A SuprabhAtaM in the praise of Goddess NArAyaNI at SrIpuraM near Vellore. I am unsure what the temple authorities did with it after I gave it to them through a middle man. Let my friends here stand as pramANa for my kavitva.
उदयाद्रिशिरोभूषा पूषा पुष्णाति पौरुषम् ।
अयमारभते स्तोतुमम्ब त्वामम्बुजासनः ॥१॥
नारायणि विघूर्णन्ते निशाजागरणक्लमात् ।
दीपा ध्वान्तार्णवद्वीपा नीपारण्यविलासिनि ॥२॥
कल्पद्रुमस्य कुसुमानि किरन्ति कल्ये
देवास्त्वयि त्रिजगदीश्वरि यानि तानि ।
द्यामाश्रयन्ति पुनरेव तवानुषङ्गा-
न्नारायणि त्वमधुना कुरु सुप्रभातम् ॥३॥
उन्मीलतां पयसि पङ्करुहां पुरस्ता-
न्मैत्रीमिमे तव दृशौ सदृशौ भजेताम् ।
मातः प्रमाति न ययोः करुणाप्रवाहो
नारायणि प्रणतरक्षिणि सुप्रभातम् ॥४॥
मञ्जीरशिञ्जितममी शयनोत्थिताया
नीडोद्भवास्तव निशम्य निशावसाने ।
गायन्ति सम्यगुपदेशमिवाधिगम्य
नारायणि श्रुतिविहारिणि सुप्रभातम् ॥५॥
त्वन्मन्दिरस्य तपनीयमयस्य भासा-
मासाद्य सख्यमुषसो द्विगुणीकृतायाः ।
पर्याप्तये दश दिशो न भवन्ति मात-
र्नारायणि व्यसनहारिणि सुप्रभातम् ॥६॥
दुर्गा त्वमाजिषु पराजितवैरिवर्गा
पद्मा त्वमच्युतभुजान्तरभव्यसद्मा ।
वाणी त्वमम्बुजभुवस्तरुणी पुराणी
नारायणि त्रिभुवनेश्वरि सुप्रभातम् ॥७॥
एकत्र बिम्बमरुणस्य निशान्तशोभि
व्यक्ताब्जसख्यमपरत्र मुखं भवत्याः ।
आलोक्य लज्जित इवास्तमुपैति चन्द्रो
नारायणि त्रिपुरवासिनि सुप्रभातम् ॥८।
प्रातः सरोवरजलेषु कृतावगाह-
श्चित्वा नवानि कुसुमानि लातागृहेभ्यः ।
त्वामभ्युपैति जगदम्ब मरुद्द्विजन्मा
नारायणि प्रणवरूपिणि सुप्रभातम् ॥९॥
मुक्ताप्रवालकनकस्फटिकेन्द्रनील-
वैडूर्यवज्रखचितानि विभूषणानि ।
स्वेनार्चिषा सपदि हन्त विभूषयन्त्या
नारायणि स्मितसुखे तव सुप्रभातम् ॥१०॥
भक्तौघबाष्पकणिकासतताभिषेक-
सम्भावनाप्रकटिताविलरेखयोस्ते ।
पादाब्जयोर्वितर दर्शनभाग्यमारा-
न्नारायणि स्वजनतोषिणि सुप्रभातम् ॥११॥
श्यामोज्ज्वला स्फुरति काचन पूर्वसन्ध्या
मोहान्धकारशमनी त्वदपाङ्गदृष्टिः ।
चित्ताम्बुजैः प्रणमतां प्रतिपालनीया
नारायणि क्रतुविहारिणि सुप्रभातम् ॥१२॥
मातस्त्वदीयचरणार्पितपारिजात-
स्वैरोल्लसद्भ्रमरशावरवानिवैतान् ।
निर्वेष्टुमर्हसि जनस्य जडस्य जल्पा-
न्नारायणि त्रिदिवपावनि सुप्रभातम् ॥१३॥
यः श्रीपुरे विबुधवल्लरिवल्लसन्त्याः
सूर्योदयेषु तव गायति सुप्रभातम् ।
भक्तस्य तस्य भवसागरनौरुदारा
नारायणि प्रकटयिष्यसि वाञ्छितानि ॥१४॥
श्रीपुरविलासरसिके
नूपुरनादायमानवेदान्ते ।
भूपुरवासिनि मातः
का पुरतस्ते व्यथाकथा भजताम् ॥१॥
निटिलार्पितशशिरेखा
जटिला जगदीश्वरि त्वमद्रिसुता ।
कटिलालितमणिरशना
कुटिलान्तरदुर्लभासि भासि पुरः ॥२॥
कनकालयमध्यगते
सनकादिसमस्तयोगिजनविनुते ।
घनकालचिकुरशालिनि
जनकामितकल्पवल्लि पालय माम् ॥३॥
तरुणारविन्दनिलये
करुणामृतवर्षिणी कटाक्षरुचा ।
अरुणाधरजितबिम्बे
वरुणालयकन्यका त्वमेव रमा ॥४॥
अमसिपटलानुषङ्गा
तमसि नृणामुज्ज्वला प्रदीपशिखा ।
त्वमसि जगदम्ब वाणी
भ्रमसि कवीनां मुखेषु निरवद्या ॥५॥
तरणीन्दुपावकानिल-
धरणीसलिलाभ्रमूर्तये मातः ।
स्मरणीयसकलगुणमणि-
सरणीसम्भाविते नमस्तुभ्यम् ॥६॥
नयनायितरविसोमे
शयनायितमौनिजनमनोभूमे ।
जय नारायणि भुवन-
त्रयनाटकरङ्गलासिके मातः ॥७॥
प्रणवस्त्रिपुरविहारिणि
पणवस्ते सार्वभौमताशंसी ।
गुणवति यस्मिन्निरत-
स्तृणवत्त्रैलोक्यमीक्षते विबुधः ॥८॥
समरार्दितरजनिचरा
भ्रमरावलिभावनीयचिकुरभरा ।
अमराधिपमणिमकुटो-
त्तमराजितपादपङ्कजा भवती ॥९॥
वहसि तनुमद्वितीया-
मिह सितकरखण्डमण्डनोल्लसिते ।
सहसितमुखि वीक्षन्ते
रहसि तपस्याभिरम्ब यमिनो याम् ॥१०॥
निर्वाणरसप्राया
गीर्वाणग्रामणीमणिच्छाया ।
शर्वादिनुता माया
दुर्वारा त्वमसि कापि निरपाया ॥११॥
द्राक्षारसभिक्षाटन-
दीक्षादानैकदक्षया वाचा ।
साक्षादक्षीणदये
दाक्षायणि रक्ष रक्ष मामनिशम् ॥१२॥
वरदाभयलक्षणया
श्रीपुरमम्ब त्वया मृगेक्षणया ।
विहितजगद्रक्षणया
विलसति केलिक्रियाविचक्षणया ॥१३॥
अविरतमस्तु नमस्ते
सरसिजहस्ते द्विषद्भिरनिरस्ते ।
मयि भवपाशग्रस्ते
कृपाकणस्ते चकास्तु वित्रस्ते ॥१४॥
सदयेन हृदा सहिते
दासहिते श्रीपुरीधुरीणतया ।
स्फुरसि तमोविधुरे खे
विधुरेखेव त्वमम्ब परमपदे ॥१५॥
वृजिनावग्रहग्रस्ते
मयि दीनतरे तरौ ।
नारायणि कटाक्षस्ते
नीलनीरधरायताम् ॥१६॥
सम्बाधे मुनिमानवेन्द्रदिविषद्दैतेयनागाप्सरो-
गन्धर्वादिगणस्य वेदवचनैस्तुष्टस्य तुष्टूषतः ।
क्वापि श्रीपुरदीपिके नतशिरास्तिष्ठामि निष्ठामिमा-
मेकान्तामनपायिनीमधिगतस्त्वां प्रत्यहं प्रत्यहम् ॥१॥
नयामि चेतस्तव देवि पादौ
न यामि देवानितरानशक्तान् ।
नमामि नारायणि सानुकम्पे
न मामिहोपेक्षितुमर्हसि त्वम् ॥२॥
महेन्द्रमौलिस्फटिकाश्मरश्मि-
स्वच्छाम्बुधाराविहिताभिषेकौ ।
सुवर्णपीठे प्रणवे स्फुरन्तौ
नारायणि त्वच्चरणौ प्रपद्ये ॥३॥
नखेन्दुनिर्धूतयुगावसान-
क्षपान्धकारौ नमतामुदारौ ।
आसन्नहेमाङ्गदचाटुकारौ
नारायणि त्वच्चरणौ प्रपद्ये ॥४॥
नमन्निलिम्पेन्द्रपुरीपुरन्ध्री-
धम्मिल्लमालामधुपद्वितीयैः ।
वेदैश्चतुर्भिर्मुखरोपकण्ठौ
नारायणि त्वच्चरणौ प्रपद्ये ॥५॥
आनन्दजैरश्रुभिराश्रिताना-
मालक्तके देवि हृतेऽपि रागे ।
अत्यक्तबालारुणसाहचर्यौ
नारायणि त्वच्चरणौ प्रपद्ये ॥६॥
आस्तम्बमावारिजवासमम्ब
त्राणे प्रपन्नस्य जगत्त्रयस्य ।
एकासनग्राहितया विभान्तौ
नारायणि त्वच्चरणौ प्रपद्ये ॥७॥
आचक्षते यन्मृदुताविचारे
शिरीषमीषद्गुणमेव सन्तः ।
तौ दुर्जनानामतिवज्रसारौ
नारायणि त्वच्चरणौ प्रपद्ये ॥८॥
सामीप्यसम्भावितनूपुराभ्यां
सारूप्यसम्भावितसारसाभ्याम् ।
सायुज्यसम्भावितभावुकाभ्यां
नमोऽस्तु नारायणि ते पदाभ्याम् ॥९॥
उद्यन्नखद्युतिमिषादघसङ्कुलस्य
प्लुष्टस्य दिक्षु किरतोरिव भस्मराशिम् ।
पद्मश्रियोस्त्रिजगदीश्वरि पादयोस्ते
नारायणि प्रणतिरस्तु चिरन्तनी मे ॥१०॥
श्रेयसि श्रीपुरागारे श्रयतां मानसे श्रुतौ ।
युगपद्द्योतमानायै देवि मङ्गलमस्तु ते ॥१॥
तुभ्यमभ्यधिकाभ्यस्तत्रैलोक्यत्राणकेलये ।
श्रीपुरीपुण्यनिलये जगज्जननि मङ्गलम् ॥२॥
सरोरुहवराभीतिस्फुरितारुणपाणये ।
नारायणि सुरस्तोमस्तुते मङ्गलमस्तु ते ॥३॥
मुनीन्द्रमानसाम्भोजप्रथमार्कमरीचये ।
मङ्गलं मङ्गलाकृत्यै श्रीपुरीपुण्यराशये ॥४॥
नयनाञ्जलिनिष्पीतकरुणामृतसिन्धवे ।
मातस्ते मङ्गलं भूयान्नारायणि गुणोज्ज्वले ॥५॥
चरणार्पितमन्दारभ्रमरालापलालिते ।
श्रीपुरान्तर्गते मन्दस्मिते मङ्गलमस्तु ते ॥६॥
श्रीपुरीकेलिरसिके श्रीवाणीशैलजात्मिके ।
चिराय नारायणि ते मङ्गलं मङ्गलाकृते ॥७॥
श्रीपुरागारकासारक्रीडाकलमरालिके ।
कृपाकन्दलितालोके त्रिलोकेश्वरि मङ्गलम् ॥८॥
श्रीपुरोपवनावासवासवोपलवल्लरि ।
मातस्ते मङ्गलं ब्रूमो ब्रह्माच्युतशिवात्मिके ॥९॥
श्रीपुरायतनस्तम्भस्थिरां भक्तिमधिष्ठितैः ।
सेविते सर्वदा सद्भिर्देवि ते मङ्गलं भवेत् ॥१०॥
विद्या विद्वत्सभाहृद्या शक्तिरुक्तिविलासिनी ।
निलिम्पनगरीसम्पद्रणेषु विजयोदयः ॥११॥
दारा गुणगणोदारास्तनयो विनयोज्ज्वलः ।
सहाया जीवितप्राया बन्धवः स्नेहसिन्धवः ॥१२॥
कम्बुकादम्बकैलासहरहासविडम्बिनी ।
आकल्पान्तस्थिरा कीर्तिः कवीन्द्रवचनादृता ॥१३॥
इत्यादि जायते नूनं भगवत्याः प्रसादतः ।
स्तुतिं माङ्गलिकीमेतां प्रत्यहं पठतां सताम् ॥१४॥