A NRusimha suprabhAtam which I composed for HariharapuraSAradApITha. Since the pITha seems disinterested in the composition (to an extent it seems most sannyAsIs have a distaste for poetry and are arasika-s for the greater part), I have decided to publicize the poem among my facebook friends.
नृसिंहसुप्रभातम्
करोति रविरुन्निद्रानुदयाद्रिदरीहरीन् ।
उत्तिष्ठ नृहरे देव द्विरेफनगरीपते ॥१॥
पूषा पुरुषपारीन्द्र स्फुटाम्भोरुहचिह्नया ।
भवानिव श्रिया भाति प्रभो प्राभातिकश्रिया ॥२॥
प्राची त्वदीयविकरालसटासमूह-
स्वेच्छाविसृत्वरमरीचिविचित्रितेयम् ।
प्रीतिं परां प्रथयतु प्रगुणानुरागा
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥३॥
गर्भाद्गभस्तिभृदसावुदयाचलस्य
स्तम्भस्य कस्यचन देव भवानिव प्राक् ।
निर्गत्य दैत्यमिव हन्ति निशान्धकारं
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥४॥
प्राप्ताः प्रसादमसुरेन्द्रवधोत्कटस्य
प्रह्लादवीक्षणवशादिव दृष्टयस्ते । कृत्स्नां प्रभो कलुषतामपहाय काष्ठाः श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥५॥
अत्रेन्दुरस्तगिरिमूर्ध्नि विलम्बमानो
निस्तन्द्रसाधितनिशासमयाधिकारः ।
आप्रष्टुमिच्छतिभवन्नखबन्धुवर्गं श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥६॥
पूर्वोत्थिताभगवतीकलशाब्धिकन्या दृष्टिं भवच्चरणपङ्कजयोर्निधत्ते । नीलोत्पलस्रजमिव प्रणयोपनीतां श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥७॥
सद्योविकस्वरसरोरुहसीधुसङ्गी
तुङ्गासमीर उपसर्पति मन्थरस्त्वाम् । पद्मामुखानिलसमानसुगन्धभूमा
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥८॥
पश्य त्वदायतनहैमगवाक्षमार्गा-
ल्लब्धप्रवेशमरुणांशुसहस्रमन्तः ।
पद्मं प्रबोधयति पार्श्वजुषो रमायाः - श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥९॥
हार्याणि तस्य वृजिनानि स रक्षणीय-
स्तस्मै वरो वितरणीय इति क्षणेऽस्मिन् ।
सिंहावलोकनविधिं प्रकटीकुरुष्व श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥१०॥
तारास्तुषारकणिका मृगलोचनानां मानोद्धुरा विकॄतयो विलयं भजन्ते ।
चिन्ता इव त्वदनुभूतिसुखस्य जन्तोः श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥११॥
आसन्नसारसनिवासवधूविपञ्ची-
निक्वाणयुक्तिपुनरुक्तिकृतो निनादैः ।
पूजाप्रसूनमभितो भ्रमरा भ्रमन्ति श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥१२॥
शक्रश्चिराद्विनिहिताञ्जलिरुत्तमाङ्गे द्वाराश्रयी तमिह कालमुदीक्षतेऽसौ |
यत्र स्युरस्य फलवन्ति विलोचनानि श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥१३॥
रागोज्ज्वलैः प्रणवषट्चरणानुयातै- स्तत्त्वार्थसूत्रघटितैः प्रथयन्ति पूजाम् । अम्लानगानकुसुमैस्तव नारदाद्याः श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥ १४॥
संसारवारणविदारणदारुणस्य तुङ्गातटीविपिनसञ्चरणैकचुञ्चोः ।
सह्याङ्कवर्तिवरशाङ्करशारदाम्बा- पीठाह्वगह्वरहरे तव सुप्रभातम् ॥१५॥
नृसिंहदशकम्
अरिहतकहिरण्यकशिपु- करिहतिकण्डूलकरजशिखर विभो । हरिहरपुरपुरुषहरे परिहर पुरतः स्थितस्य मे पापम् ॥१॥
कलशोदधिकन्याकुच- कलशोपरिपरिमृदूननूनशिखान् । कलशोद्भवभावितनि-
ष्कलशोभान्नरहरेः स्मरामि नखान् ॥२॥
प्रणवस्तव नवगर्जित- मणवस्तव चरणरेणवो लोकसृजः । पणवस्तव मुनिमानव- गणविहितेस्तवनकर्मणि त्रय्यन्तः ॥३॥
पङ्करहिताकृते नख- टङ्करचितवैरिहृच्छिलाभिहते । शङ्करकलितनुते श्शङ्करमासख्यरस नमो भवते ॥४॥
श्रीवदनसुधापायी नखैरुपायी स कश्चिदनपायी । हरिहरनगरस्थायी जीयान्महिमा फणीन्द्रतलशायी ॥५॥
विहरसि निगमान्तरहसि दरहसितमुखाम्बुजो मनुष्यहरे । वरदरहरदरचक्रो- द्धुरकर पश्यामि दक्षतीर्थे त्वाम् ॥६॥
कुरुविन्दपाटलेक्षण- मरविन्दनिवासया श्रितं पार्श्वे । गोविन्दयोगिवन्दित को विन्दति शर्म न प्रणम्य त्वाम् ॥७॥
डिम्भानुग्रहलीला- सम्भावितनरविमिश्रहरिमूर्तेः ।
जृम्भा निशिचरनिद्राऽऽ-
रम्भान्तकरी मुरद्विषो जीयात् ॥८॥
सन्ध्यामिव दनुजाधिप- वधावसरदानदर्शितोपकृतिम् ।
मूर्ध्नि सटाभरकपटा-
द्वहते नुतिरस्तु मनुजकेसरिणे ॥९ ||
दशकमिदंमनुजहरे र्नखदशकमिव स्मरन्ति ये प्रातः।
विगलति हृदयात्तेषां
भीतिभरो मृत्युपाशजन्मापि ॥१०॥
शारदास्तुतिः
हरिहरपुरवासा चन्द्रिकाचारुहासा निगमनुतविलासा निस्तुला देहभासा ।
कृतजडिमनिरासा व्यक्तविद्याविकासा जयति जनितदासानुग्रहा शारदा सा ॥१॥
करपरिचितकीरा जुष्टतुङ्गाप्रतीरा कुचरचितपटीरा सागराम्भोगभीरा । मकुटघटितहीरा पातु नो धीरधीरा । शशिविशदशरीरा शारदा शुभ्रचीरा ॥२॥
श्रुतिषु धृतरिरंसा चन्द्रलेखावतंसा भवबलरिपुकंसारातिबद्धप्रशंसा । शुकशिशुलसदंसा पादसंसक्तहंसा दिशतु जितनृशंसा शारदा मङ्गलं सा ॥३॥
अवधिरमलतायाश्चारुतारासहायाभरणभृदनपाया भञ्जिताशेषमाया । जगदनवधि पायाद्वारिजावासजाया सकलकविनिकायाराधिता देवता या ॥४॥
भवतु मम समक्षा बोधयन्ती विवक्षामखिलभुवनरक्षानर्मनिर्माणदक्षा । परिचितसितपक्षा कापि देवी बलक्षाकृतिरुपनतयक्षामर्त्यसिद्धर्षिलक्षा ॥५॥
त्वममृतरसधाराकम्बुगङ्गाम्बुतारासहचरघनसाराभ्यस्तकान्तिप्रसारा । सरसिजभवदारा भावुकानामुदारा विघटितभवभारा शोभसे निर्विकारा ॥६॥
मसृणचरणपाता मौनिवृन्दानुयाता दृशि पृथुरवदाता भासि मध्ये च शाता ।
जयतु भुवनमाता सृष्टशब्दार्थजाता यदधरमधुपाता स्तौति यामेव धाता ॥७॥
निटिलधृतललामा साधिताशेषकामा हरिहरपुरधामाधिष्ठिता कापि वामा । अवतु कमलदामालङ्कृता सा त्रियामासखशकलधरा मामल्पहासाभिरामा ॥८॥
विलसति कदने या देवसार्थानुनेया विहरति निगमे या धीमतामप्रमेया । स्फुरति कलियुगे या शङ्कराचार्यगेया प्रवणमतिरजे या पातु सा मामजेया ॥९॥
दशकमिति पठन्तः शारदामूर्तिमन्तःकरणमधि वहन्तः सन्ततं हन्त सन्तः । विदधति मतिमन्तः काव्यमानन्दयन्तः सकलजगदनन्तश्रेय उल्लासयन्तः ॥१०॥
मङ्गलाशासनम्
तुङ्गापरिसरागारस्फारशृङ्गारकेलये । श्रीभुजाश्लेषमुग्धाय श्रीनृसिंहाय मङ्गलम् ॥१॥
समस्तदनुजाटोपतमस्ततिविभेदिने । नखेन्दुकान्तिसन्तत्या श्रीनृसिंहाय मङ्गलम् ॥२॥
निगमान्तगुहागर्भप्रतिध्वनितगर्जित । स्वच्छन्दनृहरे तुभ्यं भगवन्नस्तु मङ्गलम् ॥३॥
आडम्बरगृहीतोग्रगदाचक्राय भास्वते । नखमात्रायुधायास्तु श्रीनृसिंहाय मङ्गलम् ॥४॥
सिन्धुकन्यासरोजिन्या द्विरेफायैकबन्धवे । नरकेसरिणे तस्मै सदा भवतु मङ्गलम् ॥५॥
तुङ्गापुलिनसञ्चारक्रीडाकादम्बयोषिते । श्रीमत्यै शारदादेव्यै शश्वद्भवतु मङ्गलम् ॥६॥
शुकपुस्तकरुद्राक्षगुणोज्ज्वलकरे परे । शारदे त्रिजगन्मातस्तुभ्यं भवतु मङ्गलम् ॥७॥
शारदे शङ्कराचार्यसपर्यारसरञ्जिते । दक्षतीर्थजनस्तोमस्तुते मङ्गलमस्तु ते ॥८॥
सभाविद्योतिनी विद्या प्रतिभा प्रतिभारति । प्रकर्षो हृदि हर्षस्य प्रधने भुजयोर्जयः ॥९॥
सम्पन्निकामनिष्कम्पा निलिम्पाभिष्टुतं यशः । दारा गुणगणोदारा नन्दनो नन्दनोज्ज्वलः ॥१०॥
प्राणप्रायाणि मित्राणि ज्ञातयश्च नये स्थिताः । भक्तिरस्खलिता धर्मे नास्तिक्यशमनोद्धुरे ॥११॥
इत्यादि पठतामेतन्मङ्गलाशासनं प्रगे । जायन्ते शारदायाश्च नृसिंहस्य प्रसादतः ॥१२॥