2 21

०१ उक्थ्यश्चास्यतिरात्रश्च ...{Loading}...

+++(एकाष्टके!)+++ उ॒क्थ्य॑श् चास्य् अतिरा॒त्रश् च॑
साद्य॒स्क्रीश्+++(=सद्यस्क्र-क्रतुः)+++ छन्द॑सा स॒ह ।
अ॒पू॒प॒-घृ॒ताहु॑ते॒ नम॑स् ते
अस्तु माꣳस-पि॒प्पले॒+++(=फले)+++
+++(तयोरन्यः पिप्पलं स्वाद्वत्ति इति दर्शनात्)+++
स्वाहा॑ ।

०२-०४ भूः पृथिव्यग्निनर्चामुम् ...{Loading}...

भूः- पृ॑थि॒व्य्+++(व्या)+++ अ॑ग्निना॑+ऋ॒चा ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
भुवो॑- वा॒युना॒ ऽन्तरि॑क्षेण॒ साम्ना॒ ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
स्व॑र्- दिवा॑ ऽऽदि॒त्येन॒ यजु॑षा॒ ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।+++(५)+++

०५ जनदद्भिरथर्वाङ्गिरोभिरमुम् मयि ...{Loading}...

ज॒नद्+++(=व्याहृतिविशेषो यस् सामस्वपि श्रूयते। नारायणानुवाके तु जनः इति विसर्जनीयान्तं पठ्यते ॥)+++-
अ॒द्भिर् अथ॑र्वाङ्गि॒रोभि॑र् अ॒मुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।

०६-०७ रोचनायाजिरायाग्नये देवजातवे ...{Loading}...

रो॒च॒नाय॑ +अ॒जि॒राय+++(←अज गतिक्षेपणयोः)+++ +अ॒ग्नये॑ दे॒व-जा॑तवे॒+++(=ज्ञात्रे)+++ स्वाहा॑ ।
के॒तवे॒+++(=ज्ञात्रे)+++ मन॑वे॒ ब्रह्म॑णे दे॒व-जा॑तवे॒+++(=ज्ञात्रे)+++ स्वाहा॑ ।

०८-०९ स्वधा स्वाहा ...{Loading}...

स्व॒धा स्वाहा॑ ।
अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑ ।

१०-१४ अन्नमिव ते ...{Loading}...

अन्न॑म् +++(दृष्टम्)+++ इव ते दृ॒शे+++(=दर्शने)+++ भू॑यासम्।
वस्त्र॑म् +++(दृष्टम्)+++ इव ते दृ॒शे+++(=दर्शने)+++ भू॑यासम्।
वित्त॑म् +++(दृष्टम्)+++ इव ते दृ॒शे+++(=दर्शने)+++ भू॑यासम्।
आ॒शेव॑+++(=मनोरथ इव)+++ +++(दृष्टेव)+++ ते दृ॒शे+++(=दर्शने)+++ भू॑यासम्।
श्र॒द्धेव॑ +++(दृष्टेव)+++ ते दृ॒शे+++(=दर्शने)+++ भू॑यासम् ।

१५ स२ंस्रवन्तु दिशो ...{Loading}...

स२ꣳस्र॑वन्तु॒ दिशो॑ म॒हीस् +++(देयाः)+++
समा धा॑वन्तु सू॒नृताः॑ +++(वाचः)+++ ।
सर्वे॒ कामा॑ अ॒भिय॑न्तु मा प्रि॒या
अ॒भि र॑क्षन्तु मा प्रि॒याः ।+++(र४)+++

१६ यशोऽसि यशोऽहन्त्वयि ...{Loading}...

यशो॑ऽसि।
यशो॒ऽहन् त्वयि॑ भूयासम् असौ+++(←दातुर्नामनिर्देशः)+++ ।

१७ अङ्कौ न्यङ्कावभितो ...{Loading}...

अ॒ङ्कौ+++(→भूतविशेषौ)+++ न्य॒ङ्काव् अ॒भितो॒ रथ॒य्ँ यौ
ध्वा॒न्तव्ँ+++(=ध्वनितं)+++ वा॑ता॒ग्रम् अनु॑ स॒ञ्चर॑न्तौ ।
+++(तथा)+++ दू॒रेहे॑तिर् इन्द्रि॒यावा॑न्+++(=बलवान्)+++ पत॒त्री +++(च)+++
ते नो॒ ऽग्नय॒ᳶ+++(←अगिर्गत्यर्थः)+++ पप्र॑यᳶ+++(←प्रा पूरणे)+++ पारयन्तु ।

१८ अद्ध्वनामद्ध्वपते स्वस्ति ...{Loading}...

अद्ध्व॑नाम् अध्वपते स्व॒स्ति मा॒ संपा॑रय ।

१९ अयं वामश्विनौ ...{Loading}...

अ॒यं वा॑म् अ॒श्विनौ॒ रथो॒
मा दुः॒खे मा सु॒खे रि॑षत् ।
अरि॑ष्टस् स्व॒स्ति ग॑च्छतु॒
विवि॒घ्नन् पृत॑नाय॒तः ।

२० अश्वोऽसि हयोऽस्यत्योऽसि ...{Loading}...

+++(अश्वस्य दक्षिणे कर्णे यजमानम् अश्वनामानि वाचयति)+++
अश्वो॑+++(=व्यापकः)+++ ऽसि । हयो॒+++(←हि गतौ)+++ ऽस्य्, अत्यो॑+++(←अत सातत्य-गमने)+++ ऽसि,
नरो॒+++(=नेता)+++ ऽस्य्, अर्वा॑+++(←ऋ गतौ)+++ऽसि॒, सप्ति॑र्+++(←सर्पतेः)+++ असि, वा॒ज्य्+++(=वेगवान्)+++ अ॑सि॒, वृषा॑ ऽसि।
नृ॒-मणा॑+++(=मन्त्यव्यो)+++ असि॒। ययु॒र् नामा॑सि।
+++(ब्राह्मणं च ‘एतद्वा अश्वस्य प्रियं नामधेयम्’ इति ।)+++

+++(उपतिष्ठते)+++
आदि॒त्याना॒म् पत्व॑+++(=पतनशीलः)+++ +अन्वि॑हि

२१ हस्तियशसमसि हस्तियशसी ...{Loading}...

ह॒स्ति॒-य॒श॒सम् अ॑सि, हस्ति-यश॒सी भू॑यासम्।
वह॑ काल॒, वह॒ श्रियं॑, मा॒ऽभि व॑ह ।
इन्द्र॑स्य त्वा॒ वज्रे॑णा॒भि निद॑धाम्य् असौ+++(←नामनिर्देशः?)+++ ।

२२ अवजिह्वक निजिह्वकाव ...{Loading}...

अव॑जिह्वक नि+++(→न्यक्)+++जिह्व॒का+
ऽव॑ त्वा ह॒विषा॑ यजे ।
तत् स॒त्यं यद् अ॒हं ब्रवी॒म्य्
अध॑रो॒ मद् अ॒सौ+++(←नामनिर्देशः)+++ व॑दा॒त्
स्वाहा॑ ।+++(र५)+++

२३ आ ते वाचम् ...{Loading}...

आ ते॒ वाच॑म् आ॒स्या॑न्+++(=आस्ये भवां)+++ +++(आ)+++दद॒, आ म॑न॒स्याꣳ, हृद॑या॒द् अधि॑ ।+++(५)+++
यत्र॑ यत्र ते॒ वाङ् निहि॑ता॒, तां त॒ आद॑दे ।
तत् स॒त्यं यद् अ॒हं ब्रवी॒म्य्, अध॑रो॒ मत् प॑द्यस्वासौ+++(←नामनिर्देशः)+++ ॥ (21)