+++
title = "प्रायश्चित्त-प्रपत्त्य्-अर्हता"
+++

**असमर्थाधिकार-पक्षः॥**

अस्मिन् पक्षे -

अशक्ये प्रति-पदोक्त-प्रायश्चित्ते  
प्रपत्तिः साधारण-प्रपत्ति-विधेर् एव सिद्धा।  
ततोऽत्र पुनः-प्रपत्ति-विधानं (प्रधान-फलापेक्षया) अनुवाद-मात्रम् भवति,  
येनाव्यपदेश्येन प्रपन्नेन पुनःप्रपदनं विशिष्य प्रशस्यते,  
येन प्रपत्ति-निष्ठा-वृद्धिर् इति दृष्ट-फलम् अपि स्व्-अनुमेया।  
(तद् एव देशिकेन "प्रपत्ति-प्रतिसन्धानम्" इत्यादौ वक्ष्यते।  
अपि च "उपायानाम् उपायत्व-स्वीकारे" इत्यादिना प्रपत्तिनिष्ठाप्रशंसा प्रकरण-सुलभा।)

व्यपदेश्येन शिष्टेन प्रपन्नेन तु  
लोकसङ्ग्रहार्थं प्रसिद्धम् अनुकल्पान्तरं किञ्चन ग्राह्यम् इति पश्चाद् वक्ष्यते।

वेङ्कटनाथार्यो रहस्य-त्रय-रत्नावली-हृदये -

>> "अनन्यसाध्ये स्वाभीष्टे  
महाविश्वासपूर्वकम् ।  
तदेकोपायतायाच्ञा  
प्रपत्तिः शरणागतिः
>
> इत्यादि प्रपत्ति-लक्षण-वाक्य-अनुगुणम् आग  
प्रपन्नऩुक्कु बुद्धिपूर्वक अपचारङ्कळ् पुगुन्दऩव् आगिल्  
अवऱ्‌ऱुक्कु प्रतिपदोक्प्रायश्चित्त-योग्यतैय् इल्लाद पोदु  
प्रपन्नऩुक्कुम् …
>
> > सा हि सर्वत्र सर्वेषां  
सर्वकामफलप्रदा
>
> ऎऩ्ऱुम्,  
प्रतिपादितम् आऩ प्रभावत्तैय् उडैयत्त् आऩ प्रपत्ति तऩ्ऩैये मीण्डुम् प्रयोगिक्कुम् अदुवे  
स्वाधिकारानुगुण-प्रायश्चित्तम् आगक् कडवदु।


> मध्यमाः पुनः प्रारब्धं पापं  
यथाऽधिकारं प्रायश्चित्तेन परिहरन्ति ।  
तत्रापि तत्-तत्-पापानुरूप-प्रायश्चित्तेषु शक्तौ सत्यां  
तान्य् एवानुतिष्ठन्ति ।  
तद्-अभावे तु पुनः प्रपत्तिर् एव प्रायश्चित्तं भवति ।  
अन्यथातिप्रसङ्गात्,  
"अनन्य-साध्ये स्वाभीष्टे" इति वचन-विरोधाच् चेति । +++(5)+++

इति च कुमारवरदः।

[प्रभाव-व्यवस्थाधिकारे](/rAmAnujIyam/tattvam/venkaTa-nAtha-shAkhA/venkaTanAthaH/rahasya-traya-sAraH/sarva-prastutiH/2_sthirI-karaNa-vibhAgaH/25_prabhAva-vyavasthAdhikAraH/16_buddhi-pUrvakAghAH) च -

> प्रपत्ति-प्रतिसन्धानम् +++(→स्मरणम्)+++  
आप्तैर् यद् **उपदिश्यते** ।  
तत् स्वाधिकार-नियत-  
+++(वक्ष्यमाण-)+++हानोपादान-सिद्धये ॥  
प्रतिसन्धानतो हि स्याद्  
अ-धी-पूर्वेष्व् अ-लेप-धीः ।  
बुद्धि-पूर्वेष्व् अपि पुनः  
+++(मुख्य-कल्पेऽसामर्थ्ये ऽनुकल्पान्तर-स्थाने)+++  
प्रपत्तेर् एव संग्रहः  
+++(येन प्रपत्ति-निष्ठा-वृद्धिर् इति दृष्ट-फलम् अपि भवति।)+++॥


**कष्ट-समर्थ-प्रपन्नाधिकार-पक्षः॥**

अस्मिन् पक्षे -

> यदि गृहीतोपायः प्रतिपदोक्तप्रायश्चित्ते शक्तः,  
पुनःप्रपदने तस्याधिकार एव न भवति खलु - अनन्यगतिकताऽभावात्?

इति चेन् न -  
आकिञ्चन्य-रूप-कार्पण्यानुसन्धानम् अन्तरा  
कृच्छ्र-साध्यता-रूप-कार्पण्यानुसन्धानेन सह  
शक्ताधिकारिकं प्रपदनं  
विशेष-विधि-बलाद् अत्रोपपन्नम्।

ततः, शरणागति-लक्षणे  
"अनन्य-साध्ये स्वाभीष्टे" इति वचनस्य  
"कृच्छ्र-साध्ये स्वाभीष्टे" इति प्रायश्चित्त-काङ्क्षि-प्रपन्न-पक्षे ऽर्थविस्तारोऽत्राभिप्रेतः।

अयं हि तत्-परम्परागतस्य शिष्यस्य ४२-अहोबिल-यतेर् अप्य् अभिप्रायः, यद्य् अप्य् अनिश्चयम् प्रकटयति -

> > प्रपन्नर्गळुक्क् उळ्ळेये  
शक्तर्गळुक्कु प्रतिपदोक्तप्रायश्चित्तम्,  
अशक्तर्गळुक्कु पुनःप्रपदनम्
>
> ऎऩ्ऱु यथाधिकारम् ऎऩ्गिऱ अन्यथासिद्धम् आऩ ऒरु पदत्तैक् कॊण्डे सॊल्वदु
>
> ‘‘प्रार्थनैकैव केवलम्’’ ऎऩ्बदोडु विरुद्धमाम् ऎऩ्ऱु तोऩ्ऱुगिऱदु।

एतत्-प्रक्ष-ग्राहिणो ऽपि  
सन्ध्यावन्दनविलम्बे ऽव्यपदेश्या अपि प्रायश्चित्तार्घ्यम् एव ददति,  
न तु पुनःप्रपदनं कुर्वते।  
अनेन कृच्छ्र-साध्य-प्रायश्चित्त-स्थाने हि प्रतिपदोक्त-प्रायश्चित्तं तैर् अङ्गीकृतं ज्ञायते।

**प्रायश्चित्तान्तरे ऽधिकारः॥**  
प्रपन्नम् प्रति क्षमापण-प्रपत्तिम् अन्तरा प्रायश्चित्त-कल्पानुकल्पान्य् अपि विकल्प्यन्तय् इति सिध्यति -  
अग्रे वक्ष्यमाणरीत्या लोकसङ्ग्रहाय तद्-ग्राह्यत्वात्,  
लोकसङ्ग्रहायापि शास्त्रानुमतस्यैव च ग्राह्यत्वात्।  