाम् ...{Loading}...

चैल+++(=वस्त्र)+++-वच् चर्मणां शुद्धिर्
वैदलानां+++(=वार्क्षत्वगादीनां)+++ तथैव च ।
शाक-मूल-फलानां च
धान्यवच् छुद्धिर् इष्यते [मेधातिथिपाठः - तु] ॥ ५.११९ ॥ [११८ मेधातिथिपाठे]

120 कौशेयाविकयोर् ऊषैः ...{Loading}...

कौशेयाविकयोर् ऊषैः+++(=क्षारमृद्भिः)+++
कुतपानाम्+++(=कम्बलानाम्)+++ अरिष्टकैः+++(←soap berry)+++ ।
श्रीफलैर् अंशु-पट्टानां+++(←आविकम् ऊर्णामयं)+++
क्षौमाणां+++(=linen)+++ गौर-सर्षपैः ॥ ५.१२० ॥ [११९ मेधातिथिपाठे]

121 क्षौमवच् छङ्ख-शृङ्गाणाम् ...{Loading}...

क्षौमवच् छङ्ख-शृङ्गाणाम्
अस्थि-दन्त-मयस्य च ।
शुद्धिर् विजानता कार्या
गो-मूत्रेणोदकेन वा ॥ ५.१२१ ॥ [१२० मेधातिथिपाठे]

122 प्रोक्षणात् तृण-काष्ठम् ...{Loading}...

प्रोक्षणात् तृण-काष्ठं च
पलालं+++(=धान्यरहितकाण्डः)+++ चैव शुध्यति ।
मार्जनोपाञ्जनैर् वेश्म
पुनःपाकेन मृन्-मयम् ॥ ५.१२२ ॥ [१२१ मेधातिथिपाठे]

123 मद्यैर् मूत्रैः ...{Loading}...

मद्यैर् मूत्रैः पुरीषैर् वा
ष्ठीवनैः पूय-शोणितैः [Not in M] ।
संस्पृष्टं नैव शुद्ध्येत
पुनःपाकेन मृन्-मयम् ॥ ५.१२३ ॥ [५.१२३ क्ब् Not in M]

124 सम्मार्जनोपाञ्जनेन सेकेनोल्लेखनेन ...{Loading}...

सम्मार्जनोपाञ्जनेन
से