०४ अभितः पुरोडाशम्


भास्करोक्त-विनियोगः

9अभितः पुरोडाशम् आहुतीर् जुहोति पुरस्ताद् उपरिष्टाच् च - पनर् ऊर्जेति द्वाभ्यां गायत्रीभ्याम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

पुन॑र् ऊ॒र्जा नि व॑र्तस्व॒
पुन॑र् अग्न इ॒षा ऽऽयु॑षा ।
पुन॑र् नᳶ पाहि वि॒श्वतः॑ +++(अंशसः इति कौथुमे)+++ ॥

सर्वाष् टीकाः ...{Loading}...

Keith

Return with strength, return,
O Agni, with food and life;
Again guard us on all sides.

मूलम्

पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा ।
पुन॑र्नᳶ पाहि वि॒श्वतः॑ ॥

भट्टभास्कर-टीका

हे अग्ने ऊर्जा रसेन क्षीरादिना अस्मभ्यं देयेन सह निवर्तस्व पुनरुद्वासितोहमिति सञ्जातमन्युर्वा मय्युपेक्षां मा कार्षीः । इषा अन्नेन आयुषा च सह पुनार्निवर्तस्वेत्येव । उद्वासननिमित्ताच्च पापाद्विश्वतोस्मान्पुनः पाहि रक्ष ॥


भास्करोक्त-विनियोगः

10द्वितीया -

विश्वास-प्रस्तुतिः ...{Loading}...

स॒ह र॒य्या+++(←उदात्तयणः इति स्वरः)+++ नि व॑र्त॒स्व
+अग्ने॒ पिन्व॑स्व॒ धार॑या ।
वि॒श्व-फ्स्नि॑या+++(←प्सा भक्षणि)+++ वि॒श्वत॒स्-परि॑ ॥

सर्वाष् टीकाः ...{Loading}...

Keith

Return with wealth, O Agni,
Fatten with the stream,
All gaining on every side.

मूलम्

स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या ।
वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॑ ॥

भट्टभास्कर-टीका

हे अग्ने रय्या धनेन सह निवर्तस्व । ‘उदात्तयणः’ इति तृतीयाया उदात्तत्वम् । धारया ऽनयाहुत्या एतद् आहुति-हेतुकया वा वर्षधारया विश्वतस्परि विश्वस्य रक्षणीयस्य तृण-धान्य-लता-पादपादेर् मूर्ध्नि पिन्वस्व सिञ्च । पिवि सेचने; इदित्त्वान्नुम् । ‘पञ्चम्याः परावध्यर्थे’ इति संहितायां सत्वम् ।

धारा विशेष्यते - विश्वप्स्न्याप्सा भक्षणे । विश्वेन प्सानीया भक्षणीया विश्वं वा प्साति भक्षयति व्याप्नोतीति विश्वप्स्न् । ‘श्वन्नुक्षन्’ इत्यादौ कनिन्प्रत्ययान्तो निपात्यते निपातनसामर्थ्यादभीष्टस्वरसिद्धिः । ‘ऋन्नेभ्यः’ इति ङीप् ॥