०१ गार्हपत्यम्

भास्करोक्त-विनियोगः

1अथ पुनराधेयमन्त्राः । तत्र गार्हपत्य आधीयमाने सर्पराज्ञीस्तिस्रोनुवर्तयति - भूमिर्भूम्नेति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

भूमि॑र् भू॒म्ना+++(=बहुत्वेन)+++, द्यौर् व॑रि॒णा+++(=उरुत्वेन)+++,
ऽन्तरि॑ख्षम् महि॒त्वा +++(असि)+++।
+++(पुरा वृषभराशौ खे यथा)+++ उ॒पस्थे॑ ते देव्य् अदिते॒
+++(सूर्यः खे यथा)+++ ऽग्निम् अ॑न्ना॒दम् अ॒न्नाद्या॒या+++(=अन्नाद-हिताय)+++ ऽऽद॑धे

सर्वाष् टीकाः ...{Loading}...

Keith

(Thou art) earth in depth, sky in breadth, atmosphere in greatness;
In thy lap, O goddess Aditi, Agni
I place, food-eater for the eating of food.

मूलम्

भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑ख्षम्महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒दम॒न्नाद्या॒याऽऽद॑धे ॥

भट्टभास्कर-टीका

प्रथमोपरिष्टाद्भृहती, अन्त्यस्य पादस्य द्वादशाक्षरत्वात् । हे देवि अदिते अखाण्डिते भूमे । आहवनीयो भूमित्वेन स्तूयते । भूम्ना बहुत्वेन विपुलत्वेन त्वं भूमिरेवासि । द्यौर् असि त्वं वरिणा उरुत्वेन । ताद्धर्म्यात्ताच्छब्द्यम् । अ[म?]कारलोपश्छान्दसः । अन्तरिक्षमसि माहित्वा माहात्म्येन । व्यञ्जनविपर्ययः । सर्वत्रोदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । महित्वशब्दात्तृतीयाया आकारो वा । अत्र तवोपस्थे उत्सङ्गे गार्हपत्यात्मनि अग्निमन्नादमन्नस्य हविषोत्तारं अन्नाद्याय अन्नादनसामर्थ्यात्मिकायै ऋद्ध्यै आदधे स्थापयामि । पचाद्यचि अन्नादः । इतरत्र छान्दसो भावे यत् । ‘लघावन्ते’ इति मध्योदात्त उपस्थशब्दः । मरुद्वृधादित्वाद्वा ॥


भास्करोक्त-विनियोगः

2द्वितीया - आयमिति गायत्री ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आ ऽयं गौः+++(→गमनशीलो अग्निस् सूर्यो वा, पुरा वृषभराशिस्थः)+++ पृश्नि॑र् अक्रमी॒द्
अस॑दन् +++(→असदत् इति शाकले)+++ मा॒तरं॑ +++(भूमिं, खे रोहिणीं च)+++ पु॒रः ।
पि॒तरं॑ +++(द्यौः)+++ च, प्र॒-यन्त् सुवः॑+++(→स्वः॑ इति शाकले)+++ ॥

सर्वाष् टीकाः ...{Loading}...

Keith

The spotted bull hath come
And reached again the mother

And the father, faring to the heaven.

मूलम्

आऽयङ्गौᳶ पृश्ञि॑रक्रमी॒दस॑नन्मा॒तर॒म्पुनः॑ ।
पि॒तर॑ञ्च प्र॒यन्थ्सुवः॑ ॥

भट्टभास्कर-टीका

इदानीमादित्यात्मना स्तूयते - अयम् अग्निः गौर् आदित्यात्मा गच्छतीति गौः गमनशीलः पृश्निः शुक्लवर्णः आदित्यानामे[मै]व वा । आक्रमीत् अयमेवादित्यात्मना विश्वम् आक्रामतीति ।

प्रकर्षेणाविच्छेदेन गच्छन् सुवः शोभना रतिः । छान्दसौ लुङ्लङौ ।

आक्रम्य च मातरं भूमिम् असनत् भूमौ मातरि शान्तोभूत् । पितरं दिवं प्रयन् प्रकर्षेण गच्छन् सर्वतो ज्वलन् धूमज्वालाभ्यामभ्रं लिहन् सुवः पितृस्थानीये दिवि स्वरतिरभूत् ॥


भास्करोक्त-विनियोगः

3तृतीया - त्रिंशदिति गायत्री ॥

विश्वास-प्रस्तुतिः ...{Loading}...

+++(दिने मुहूर्ता, मासे दिनानि वा)+++
त्रि॒ꣳ॒शद् धाम॒ वि रा॑जति॒ +++(आदित्यात्मा ऽग्निः)+++,
+++(रोहिणी स्तुतिर् वा)+++ वाक् +++(सूर्य-)+++प॑त॒ङ्-गाय॑ शिश्रिये+++(→धीयते इति शाकले)+++ ।
प्रत्य्+++(कूलम्)+++ अ॑स्य वह॒ द्युभिः ॥

सर्वाष् टीकाः ...{Loading}...

Keith

Thirty places be ruleth;
Speech resorteth to the bird
Bear it with the days.

मूलम्

त्रि॒ꣳ॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒ द्युभिः ॥

भट्टभास्कर-टीका

त्रिंशद् धामानि स्थानानि विराजति प्रकाशवद् भवति । उभयत्रापि वचनव्यत्ययः । त्रिंशन् मुहूर्ता उच्यन्ते । [पञ्चदशाह्नः]पञ्चदश रात्रेः ।

तेषु वाक् शिश्रिये सिषेवे आश्रिता पतङ्गाय पतङ्गः आदित्यः । यथा ‘ऋग्भिः पूर्वाह्णे दिवि देव इर्यते’ इति या स्तुतिलक्षणा वाक् तेषु सर्वेष्वपि मुर्हूर्तेषु पतङ्गं श्रिता । कर्मणि चतुर्थी ।

तस्मात्तादृशः महानुभावः आदित्यात्मा त्वं प्रत्यस्य प्रति-कूलं यत्प्रकृतं तवोद्वासनं तद् अस्य विसृज बुद्धौ मा कृथाः । ‘ससाधनां क्रियामुपसर्ग आह’ इति प्रतिशब्देन प्रतिकूलमुच्यते । ततः प्रसन्नो भूत्वा वह हवींष्यस्माकं द्युभिः दिनेदिने । अधिकरणानां साधकतमत्वविवक्षया तृतीया; यथा ‘स्थाल्या पचति’ इति । ‘ऊडिदम्’ इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘दिवो झल्’ इति प्रतिषेधः । अस्मिन्व्याख्याने तिङः परत्वाद्वहेत्यस्य निघातो दुर्लभस्स्यात् । अथ ब्रूमः - एवं महातेजाः पतङ्गः अस्य प्रतिवह प्रतिरूपतया वर्तस्व द्युभिः तेजोभिः । अन्वादेशत्वादस्येति सर्वानुदात्तः ॥