2 08

०१ आयुष्यं वर्चस्यम् ...{Loading}...

आ॒यु॒ष्यं॑ वर्च॒स्यꣳ॑ सु॒वीर्यꣳ॑
रा॒यस्पोष॒म् औद्भि॑द्यम्+++(→यशस्यम्)+++ ।
इ॒दꣳ हिर॑ण्यं॒ जैत्र्या॒या+++(=जयहेतवे)+++ऽवि॑शता॒न् माम् ।

०२ उच्चैर्वादि पृतनाजि ...{Loading}...

+++(हिरण्यवन्तो हि उच्चैर्वदन्ति→)+++ उ॒च्चै॒र् वा॒दि पृ॑तना॒जि+++(त्)+++
स॑त्रा+++(=सत्य)+++सा॒हं ध॑नञ्ज॒यम् ।
सर्वा॒स् समृ॑द्धी॒र्॒ ऋद्ध॑यो॒
हिर॑ण्ये॒ ऽस्मिन्त् स॒माहि॑ताः ।

०३ शुनमहं हिरण्यस्य ...{Loading}...

शु॒नम्+++(=सुखम्)+++ अ॒हꣳ हिर॑ण्यस्य
पि॒तुर् इ॑व॒ नामा॑ऽग्रभैषम्+++(=अग्रहीषं)+++ ।
तं मा॒ हिर॑ण्यवर्चसं
पू॒रुषु॑+++(=बहुषु)+++ प्रि॒यं कु॑रु ।

०४ प्रियम् मा ...{Loading}...

प्रि॒यं मा॑ दे॒वेषु॑ कुरु
प्रि॒यं मा॒ ब्रह्म॑णे कुरु ।
प्रि॒यं वि॒श्ये॑षु शू॒द्रेषु॑
प्रि॒यꣳ राज॑सु मा कुरु ।+++(५)+++

०५ या तिरश्ची ...{Loading}...

या ति॒रश्ची॑ नि॒षद्य॑से॒+++(=शेषे)+++
ऽहं वि॒धर॑णी॒+++(=विधारयित्री)+++ इति॑ ।
तां त्वा॑ घृ॒तस्य॒ धार॑या॒
यजे॑ स॒ꣳ॒राध॑नीम्+++(→भूमिम् / मध्यमावाक्)+++ अ॒हम् ।

०६- ७ संराधन्यै देव्यै ...{Loading}...

स॒ꣳ॒राध॑न्यै दे॒व्यै स्वाहा॑ ।
प्र॒साध॑न्यै दे॒व्यै स्वाहा॑ ।

०८ सम्राजञ्च विराजञ्चाभिश्रीर्या ...{Loading}...

स॒म्राज॑ञ् च वि॒राज॑ञ् चा-
ऽभि॒श्रीर् या च॑ नो गृ॒हे ।
ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒
तया॑ मा॒ सꣳसृ॑जामसि+++(→संसृजामि)+++ ।

०९ शुभिके शिर ...{Loading}...

शुभि॑के॒ +++(स्रक्)+++ शिर॒ आरो॑ह
शो॒भय॑न्ती॒ मुखं॒ मम॑ ।
मुखꣳ॑ हि॒ मम॑ शोभय॒
भूयाꣳ॑सञ्च॒ भगं॑ कुरु ।

१० यामाहरज्जमदग्निश्श्रद्धायै कामायान्यै ...{Loading}...

याम् +++(स्रजं)+++ आह॑रज् ज॒मद॑ग्निश्
श्र॒द्धायै॑ कामाया॒न्यै+++(=काममानायै)+++ ।
इ॒मान् ताम् अपि॑ नह्ये॒
ऽहं भगे॑न स॒हवर्च॑सा ।

११ यदाञ्जनन् त्रैककुदम् ...{Loading}...

+++(हे अक्षिणी-)+++ यदाञ्ज॑नं त्रैककु॒दं+++(=त्रिककुत्पर्वतभवं)+++
जा॒तꣳ हि॒मव॑त उ॒परि॑ ।
तेन॑ वामाञ्जे॒ तेज॑से॒
वर्च॑से॒ भगा॑य च ॥ (8)