०५ तृतीयम् आधानम्


भास्करोक्त-विनियोगः

11-13तृतीयम् आ-दधानस्य स्रुवाहुतिमन्त्राः - लेक इत्यादयः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

लेक॒स् सले॑कस् सु॒लेक॒स् ते +++(आदित्याः)+++
न॑ आदि॒त्या आज्य॑ञ् जुषा॒णा वि॑यन्तु+++(=पिबन्तु)+++ ।

सर्वाष् टीकाः ...{Loading}...

Keith

Leka, Salekha, Sulekha, may these Adityas rejoicing partake of our oblation;

मूलम्

लेक॒स्सले॑कस्सु॒लेक॒स्ते न॑ आदि॒त्या आज्य॑ञ्जुषा॒णा वि॑यन्तु ।

भट्टभास्कर-टीका

द्विपदा विच्छन्दसः, यजूंषि वा । एते लेकादयो नवादित्याः नः अस्माकमिदं आज्यं जुषाणाः प्रीणानाः वियन्तु पिबन्तु ।

लेकतिर् दर्शनकर्मा । सर्वैर्दृश्यते इति लेकः; द्रष्टव्यो वा । दर्शनेन प्रकाशात्मकेन सह वर्तते इति सलेकः । शोभनदर्शनस्सुलेकः । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

केत॒स् सके॑तस् सु॒केत॒स् ते
न॑ आदि॒त्या आज्य॑ञ् जुषा॒णा वि॑यन्तु+++(=पिबन्तु)+++।

सर्वाष् टीकाः ...{Loading}...

Keith

Keta, Saketa, Suketa, may these Adityas rejoicing partake of our oblation;

मूलम्

केत॒स्सके॑तस्सु॒केत॒स्ते न॑ आदि॒त्या आज्य॑ञ्जुषा॒णा वि॑यन्तु।

भट्टभास्कर-टीका

कित ज्ञाने, सर्वैर्ज्ञायते इति केतः सर्वैरुपासनीयः । सकेतसुकेतौ गतौ ।

विश्वास-प्रस्तुतिः ...{Loading}...

विव॑स्वा॒ꣳ॒ अदि॑ति॒र् देव॑जूति॒स् ते
न॑ आदि॒त्या आज्य॑ञ् जुषा॒णा वि॑यन्तु+++(=पिबन्तु)+++ ॥ [12]

सर्वाष् टीकाः ...{Loading}...

Keith

Vivasvan, Aditi, Devajuti, may these Adityas rejoicing partake of our oblation.

मूलम्

विव॑स्वा॒ꣳ॒ अदि॑ति॒र्देव॑जूति॒स्ते न॑ आदि॒त्या आज्य॑ञ्जुषा॒णा वि॑यन्तु ॥ [12]

भट्टभास्कर-टीका

विवस्वान् दीप्तिमान् धनवान्वा । अदितिः अखण्डनीयः केनापि । देवजूतिः देवानामपि गतिः, देवैर्वा गन्तव्यः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । इदं तृतीयाधेयमग्न्याधेयमुपश्रयतीत्येके । पुनराधेयमित्यन्ये ॥