०३ उपस्थानम्


भास्करोक्त-विनियोगः

7अग्निहोत्रमन्त्राव् उपस्थानार्थौ - तत्र प्रथमा मन इति विराट् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

मनो॒ ज्योति॑र् जुषता॒म्, आज्य॒व्ँ
विच्छि॑न्नय्ँ य॒ज्ञꣳ सम् इ॒मन् द॑धातु
बृह॒स्पति॑स् तनुताम् इ॒मन् नो॒,
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम्

मनो ज्योतिर् ...{Loading}...
Keith

Mind, light, rejoice in the oblation.
May be unite this scattered sacrifice;
May Brhaspati extend it;
May the All-gods rejoice herein.

मूलम्

मनो॒ ज्योति॑र्जुषता॒माज्य॒व्ँविच्छि॑न्नय्ँय॒ज्ञꣳ समि॒मन्द॑धातु ।
बृह॒स्पति॑स्तनुतामि॒मन्नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥

भट्टभास्कर-टीका

हे अग्ने तव ज्योतिः कीदृशं मननीयम् ।

यद्वा - मनश् शेषमुद्वासितेन पीडितं यन् मननीयम् एवासीत्
नान्यत्वे[त्र]विद्यते तद् इदम् आज्यं जुषतां सेवतां अनेन कर्मणा पूर्ववत्समृद्धमस्तु ।

यद्वा - मनस् सदा मननीयं मनोहरं अग्न्याख्यं ज्योतिः उद्वासनापराधं चेतस्य् अकृत्वा जुषताम् आज्यम् इति । ततो विच्छिन्नम् उद्वासने तव यज्ञम् इमं सन्दधातु

बृहस्पतिश्च नः अस्माकमिमं यज्ञं तनुतां विश्वे देवाश्च इहास्मिन्कर्मणि मादयन्तां मोद(य)न्ताम् । मद तृप्तियोगे चुरादिः । बृहस्पतिशब्दश्च पारस्करादिः, वनस्पत्यादिश्च । तेन सुडागमः, पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं च ॥


भास्करोक्त-विनियोगः

8द्वितीया - सप्त त इति त्रिष्टुप्॥

विश्वास-प्रस्तुतिः ...{Loading}...

स॒प्त ते॑ अग्ने स॒मिध॑स्, स॒प्त जि॒ह्वास्
स॒प्त [11] ऋष॑यस्, स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्राः᳚, सप्त॒धा त्वा॑ यजन्ति,
स॒प्त योनी॒र् आ पृ॑णस्वा घृ॒तेन॑

सर्वाष् टीकाः ...{Loading}...

Keith

Seven are thy kindling-sticks, O Agni, seven thy tongues;
Seven seers [2], seven dear abodes,
Seven priesthoods sevenfold sacrifice to thee;
Seven birthplaces with ghee do thou fill.

मूलम्

स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वास्स॒प्त [11] ऋष॑यस्स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्राः᳚ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ॥

भट्टभास्कर-टीका

हे अग्ने तव प्रियाणि सप्त धामानि स्थानानि भूरादयो लोकाः । ‘सुपां सुलुक्’ इति धाम्नो जसो लुक् । तेषु सप्तसु धामसु तव सप्त समिधः सम्यगिद्धास्तनवः । सप्त जिह्वा ज्याला याभिस्सप्तसु रसनास्वदनाय स्वादयसि सप्त ऋषयः दर्शयित्र्यः प्रकाशशक्तयः । यद्वा - सप्तर्षयो मन्त्राः सप्त धिष्ण्यविषयाः । सप्त होत्राः होत्रादयो वषट्-कर्तारः । ते त्वामेकं सप्तधा यजन्ति । स त्वं तथेष्टः सप्त योनीः स्थानानि भूरादीनि सप्त कारणानि घृतेनाज्येन उदकेन वा फलभूतेन आपृणस्व आप्रीणय । पृण प्रीणने ॥

सायण-टीका

पाठस्तु— २१९४ सप्त ते अग्न इति।
हेऽग्ने तव समिधः सप्तसंख्या अश्वत्थोदुम्बर-पलाश-शमी-विकङ्कताशनिहत-वृक्ष–पुष्कर-पर्ण-रूपाः।
अत एव सूत्रकार आधानप्रकरणे सप्त संभारान्समन्त्रकाननुक्रम्येति वानस्पत्या इत्युपसंजहार।
ज्वालारूपा जिह वाश्च सप्त।
तथा चाऽऽथर्वणिका आमनन्ति—
“काली कराली च मनेजवा च सुलोहिता या च सुधूभ्रवर्णा।
स्फुलिङ्किनी विश्वरुची च देवी लेलायमना इति सप्त जिह्वाः” इति।
ऋषयो मन्त्राः।
ते च यथेत्क्तसमित्संपादनार्थाः सप्तसंख्याकाः
“अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः” इत्बादयः समाम्नाताः।
प्रियाणि धामः स्थानानि, आहवनीयगार्हपत्यदक्षिणग्निसभ्यावसथ्यप्राजहिताग्नीघ्रीयाख्यानि सोमयाने वह्रिधारंकाणि सप्तसंख्याकानि।
होत्रा होतृप्रमुखा वषट्कर्तारो होता प्रशास्ता ब्राह्मणच्छंसी पोता नेष्टाऽऽग्नीघ्रोऽच्छावकश्चेति सप्तसंख्याकाः।
त्वां यजमानाः सप्तधा यजन्ति। अग्निष्टोमोऽत्यग्निष्टेम उक्थ्यः षोडश्यतिरात्रोऽप्नोर्यामो वाजपेयश्चेति सप्त प्रकाराः।
तादृशस्त्वं सप्त योनीराहवनीयादि ( द्युत्पति ) स्थानानि घृतेन सर्वतः पूरय।