एवं स्नानकर्म कर्तुमशक्तः तूष्णीं स्नानकर्म करिष्य इति सङ्कल्प्य सर्वाङ्गवपनं कारयित्वा स्नात्वा मौञ्जीं विस्रस्य ब्रह्मचारिणे दत्वा पुण्यनद्यादौ तीर्थे स्नात्वा दन्तधावनाद्युत्तरीयधारणान्तममन्त्रकं कृत्वा अग्निं प्रतिष्ठाप्य परिस्तीर्य परिषिच्य प्रजापतिं मनसा ध्यायन् पालाशीं समिधं तूष्णीमाग्नावाधाय परिषिच्य कुण्डलधारणादीनि सर्वाणि अमन्त्रकं कुर्यात् ॥