यत॑ इन्द्र॒
26 यत इन्द्र ...{Loading}...
यत॑ इन्द्र॒ भया॑महे॒
ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ् छ॒ग्धि +++(=शक्तो वर्तस्व)+++ तव॒ तन् न॑+++(ः)+++ ऊ॒तये᳚+++(=रक्षायै, ऊ॒तिभि॑र् इति शाकले)+++
वि द्विषो॒ वि मृधो॑+++(=सङ्ग्रामान्)+++ जहि ।।
०६ ‘स्वस्तिदा’
०२ स्वस्तिदा विशस्पतिर्वृत्रहा ...{Loading}...
स्व॒स्ति॒दा वि॒शस्-पति॑र्
वृत्र॒हा वि॑मृ॒धो व॒शी ।
वृषेन्द्रः॑ पु॒र ए॑तु नः
सोम॒-पा अ॑भयङ्-क॒रः ॥
०७ ‘महाँ इन्द्रो वज्रबाहुः’
01 महां इन्द्रो ...{Loading}...
म॒हाꣳ इन्द्रो॒ वज्र॑बाहुष्
षोड॒शी शर्म॑ यच्छतु ।
स्व॒स्ति नो॑ म॒घवा॑ करोतु॒
हन्तु॑ पा॒प्मान॒य्ँ यो᳚ऽस्मान् द्वेष्टि॑ ॥
०८ ‘सजोषा’
इति चतसृभिः+++(=??)+++,
०२ सजोषा इन्द्र ...{Loading}...
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒
सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रूँ॒र् अप॒ मृधो॑ नुद॒स्व
+अथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥