उल्लेखनादि
यत्र अग्नि-स्थापनं
तत्र उदग्-अपवर्गं प्राचीः,
प्राग्-अपवर्गम् उदीचीः
तिस्रो रेखा दर्भादिना लिखित्वा
तत्र न्यस्य
अद्भिर् अवोक्ष्य
दर्भादिकं नैर्ऋत्यां निरस्य
अप उपस्पृश्य
(अप उपस्पर्शने सूत्रं -
रौद्र-राक्षस-नैरृत-पैतृक–
छेदन-भेदन-निरसन-प्रत्यभिमर्शनानि कृत्वाऽप उपस्पृशेत् ।)
अग्नि-स्थापनादि
तत्राग्निं प्रतिष्ठाप्य
याज्ञियैर् इन्धनैः प्रज्वाल्य
परिसमूह्य
अवोक्षण-शेषं प्राग् उदग् वा उत्सृज्य
अन्यज् जलं पात्रे प्राग् उदग् वा
यथा परिस्तरणात् बहिस् स्यात्
तथा निधाय
परिस्तरणादि
प्राग्-उदग्-अग्रान् षोडश दर्भान्
अग्नेः प्राग् आरभ्य
प्रदक्षिणं परिस्तीर्य
दक्षिणान् उत्तरान्
उत्तरान् अधरान् कृत्वा
पात्र-सादनम्
अग्नेः उत्तरतो दर्भान् संस्तीर्य
दर्व्य्-आज्य-स्थाल्यौ
तत्-पुरस्तात् प्रोक्षणी-पात्र–प्रणीति-पात्रे
तत्-पुरस्ताद्
अरत्नि-मात्रं परिधि-त्रयं,
प्रादेश-मात्राः सप्त-दश-समिधश् च
दर्भैः सन्नह्य
इध्मापर-दर्व्यौ द्वन्द्वम् अवाञ्चि सादयेत्।
(इध्मस्य अवाख्-सादनम्
इध्म-सन्नहन-ग्रन्थेर् अधस्तात् सादनमेव । +++(4)+++)
[[8]]
+++(कर्म-विशेषापेक्षितान्)+++ शलली-मौञ्जी-लाजादींश् च सर्वान्
युगपद् एव
देव-पात्रोत्तरतः सादयेत् ।
पवित्रम्
समाव् अ-प्रच्छिन्नाग्रौ प्रादेश-मात्रौ दर्भौ
काष्ठादिना छित्वा
अप उपस्पृश्य
मूलाद् आरभ्य
अग्राद् अद्भिर् उन्मज्य
पवित्रे कृत्वा
प्रोक्षणी-पूरणादि
अग्नेः पश्चात् प्रोक्षणीपात्रे निधाय
तस्मिन्न् अप आनीय
उत्तानयोः उदक्-प्राग्-अग्रयोः दक्षिण-वामयोः पाण्योः
अङ्गुष्ठानामिकाभ्यां पवित्र-मूलाग्रे गृहीत्वा
प्राग्-अपवर्गं त्रिर् उत्पूय
पात्राण्य् उत्तानानि कृत्वा
विस्रस्य इध्मं
सर्वाभिस् ताभिः अद्भिः पवित्र-पाणिः त्रिः प्रोक्ष्य
प्रणीता-पूरणादि
सपवित्रे प्रणीति-पात्रे ऽप आनीय
पूर्ववद् उत्पूय
हस्ताभ्यां घ्राण-समम् उद्धृत्य
पात्रसादनाद् परिस्तरणाद् उत्तरतः (परिस्तरण–पात्र-सादनयोर् मध्ये)
दर्भेषु सादयित्वा
दर्भैः प्रच्छाद्य
अग्नेर् दक्षिणतो दर्भेषु ब्राह्मणं निषाद्य
आज्य-संस्कारः
विलीनम् अप्य् आज्यं
होमार्थे ऽग्नौ विलाप्य
अग्नेः पश्चात्
सपवित्रायाम् आज्य-स्थाल्याम् आज्यं निरूप्य
परिस्तरण-पात्र-सादनयोर् मध्ये अङ्गारान् निरूह्य
तेष्व् अधिश्रित्य
ज्वलता दर्भेण उल्मुकेन वा
आज्यम् अवद्योत्य
द्वे दर्भाग्रे काष्ठादिना छित्वा
ऽप उपस्पृश्य
युगपद् आज्ये प्रत्यस्य
प्राग्-आदि प्रदक्षिणं
त्रिः पर्यग्नि कृत्वा
उदग् उद्वास्य
अङ्गारान् प्रत्यूह्य
आज्य-स्थालीं स्वस्य पुरस्तान् निधाय
पूर्ववत् पवित्रे गृहीत्वा
प्राग् आरभ्य
पुनः पुनर् आहृत्य
त्रिर् उत्पूय
पवित्रं विस्रस्य
अद्भिः संस्पृश्य
युगपद् अग्नौ प्रहृत्य
दर्व्यौ अग्नौ प्रतितप्य
दर्भैः सम्मृज्य
पुनः प्रतितप्य
प्रोक्ष्य, निधाय
दर्भान् अद्भिः संस्पृश्य
अग्नौ प्रहृत्य
परिधिः
पुंसुवनोपाकर्म-व्रत–गृह-प्रवेशेषु चरु-कर्मसु च
परिधीन् परिदध्यात् ।
अन्यत्र सीमन्तादिषु
पलाश-खादिरादीनाम् अन्यतमेन कृतान्
परिधि-स्थौल्यायामान् शम्याख्यान् युग-कीलान् परिदधाति ।
तत्र स्थूलम् उदग्-अग्रं पश्चात्,
अणु-दीर्घं दक्षिणतः,
अणु-ह्रस्वम् उत्तरतः
परिस्तरणोपरि अन्योन्य-संस्पृष्टान् निधाय
मध्यमं परिधिम् उपस्पृश्य
अग्नेर् दक्षिण-पूर्व-+उत्तर-पूर्वयोर् आघार-समिधौ
ऊर्ध्वे क्रमात् निधाय
परिषेचनादि
सव्येन पात्रं स्पृशन्
दक्षिणेन हस्तेन परिध्य्-अन्तः परिस्तरणोपरि
अदितेनुमन्यस् इति दक्षिणतः प्राग्-अपवर्गम्,
अनुमतेनुमन्यस्वेति पश्चाद् उदग्-अपवर्गं,
सरस्वतेनुमन्यस्वेति उत्तरतः प्राग्-अपवर्गं
“देव सवितः प्रसुवे"ति प्राग् आरभ्य प्रदक्षिणं अग्निं परिषिच्य
[[9]]
अग्निम् अलङ्कृत्य
इध्माधानम्
आज्याभ्यक्तम् इध्म
मूल-मध्ययोर् मध्यं मृग-मुद्रया गृहीत्वा
ब्राह्मणानुज्ञया
प्रजापतिं स्मरन्
अग्नाव् आधाय
अप उपस्पृश्य
कराभ्याम् इध्म-मूलं परामृश्य
आघारः
सव्येनाज्य-स्थालीं स्पृशन्
उत्तरं परिधि-सन्धिम् आरभ्य
आग्नेयान्तम् उपदर्व्या
दक्षिणं सन्धिम् आरभ्यैशानान्तं प्रधान-दर्व्या ऽऽज्येन
दीर्घ-धारया सर्वाणि इध्म-काष्ठानि संस्पर्शयन्
स्वाहा-कार-वर्जम् आघार-होमौ जुहुयात् ।
पूर्वस्य प्रजापतिः,
उत्तरस्य इन्द्रो देवता ।
आज्य-भागादि
अथ ‘अग्नये स्वाहा’ इत्युत्तरार्ध-पूर्वार्धे,
‘सोमाय स्वाहा’ इति दक्षिणार्ध-पूर्वार्धे च
आज्यभागौ जुहुयात् ।
व्रतादिषु ‘अग्नये स्वाहे’ति
पुनर् एकाम् आज्याहुतिं मध्ये जुहुयात् ।
प्रधानाहुतयः
विवाहे हिरण्यायां पश्चिम-जिह्वायां,
जातकर्मणि कनकायां मध्यम-जिह्वायां,
उपनये रक्तायाम् उत्तर-जिह्वायां,
पितृकार्ये कृष्णायां दक्षिण-जिह्वायां,
सर्वदेवार्थं सु-प्रभायां पूर्व-जिह्वायां,
शान्ति-कर्मणि अतिरिक्तायाम् ईशान्य-दिक्स्थितायां,
तिल-होमे बहु-रूपायाम् आग्नेय्यां
तत्-तत्-प्रधानाहुतीः जुहुयात् ॥
॥ इति प्रयोगचन्द्रिकायां षष्ठः खण्डः ॥
जयादयः
अथ जयादिः॥
अथ जयैश्
“चित्तं च स्वाहे"ति त्रयोदशभिर् अभ्यातानैः
‘अग्निर् भूतानाम्’ इति सानुषङ्गैर् अष्टा-दशभिः राष्ट्र-भृद्भिः
“ऋताषाड्” इति सानुषङ्गैः द्वा-दशभिः
प्राजापत्यादि
‘प्रजापते न त्वद् एतानि’ इत्य् एतया
व्यस्ताभिः व्याहृतिभिः
‘यदस्य कर्मण’ इत्य् एतया च अष्टौ पञ्चाशद् आहुतीः (अष्टाचत्वारिंशद् आहुतीः) हुत्वा
१० प्रजापते न ...{Loading}...
प्रजा॑पते॒ न त्वद् +++(विश्वा जातानि→)+++ ए॒तान्य् अ॒न्यो
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्-का॑मास् ते जुहु॒मस् तन् नो॑ अस्तु
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥
व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः
(ओं) भूस्स्वाहा᳚ ॥ (अ॒ग्नय॑ +इ॒दं न म॑म)
(ओं) भुव॒स्स्वाहा᳚ ॥ (वा॒यव॑ +इ॒दं न म॑म)
(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्या॑य +इ॒दं न म॑म)
मूलम्
(ओं) भूस्स्वाहा᳚ ॥ (अग्नय इदं न मम)
(ओं) भुव॒स्स्वाहा᳚ ॥ (वायव इदं न मम)
(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्याय इदं न मम)
Yad asya karmaNaH ...{Loading}...
विश्वास-प्रस्तुतिः
यद् अ॑स्य॒ कर्म॒णो ऽत्यरी॑रिचं॒
यद् वा॒ न्यू॑नम् इ॒हाक॑रम् ।
अ॒ग्निष् टत् स्वि॑ष्ट॒कृद् वि॒द्वान्थ्
सर्व॒ꣵ स्वि॑ष्ट॒ꣵ सुहु॑तं करोतु॒
स्वाहा᳚ ।
मूलम्
यद॑स्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम् ।
अ॒ग्निष्टत्स्वि॑ष्ट॒कृद्वि॒द्वान्थ्सर्व॒ग्ग्॒ स्वि॑ष्ट॒ग्ं॒ सुहु॑तं करोतु॒ स्वाहा᳚ ।
परिधि-प्रहारः, संस्रावः
पुं-सुवनादिषु परिधीन्
आज्येन निधान-क्रमेण अभ्यज्य
मध्यमं परिधिम् अग्नौ प्रहृत्य
अन्यौ परिधी हस्ताभ्यां युगपद् आदाय
अग्नाव् उत्तरार्धे ऽङ्गारेष्व् अग्रं प्रवेश्य प्रहृत्य
सीमन्तादिषु शम्या अपोह्य
सँस्रावहोमं जुहुयात् ।
दक्षिण-वाम-हस्ताभ्यां प्रधानेतर-दर्वीभ्यां
सँस्राव-होमं जुहुयात् ।
सर्व-प्रायश्चित्तादि
अथ
मन्त्र-तन्त्र–देवता-विपर्यास–
न्यूनातिरिक्त-स्वराक्षर-पद-भ्रेष–प्रायश्चित्तार्थं
सर्व-प्रायश्चित्त-होमं होष्यामि
इति सङ्कल्प्य
‘भूर्भुवस्सुवः स्वाहा’ इति सर्व-प्रायश्चित्त-होमं हुत्वा
[[10]]
भूर् भुव॒स् सु॒व॒स् स्वाहा᳚ ...{Loading}...
विश्वास-प्रस्तुतिः
ओं भूर् भुव॒स् सुव॒स् स्वाहा᳚ ॥
(प्रजापतय इदं न मम) ॥१॥
मूलम्
ओं भूर् भुव॒स् सुव॒स् स्वाहा᳚ ॥
(प्रजापतय इदं न मम) ॥१॥
अनाज्ञात-त्रयेण,
‘त्वन्नो अग्ने’
‘सत्वन्नो अग्ने’ इत्येताभ्याम्
35 अनाज्ञातय्ँयदाज्ञातम् यज्ञस्य ...{Loading}...
अना᳚ज्ञात॒य्ँयदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।
38 पुरुषसम्मितो यज्ञः ...{Loading}...
पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।
41 यत्पाकत्रा मनसा ...{Loading}...
यत्पा॑क॒त्रा मन॑सा दी॒नद॑ख्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्न् ।
यजि॑ष्ठो दे॒वाꣳ ऋ॑तु॒शो य॑जाति ॥115॥
०४ त्वं नो ...{Loading}...
त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।
०५ स त्वं ...{Loading}...
स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि ।
+++(अग्नीवरुणाभ्याम् इदं न मम)+++
‘आभिर्गीर्भिः’
‘इदं विष्णुर्’
इत्य् एताभ्यां
32 आभिर् गीर्भिर् ...{Loading}...
आ॒भिर् गी॒र्भिर् यद् अतो॑ न ऊ॒नम्
आप्या॑यय हरिवो॒ +++(=अश्ववान्, स्वर्णवान् वा [इन्द्रः])+++ वर्द्ध॑मानः।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा +++(=मेघान्)+++ रु॒जासि॑ +++(=भिनक्षि)+++
भूयिष्ठ॒भाजो॒ अध॑+++(=अत)+++ ते स्याम॥
१७ इदं विष्णुर्वि ...{Loading}...
इ॒दव्ँ विष्णु॒र् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि च॑क्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रे॒धा नि द॑धे प॒दम् ।
+++(तैर् आधारैर् जगत्)+++ सम् ऊ॑ढम् अस्य पाꣳसु॒रे +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥
व्यस्ताभिः समस्ताभिः व्याहृतिभिश् च हुत्वा
व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः
(ओं) भूस्स्वाहा᳚ ॥ (अ॒ग्नय॑ +इ॒दं न म॑म)
(ओं) भुव॒स्स्वाहा᳚ ॥ (वा॒यव॑ +इ॒दं न म॑म)
(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्या॑य +इ॒दं न म॑म)
(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्र॒जाप॑तय +इ॒दं न म॑म)
मूलम्
(ओं) भूस्स्वाहा᳚ ॥ (अग्नय इदं न मम)
(ओं) भुव॒स्स्वाहा᳚ ॥ (वायव इदं न मम)
(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्याय इदं न मम)
(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्रजापतय इदं न मम)
पूर्णाहुतिः
“श्रीविष्णवे स्वाहे"ति पूर्णाहुतिं हुत्वा
shrI-viShNave_svAhA ...{Loading}...
(ॐ) श्रीवि॒ष्णवे॒ / विष्ण॑वे॒ स्वाहा॑
(विष्णवे परमात्मने इदन्न मम)
परिषेचनम्
पूर्ववत् परिषिञ्चेत् -
अन्वमँस्थाः, प्रासावीर् इति भेदः ।
प्रणीता-विमोकः
प्रणीति-पात्रं स्वस्य पुरस्तात् निधाय
अन्यज् जलं निनीय
तज् जलं प्राग्-आदि-प्रदक्षिणं
प्रतिदिशं व्युत्सिच्य
पुरस्तान् निस्राव्य
तेनात्मानं प्रोक्ष्य
समाप्तिः
दक्षिणतो निषादितं ब्राह्मणं सम्पूज्य
‘अग्नये नये’त्य् अग्नि-सूक्तेन
अग्निम् उपस्थाप्य
प्रणम्याभिवादयेत् ॥