१११ विनि

अस्

  • {विन्यस्}
  • अस् (असु क्षेपे)।
  • ‘गुणांश्च सूपशाकाद्यान्पयो दधि घृतं मधु। विन्यसेत् प्रयतः पूर्वं भूमावेव…’ (मनु० ३।२२६)॥ विन्यसेत्=विन्यस्येत् विभज्य न्यस्येत् निदध्यात्।
  • ‘त्वदर्थमिव विन्यस्ता… शिला’ (रा० २।९६।६)। विन्यस्ता निहिता।
  • ‘सुतविन्यस्तपत्नीकः’ (याज्ञ० ३।४५)। पुत्रार्पितपत्नीक इत्यर्थः।
  • ‘व्यूढौ विन्यस्तसंहतौ’ (अमरः)।

कृ

  • {विनिकृ}
  • कृ (डुकृञ् करणे)।
  • ‘यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन्यवीयसः’ (मनु० ९।२१३)। विनिकुर्वीत वञ्चयेतेति कुल्लूकः। अपकुर्यात्, अपराध्नुयात्, तदर्थं हन्याद् इत्यन्ये।
  • ‘तत्त्वया चरता लोके धर्मो विनिकृतो महान्’ (रा० ६।११।१८)। विनिकृतो लङ्घितः।
  • ‘विश्वामित्रो विनिकृतो विनिःश्वस्येदमब्रवीत्’ (रा० १।५६।२२)। विनिकृतस्तिरस्कृत इति कतकः। निरस्तसर्वशक्तिरिति तिलककारो रामः।
  • ‘वीरो विनिकृतो भ्रात्रा जगद् भ्रमति दुःखितः’ (रा० ४।३।२०)। विनिकृतो निरस्तः।
  • ‘राज्याद् विनिकृतोस्माभिः कथं सोस्मासु विश्वसेत्’ (भा० शल्य० ५।७)। विनिकृतो विनाकृतः।
  • ‘शरण्यं सर्वभूतानां (मुनिं) पित्रा विनिकृतं तव’ (भा० आदि० ५०।७)। विनिकृतमपकृतं तिरस्कृतम्।
  • ‘नामित्रो विनिकर्तव्यः’ (भा० शां० ९६।१५)। निकृत्या वञ्चयितव्य इत्यर्थः।
  • ‘अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः’ (भा० अनु० १०५।७)। विनिकुर्वीत शाठ्यमाचरेत्।

कृत्

  • {विनिकृत्}
  • कृत् (कृती छेदने)।
  • ‘विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च’ (भा० वन० १६०।५३)। विनिकृत्तानि खण्डितानि शकलीकृतानि।

कॄ

  • {विनिकॄ}
  • कॄ (कॄ विक्षेपे)।
  • ‘विनिकीर्णानि योधानां वदनानि चकाशिरे’ (भा० द्रोण० ८९।८)। इतस्ततो विक्षिप्तानीत्यर्थः।
  • ‘विनिकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम्’ (भा० वन० ३१३।२)। उक्तोऽर्थः।
  • ‘विनिकीर्णः… भीमबलाद् हतः’ (राक्षस:) (भा० वन० ११।७३)। व्यायताङ्गः पतित इत्यर्थः।
  • ‘सिद्धचारणसङ्घैश्च विनिकीर्णः…’ (महाशैलः) (रा० ४।४१।३३)। विनिकीर्ण आकीर्णः।
  • ‘क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः। …असि विद्रुतः’ (कु० ४।६)॥ विनिकीर्य सावहेलं परित्यज्य।

क्षिप्

  • {विनिक्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘रक्षांसि रक्षांसि विनिक्षिपन्ति’ (रा० ५।११।१२)। अधः पातयन्ति।
  • ‘या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत्’ (याज्ञ० १।१।२३०)। विनिक्षिपेत्। निदध्यात्, दद्यात्।
  • ‘कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु’ (भा० शां ८०।३०)। विनिक्षिप्ता अधिकृताः। प्रतिरूपेष्वनुरूपेषु।

गम्

  • {विनिगम्}
  • गम् (गम्लृ गतौ)।
  • ‘तत्रान्यतरार्थं क्रियेत यदि विनिगमनायां हेतुर्भवेत्’ (मी० शा० भा० ४।१।२२)।

ग्रह्

  • {विनिग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘द्विपा वा बलिनो राजन् वृषभा वा महाबलाः॥ विनिग्राह्या यदि मया निग्रहीष्यामि तानपि’ (भा० वि० ४।३३)। विनिग्राह्या वशे करणीयाः, दमनीयाः।
  • ‘न हि दण्डादृते शक्यः कर्तुं पापविनिग्रहः’ (मनु० ९।२६३)। पापनिरोधः। पापाद् वारणम्।
  • ‘न्यवेति विनिग्रहार्थीयौ’ (नि० १।३।१३)। नीचैर्निधानार्थकावित्यर्थः।
  • ‘अह इति च ह इति च विनिग्रहार्थीयौ’ (नि० १।५।२-३)। अवधारणार्थकावित्यर्थः। विनिग्रहो नाम विभागेनावस्थितयोर्देवदत्तयज्ञदत्तयोरेकतरस्मिन्यज्ञदत्तेऽभिमते गोपायनस्य नियमेन ग्रहणमिति दुर्गः।
  • ‘शिरःसु विनिगृह्यैतान् योधयामास पाण्डवैः’ (भा० आदि० १२८।१७)। विनिगृह्य दृढं गृहीत्वेत्यर्थः।
  • ‘कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य तां’ (भा० शां० ३।९)। विनिगृह्य विनियम्य

धा

  • {विनिधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘त्रेधात्मानं विन्यधत्त पृथिव्यां तृतीयम्’ (तै० सं० २।४।१२।३)।
  • ‘तत्त्रेधा विन्यधत्त पशुषु तृतीयम्’ (तै० ब्रा० १।१।६।१)। विभज्य न्यधादित्यर्थ:।
  • ‘तदासां पाप्मनो विनिदध्यात्’ (श० ब्रा० १४।४।१।११)। उक्तोऽर्थः।
  • ‘विनिधाय ततो भारं संनिधाय फलानि च’ (भा० आदि० ७३।३१)। विनिधाय स्कन्धादवतार्य, व्यपरोप्य।
  • ‘स्तनविनिहितमपि हारम्’ (गीत० ११)। विनिहितो निहितः। विशब्दो न विशेषकृत्।
  • ‘मधुगन्धघृतफणितानि विनिधाय द्विगुणा द्वितीयमासे लब्धिः’ (बृ० सं० ४१।५)। विनिधाय संचित्य संगृह्य एकीकृत्य।
  • ‘तस्य वैते वयं घोरास्तनू र्विनिधास्यामः’ (शां० ब्रा० १।१)। विनिधास्यामः पृथङ् निधास्यामः।

ध्वंस्

  • {विनिध्वंस्}
  • ध्वंस् (ध्वंसु अवस्रंसने गतौ च)।
  • ‘भूमौ बाणैर्विनिध्वस्तां पतितां ज्यामिवायुधात्’ (गोरेसियो सं० रा० २।१२५।१३)। विनिध्वस्ताम् अवस्रस्ताम्, व्यायतपातं पतिताम्।

पत्

  • {विनिपत्}
  • पत् (पत्लृ गतौ)।
  • ‘एतं कदम्बमारुह्य तदेव शिशुलीलया। विनिपत्य ह्रदे घोरे दमयिष्यामि कालियम्’ (हरि० २।११।५९)॥ विनिपत्य=अवप्लुत्य।
  • ‘तस्करा विनिपत्य ??म्। हृतस्वामनयन् बद्ध्वा स्वपल्लीम्…’ (कथा० २२।६२)॥ विनिपत्य उपद्रुत्य, आक्रम्य।
  • ‘त्वदर्थमेतद् विनिपात्यमानं देहं त्वयैव प्रतिमोचितं मे’ (मार्क० पु० १७२।१५)। विनिपात्यमानं हन्यमानम्।
  • ‘भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः’ (रा० २।३९।२०)। विनिपातगतं कृच्छ्रमुपेतम्।
  • ‘विवेकभ्रष्टानां भवति विनिपातः शतमुखः’ (भर्तृ० २।१०)। विनिपातः पातः, विपच्च।
  • ‘विधिहेतुरहेतुरागसां विनिपातोपि समः समुन्नतेः’ (कि० २।३४)। विनिपातो भ्रंशः।
  • ‘जपतां जुह्वतां चैव विनिपातो न विद्यते’ (मनु० ४।१४६)। विनिपातो दैवमानुषोपद्रवः।
  • ‘विवादे विद्याभिजनसम्पन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः’ (आप० ध० २।११।२९।५)। विनिपातः प्रमादः। अविनिपातिनोऽप्रमादिनः।
  • ‘विनिपतिततुषारः क्रौञ्चनादोपगीतः’ (ऋतु० ४।८१)। विनिपतितः पतितः। नार्थो विनिभ्याम्।
  • ‘कटेन पातितो यामि’ (मृच्छ० २।८)।

पद्

  • {विनिपद्}
  • पद् (पद गतौ)।
  • ‘एते चान्ये च बहवो बलवन्तो दुरासदाः। विनिपन्ना मया दृष्टाः’ (रा० ७।२२।२८)। विनिपन्ना परासवो भूशायिनः। निपद्यतिः शयने रूढः।

मे

  • {विनिमे}
  • मे (मेङ् प्रणिदाने)।
  • ‘वर्णयाकर्णितं मह्यमेह्यालि विनिमीयताम्’ (नै० २०।११३)। विनिमीयतां परिवृत्तिः क्रियताम्।
  • ‘सम्पद्विनिमयेनोभौ दधतुर्भुवन ??म्’ (रघु० १।२६)। विनिमयः परस्परं प्रणिदानम्।
  • ‘तेजोवारिमृदां यथा विनिमयः’ (भा० पु० १।१।१)। इत्यत्र विनिमयो व्यत्ययोऽन्यस्मिन्नानावभास इति श्रीधरः। कवेरभिमतोऽयमर्थः कल्पितोऽन्यत्र दुर्लभः।

यम्

  • {विनियम्}
  • यम् (यम उपरमे)।
  • ‘यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति। एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति’ (भा० शां० २४७।१४)॥ विनियच्छति संहरति प्रतिसंहरति संकोचयति।
  • ‘प्रमोहं विनियच्छति’ (भा० अनु० १४।४१७)। वारयति, विधेयीकरोतीति वाऽर्थः।
  • ‘विनियताहारः’ (रा० ३।६।७)। मिताहार इत्यर्थः।

युज्

  • {विनियुज्}
  • युज् (युजिर् योगे)।
  • ‘विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च’ (भा० शल्य० ४।४७)। विनियुञ्जीत नियुञ्जीत निवेशयेत्। विशब्द इहार्थान्तरप्रतीतिकृन्न।
  • ‘यथा सम्राडेवाधिकृतान् विनियुङ्क्ते’ (प्रश्नोप० ३।४)। उक्तोऽर्थः।
  • ‘गृहाणीव हि मर्त्यानामाहुर्देहानि पण्डिताः। कालेन विनियुज्यन्ते…’ (भा० स्त्री० ३।८)॥ विनियुज्यन्ते विप्रयुक्तानि भवन्ति, सापगमानि भवन्तीत्यर्थः।
  • ‘प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो’ (कु० २।३१)। विनियुक्तः संनियुक्तः।
  • ‘हयेषु विनियुक्तेषु विमुखोभवदाहवे’ (भा० आदि० १३८।५३)। विनियुक्ता रथेभ्यो वियुक्ता विमुक्ताः विषिता इत्यर्थः। अत्र विर्विरोधवचनः। धात्वर्थविपर्यासकृत्।
  • ‘विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः’ (याज्ञ० १।२७१)। विनियोजितो व्यापारितः।
  • ‘रक्षार्थं यज्ञवाटस्य पाण्डवान्विनियुज्य च’ (हरि० २।८४।४)। विनियुज्य व्यापार्य। यज्ञवाटरक्षाकर्म पाण्डवेषु निक्षिप्य समर्प्येत्याह।
  • ‘अहेति विनियोगे च’ (पा० ८।१।६१)। नानाप्रयोजनो नियोगो विनियोगः।
  • ‘आर्षं छन्दश्च दैवत्वं विनियोगस्तथैव च। अनेनेदं तु कर्तव्यं विनियोगः प्रकीर्तितः॥ बभूव विनियोगज्ञः साधनीयेषु वस्तुषु’ (रघु० १७।६७)। विनियोगः प्रयोग उपयोगः।
  • ‘विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु’ (कु० ६।६२)। विनियोगः कृत्यनिर्वहणे व्यापारणा। कर्तव्यभारनिक्षेपः।
  • ‘नानाप्रयोजनो नियोगो विनियोगः’ (पा० ८।१।६१ सूत्रे वृत्तौ)। त्वमह ग्रामं गच्छ। त्वमहारण्यं गच्छेत्युदाहरणम्। पुस्तक उदाहरणं नादायीति तदिह दीयते।

विश्

  • {विनिविश्}
  • विश् (विश प्रवेशने)।
  • ‘जनपदविनिवेशः’ (कौ० अ० १)। विनिवेशः संनिवेश एकत्रावस्थितिः।
  • ‘स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः’ (शा० ६।१५)। विनिवेशश्चिह्नं लक्ष्म।

वृ

  • {विनिवृ}
  • वृ (वृञ् आवरणे)।
  • ‘वातोपि निश्चरंस्तत्र प्रवेशे विनिवार्यते’ (भा० आदि० ४२।३२)। विनिवार्यते प्रतिषिध्यते। अपार्थको विः। निस्तु निषेधस्य द्योतकः।
  • ‘तत्कर्म कृत्वा विनिवार्य भूयः’ (श्वेता० उ० ६।३)। विनिवार्य प्रत्यवेक्षणं कृत्वेति शङ्करः।

वृत्

  • {विनिवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘विषया विनिवर्तन्ते निराहारस्य देहिनः’ (गीता २।५९)। पराङ्मुखा भवन्तीत्याह।
  • ‘सपिण्डता तु पुरुषे सप्तमे विनिवर्तते’ (मनु० ५।६०)। विनिवर्तते निवर्तते नानुवर्तते विरमतीत्यर्थः।
  • ‘इक्ष्वाकुवंशजो राजा विनिवृत्तः स्ववंशकृत्’ (हरि० २।२३।५)। विनिवृत्तो विनष्टः। निवृत्तसत्ताक इति तु पदार्थः।
  • ‘यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः’ (भा० अनु० ८४।७४)। विनिवर्तितः पराङ्मुखीकृतः।

स्था

  • {विनिष्ठा}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘एवं व्यादिश्य विप्रौ तु क्रियास्तत्र (नृपवेश्मनि) विनिष्ठितौ’ (रा० २।३।२०)। विनिष्ठितौ स्थितौ। नेहोपसर्गौ विनी अन्तरमर्थे कुरुतः।

हन्

  • {विनिहन्}
  • हन् (हन हिंसागत्योः)।
  • ‘लोकाः स्वस्था भवन्त्यद्य तस्मिन्विनिहतेऽसुरे’ (हरि० १।११।३७)। विनिहते हते। अपार्थकौ विनी।

क्रम्

  • {विनिक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘यथा प्रविश्यान्तरमन्तकस्य को वै मनुष्यो हि विनिष्क्रमेत’ (भा० वन० १२०।१५)। विनिष्क्रामेत्=निर्गच्छेत्। काले मनुष्यो न विनिष्क्रमेतेति पाठान्तरम्।