पोरबन्दरपयोनिधिवेलावालुकाविहितशैशवकेलिः ।
शान्तिनौचतुरनाविक एको भूतधात्रि तव कुत्र स पुत्रः ॥१॥
व्याख्या - हे भारतधरित्रि, पोरबन्दरनाम्नि गुर्जरदेशस्थे नगरे वर्तमानस्य सागरस्य तीरे यः स्वबाल्यलीलां प्रकटयति स्म, स शान्तिरूपाया नौकायाश्चतुर एकमात्रश्च नौकाचालको गान्धिमहात्मा त्वदीयः पुत्र इदानीं कुत्र वर्तते? नाविका हि सागरस्य तीरे स्वबाल्यं यापयन्ति, अतः शान्तिनौकानाविकेन गान्धिनाऽपि सागरतीरस्थे पोरबन्दरनगरे स्वबाल्यं यापितमित्यत्र न किमपि चित्रम् ।

राजकोटपुरि वीक्ष्य पुरो यस्ताडनादि कनकस्य किशोरः ।
आददे नियतमन्तरहिंसां भूतधात्रि तव कुत्र स पुत्रः ॥२॥
व्याख्या - गान्धिमहाभागः राजकोटनगरे विद्याभ्यासमकरोत् । राजकोटपुरं तु स्वर्णाभरणनिर्माणकेन्द्रतया प्रसिद्धम् । प्रायस्तत्र स्वर्णेनानुभूतां निघर्षणच्छेदनताप-ताडनादिरूपां हिंसां दृष्ट्वैव किशोरः सन्नेव स निजे मनसि अहिंसाव्रतं प्रथमतया स्वीचकारेत्यत्र उत्प्रेक्ष्यते । हे भारतधरित्रि, एतादृशस्तव पुत्र इदानीं कुत्रास्ति?

यस्य नीतिमतियाति न पन्था याति यस्य पटतामपि कन्था ।
नित्यसत्यवचनैकतनुत्रो भूतधात्रि तव कुत्र स पुत्रः ॥३॥
व्याख्या - हे भारतधरित्रि, यस्य मार्गो नीतिं कदापि नोल्लङ्घते, यस्य कौपीनमेव वस्त्रं भवति, यः शाश्वतेन सत्यव्रतेन कञ्चुकितो वर्तते, तादृशस्तव पुत्रो गान्धी इदानीं कुत्रास्ति? अत्र पन्था, कन्था इत्यत्र प्रासनिवेशनादुन्मीलति शाब्दिकी शोभा ।

स्वीकृताधिकरणस्थितिमादौ धिक्कृताधिकरणस्थितिमन्ते ।
जानते यमखिला अपि लोका भूतधात्रि तव कुत्र स पुत्रः ॥४॥
व्याख्या - हे भारतधरित्रि, यः प्रथमे वयसि अधिकरण-स्थितिमर्थान्न्यायालये वृत्तिं स्वीकृतवान्, अन्तिमे वयसि च अधिक-रण-स्थितिमर्थाद्बहलां युद्धपरिस्थितिं धिक्कृतवान्, यमेतादृशविचित्रचरितञ्च लोको जानाति, तादृशस्तव पुत्रो गान्धी इदानीं कुत्रास्ति? अत्र सभङ्गश्लेषमूलो विरोधाभासोऽलङ्कारः ।

भारतीयपरतन्त्रदशाया दूरदूरमपसारणहेतोः ।
वेत्रदण्डमिव दण्डमधाद्यो भूतधात्रि तव कुत्र स पुत्रः ॥५॥
व्याख्या - हे भारतधरित्रि, यः प्रायशो भारतीयैरनुभूतं पारतन्त्र्यं दूरमपसारयितुं हस्ते दण्डमधारयत्तादृशस्तव पुत्रो गान्धी इदानीं कुत्रास्ति? लोकेऽपि यो यं नेच्छति स तं वेत्रदण्डेन अपसारयति । अत्र दण्डो वेत्रदण्डत्वेनोत्प्रेक्ष्यते ।

सिन्धुसीम्नि लवणोत्करसम्पद्येन तुल्यमधने स्मितशोभा ।
पाण्डरा व्यरचि दिक्षु च कीर्तिर्भूतधात्रि तव कुत्र स पुत्रः ॥६॥
व्याख्या - हे भारतधरित्रि, यः सागरस्य तटे सितवर्णं लवणराशिं, निर्धने जने सितवर्णं स्मितविलासं दिशासु च सितवर्णं यश एककालमेव निर्मितवान् स तव पुत्रो गान्धी इदानीं कुत्रास्ति?
रामनामरुचिरामृतपानाद्व्यक्तमुक्तिरिव मृत्युभयाद्यः ।
पर्यपोषयदुपोषणदीक्षां भूतधात्रि तव कुत्र स पुत्रः ॥७॥
व्याख्या - हे भारतधरित्रि, यो रामनामरूपं सरसममृतं पीत्वा मृत्युभयं त्यक्तवान् अत एव बहूनुपवासान् व्यरचयत्, तादृशस्तव पुत्रो गान्धी कुत्रास्ति? अमृतपानाद्धि मरणभये नष्टे सत्युपवासादितीव्रताचरणमपि सुकरं भवति ।

हा विचेतुमिव साभ्रमती यं प्राप्तरात्रिदिवसा भ्रमतीयम् ।
भावयन्त्यनिमिषानवलोकान् भूतधात्रि तव कुत्र स पुत्रः ॥८॥
व्याख्या - हे भारतधरित्रि, यमन्वेष्टमुत्सुकेव साभ्रमती (साबरमती इति भाषायाम्) नदी अनिमिषान् निमेषरहितान्, मीनानिति श्लेषः, अवलोकानीक्षणानि भावयन्ती कुर्वाणा, मीनानेव ईक्षणानि कुर्वाणा पक्षे ईक्षणानि निमेषरहितानि कुर्वाणा, दिवानिशं भ्रमति, तादृशस्तव पुत्रो गान्धी कुत्रास्ति? अन्विष्यमाणो हि जन: जागरूकैरत एव निमेषरहितलोचनैरन्यैरन्विष्यते । अत्र ‘वसाभ्रमतीयम्’ इत्यस्य वर्णसमूहस्य पौनरुक्त्याद्यमकालङ्कारः ।

ध्वान्तभाजनमजायत कारा वैपरीत्यकलनादिव राका ।
यस्य बन्धनजुषो जनभूत्यै भूतधात्रि तव कुत्र स पुत्रः ॥९॥
व्याख्या - हे भारतधरित्रि, यः स्वदेशीयजनस्य कल्याणाय बन्धनमपि सहते स्म अत एव हेतोर्यस्यान्धकारभरितापि कारा विपरीता भूत्वा राका, अर्थात्पूर्णिमा रात्रिरभवत्तादृशस्तव पुत्रो गान्धी कुत्रास्ति? कारा इत्यसौ शब्दो विपरीततया पठितो राका इति भवति ।

माधवेन हतजातिमहिम्ना येन देवकुलकाननवीथ्याम् ।
पञ्चमध्वनिरनायि विकासं भूतधात्रि तव कुत्र स पुत्रः ॥१०॥
व्याख्या - हे भारतधरित्रि, दूरीकृतचातुर्वर्ण्यव्यवस्थापारम्येण पक्षे अपगतजातिपुष्पगौरवेण (जातिपुष्पं वसन्ते न विकसति इति कविसमयः) अत एव श्लेषबलाद्वसन्तसदृशेन येन देवमन्दिररूपासु काननस्थलीषु पञ्चमानां दलितवर्गीयाणां जनानां ध्वनिः पक्षे कोकिलानां पञ्चमाभिधो रवो (वसन्ते कोकिलानां पञ्चमध्वनिः श्रूयत इत्यपि कविसमयः) विकासं नीतस्तादृशस्तव पुत्रो गान्धी कुत्रास्ति? गान्धिमहोदयस्य परिश्रमादेव हरिजनानां देवमन्दिरप्रवेशः समजनीत्ययं भारतस्वातन्त्र्येतिहासप्रसिद्धो विषयः ।

वीतहेतिरमलीमसवर्त्मा सर्वभूतपरिवारहितैषी ।
म्लेच्छकाननविचित्रदवाग्निर्भूतधात्रि तव कुत्र स पुत्रः ॥११॥
व्यख्या - हे भारतधरित्रि, य आङ्ग्लसाम्राज्यरूपस्य वनस्य विनाशकृद्दावाग्निरासीत्तादृशस्तव पुत्रो गान्धी कुत्रास्ति? कीदृशो दावाग्निर्विचित्रः । कस्मात्? यतः स वीतहेतिर्ज्वालारहितः (दावाग्निस्तु ज्वालसहितो भवति) परत्र शस्त्रास्त्ररहितः (अहिंसापारम्यात्), अमलीमसवर्त्मा शुद्धपथः (दावाग्निस्तु धूममलिनपथः कृष्णवर्त्मेत्युच्यते), सर्वेषां भूतानां प्राणिनां हितैषी (दावाग्निस्तु सर्वप्राणिहिंसकः) आसीत् ।

पर्यवर्तयत चक्रमवक्रो भाग्यचक्रमपि यो जनतायाः ।
स्याद्यथा चिरसुखादिसमृद्धिर्भूतधात्रि तव कुत्र स पुत्रः ॥१२॥
व्याख्या - हे भारतधरित्रि, सरलस्वभावो यः केवलं चक्रं (चरखाभिधानं खादिवस्त्रोत्पादकं चक्ररूपं यन्त्रम्) एव न किन्तु स्वदेशीयानां भाग्यचक्रमपि परिवर्तयते स्म तादृशस्तव पुत्रो गान्धी कुत्रास्ति? पुनः किमर्थं चक्रभाग्यचक्रयोः परिवर्तनम्? यतः सुखादिसमृद्धिर्भवेत्, सौख्यादिसमृद्धये पक्षे शोभनखादिवस्त्रसमृद्धये च इति सभङ्गश्लेषः ।

चक्रबन्धुरतिरोहितरोचिःस्पष्टधौतहरिदम्बरभागः ।
यश्चरिष्णुरिव भारतकेतुर्भूतधात्रि तव कुत्र स पुत्रः ॥१३॥
व्याख्या - हे भारतधरित्रि, यो जङ्गमो भारतध्वज इव वर्तते तादृशस्तव पुत्रो गान्धी कुत्रास्ति? किमर्थं जङ्गमो भारतध्वज इति उत्प्रेक्ष्यते? यतः भारतध्वज इव सोऽपि चक्रबन्धुः - ध्वजश्चक्राङ्कितो गान्धी तु खादिवस्त्रोत्पादकचक्रयन्त्रसहितः । एवमेव भारतध्वजः अति-रोहितरोचिषा अत्यन्तं रक्तवर्णेन, स्पष्टधौतेन स्पष्टतया शुभ्रेण, हरिता, हरिद्वर्णेन च अम्बरभागेन, वस्त्रभागेन युक्तो वर्तते, भङ्ग्यन्तरेण कथयामश्चेद्भारतध्वजो रक्तश्वेतहरिद्वर्णमयवस्त्रभागरचितश्चक्रलाञ्छितश्च । गान्धिमाहाभागोऽपि अ-तिरोहितरोचिषा अतिरस्कृतया निजकान्त्या स्पष्टं धौतहरिदम्बरभागः प्रकटं स्वच्छीकृतदिगाकाशभागः, निजप्रभाशुद्धीकृतभुवन इति यावत् । अत्र पद्ये श्लेषबलाद्गान्धिभारतध्वजयोः साम्यं साधितम् ।

जजाप यो रघुसुतनाम भावकस्तुषारजिल्ललितयशा अनारतम् ।
अजापयो लघु सुतरामसेवत स्तुवे रणोल्लसितनृशातनाय तम् ॥१४॥
व्याख्या - यः भावुकः अर्थाद्भक्तः सन् रामस्य नाम अजपत्, यो नित्यं हिमाधिकधवलकीर्तिरस्ति, यश्च लाघवगुणसमन्वितं अजादुग्धमधिकं सेवितवान्, तं गान्धिमहोदयं युद्धपिपासुजनकृशीभावाय स्तौमि । अत्र गोमूत्रिकाख्यश्चित्रबन्धो विद्यते ।