भवच्छब्दाभावे प्रथमपुरुषः

आक्षेपः

“किं पश्यति?” इति परम् उद्दिश्य वचनम् असाधु।
“किम् पश्यसि” इत्य् एव वाच्यम्।

इति वादं गृह्णीयाम।

सूत्रे ऽस्थानित्वं, विवक्षा च

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः॥१।४।१०५॥

युष्मद्य् उपपदे सति, स्थानिन्य् अपि मध्यमः, अस्थानिन्य् अपि। अस्थानि नाम यद् वाक्यय् उच्चारिते न दृश्यते। अस्थान्य् उपपदम् अस्ति न वेति कथं ज्ञायते? विवक्षातः। यदि न विवक्षितं युष्मत्-पदम्, तर्हि तस्य स्थानित्वास्थानित्व-विचार एव व्यर्थः।

शेषे प्रथमः

भवद्-उपपदे, राम-सीताद्य्-उपपदे तु “शेषे प्रथमः” इति युज्यते - पुनः स्थानिन्य् अपि, अस्थानिन्य् अपि। “शेषे उपपदे समानाधिकरणे स्थानिनि अपि प्रथमः” इति खलु सानुवृत्तिसूत्रम्।

प्रयोगालोकनम्

ब्रह्म-पुराणे, विष्णु-पुराणे च -

उवाचाज्ञापय विभो यत् कार्यम् अविशङ्कया ॥ ११ ॥
ययातिशापाद् वंशो ऽयम् अराज्यार्हो ऽपि साम्प्रतम् ।
मयि भृत्ये स्थिते देवान् आज्ञापयतु किं नृपैः ॥ १२ ॥
इत्य् उक्त्वा चोग्रसेनं तु वायुं प्रति जगाद ह ।

लक्ष्मीनारायणसंहितायाम् -

इति सञ्चिन्त्य बहुधा सूर्यं प्राह मुहुस्तदा ॥४ ॥
देव मे जायते नित्यं विचारस्तु पितुर्ग्रहम् ॥
गन्तुं मीलयितुं सर्वान् स्वसॄर्भातॄन् सखीजनान् ॥ ५ ॥
आज्ञापयतु मां नाथ यामि देवाय रोचते ॥
सूर्यः प्राह न वै देवि कालोऽयं गमनाय न ॥६ ॥

इदं साधारण-व्यवहारेणापि ज्ञायते-

नाटकेषु यथा कश्चन राजानं सम्बोध्य - “आज्ञापयतु देवः” इति वदति।

बहुषु वर्तमानं रामं दृष्ट्वा कश्चन वदति -
“रामो गच्छतु” (न तु भीमः सोमो वेत्य् अर्थः)।
रामस् तद् अवगत्य गच्छति। न पुनः “भवता युष्मच्छब्दो न प्रयुक्त” इति वदन् तत्रैव तिष्ठति।

एवं, “गच्छतु” इति वा वदेत्।
अनेन “रामः” इति वा “भवान्” इति वा शब्दो ऽध्याहार्यो भवति।

भाषान्तरेषु

हिन्द्याम् - (आप) जाएँ।
Castellano - (usted) bebe cafe? vs (tu) bebes cafe?