०२ आहवनीयम्


भास्करोक्त-विनियोगः

4आहवनीये तिस्रोनुवर्तयति । तत्र प्रथमा - अस्येति गायत्री ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य +++(विषूव-सूर्यात्मनो ऽग्नेः)+++ प्रा॒णाद् अ॑पान॒त्य्,
+++(वृषभराशेर्)+++ अ॑न्तश् च॑रति रोच॒ना+++(→ रोहिणी दीप्तिर् वा)+++ ।
व्य॑ख्यन्+++(=प्राकाशयन्)+++ महि॒षस् +++(वृषभराशौ सूर्यः, भुव्य् अग्निः)+++ सुवः॑ +++(→दिव॑म् इति शाकले)+++ ॥

सर्वाष् टीकाः ...{Loading}...

Keith

With her inspiration from his expiration,
She wandereth between the worlds;
The bull discerneth the heaven.

मूलम्

अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना ।
व्य॑ख्यन्महि॒षस्सुवः॑ ॥

भट्टभास्कर-टीका

अपानतीति प्रथमपादान्तः । अस्याग्नेः रोचना दीप्तिः रोचनशीला । ‘अनुदात्तेतश्च’ इति युच् । अन्तश् शरीरेषु चरति । किं कुर्वती प्राणात् प्राणनव्यापारात् अनन्तरम् अपानती अपाननव्यापारं कुर्वती । जीवानां ऊर्ध्वगमनं प्राणनं, अधोगमनम् अपाननम् । जीवश्श्वासवायुः ।

किञ्च - महिषः महति शरीरे सीदति । ‘सदिरप्रतेः’ इति षत्वम् । अन्त्यविकारश्छान्दसः ।
यद्वा - महतेष्टिषचि लिङ्गव्यत्ययः । महनीया सुवः शोभना रोचना व्यख्यत् विचष्टे प्रकाशते जीवानामन्तः । छान्दसौ लुङ् । ‘अस्यतिवक्ति’ इत्यादिनाङ् । ‘उदात्तस्वीरतयोः’ इति संहितायामडागमः स्वर्यते ।

अन्य आहुः - अस्याग्नेः सुवः आदित्यात्मिका रोचना दीप्तिः प्राणादुदयात् अपानती अस्तं गच्छन्ती अन्तः द्यावापृथिव्योर् मध्ये चरति । महत्यन्तरिक्षे सीदति । व्यख्यत् प्रकाशयति च द्यावापृथिव्यौ । एवं महानुभावं त्वामादधामीति ॥


भास्करोक्त-विनियोगः

5द्वितीया - यत्त्वेत्यनुष्टुप् ।

विश्वास-प्रस्तुतिः ...{Loading}...

यत् त्वा᳚ [10] क्रु॒द्धᳶ प॑रो॒वप॑+++(=उद्वासितवान् अस्मि)+++,
म॒न्युना॒ यद् अव॑र्त्या ।
सु॒कल्प॑म् अग्ने॒ तत् तव॒,
+++(यतः पुनराधाने)+++ पुन॒स् त्वोद्दी॑पयामसि

सर्वाष् टीकाः ...{Loading}...

Keith

If thee [1] in anger I have scattered,
In rage or through misfortune,
That of thee, O Agni, be in good order,
Again thee we relight.

मूलम्

यत्त्वा᳚ [10] क्रु॒द्धᳶ प॑रो॒वप॑ ..
म॒न्युना॒ यद् अव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ ..
पुन॒स्त्वोद्दी॑पयामसि ॥

भट्टभास्कर-टीका

तवेति तृतीयपादान्तः ॥ यत् येन कारणेन ऋद्ध्यभावेन क्रुद्धो ऽहं त्वामपि परोवप परोप्तवान् उद्वासितवानस्मि । ‘णलुत्तमो वा’ इति णित्त्वाभावः । ‘यद्वृत्तान्नित्यम्’ इति निघाताभावे ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम्, समासश्च । लिति प्रत्ययात्पूर्वस्योदात्तत्वम् ।

मन्युना शोकेन परीतो ऽहम् अवर्त्या दारिद्र्येण पाप्मना वा यत्त्वां परोवप विनाशितवान् हे अग्ने तदपि तव प्रसादात् सुकल्पं शोभनकृतिकमेव भवति । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । ‘युष्मदस्मदोर्ङसि’ इति तवशब्द आद्युदात्तः । अतस्त्वां पूर्ववदेवोद्दीपयामसि उद्वपामः । ‘इदन्तो मसि’ ॥


भास्करोक्त-विनियोगः

6अथ तृतीया - यत्त इत्यनुष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते॑ म॒न्यु-प॑रोप्तस्य
पृथि॒वीम् अनु॑ दध्व॒से+++(←ध्वस्)+++ ।
आ॒दि॒त्या विश्वे॒ तद् दे॒वा
वस॑वश् च स॒माभ॑रन्न्

सर्वाष् टीकाः ...{Loading}...

Keith

Whatever of thee scattered in rage
Was spread over the earth,
That the Adityas, the All-gods
And the Vasus gathered together.

मूलम्

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑ दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥

भट्टभास्कर-टीका

ते तव मन्युपरोप्तस्य मन्युना हेतुना मयोद्वासितस्य । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यत् तेजः पृथिवीम् अनुदध्वसे ध्वस्तं पृथिवीम् अनुप्रविश्य वा नष्टं बभूव तदादित्या विश्वे देवा वसवश्च समाभरन् समाभरन्तु । ‘हृग्रहोः’ इति भत्वम् ॥