०४० समुदा (सम्+उद्+आङ्)

  • {समुदे}
  • (इण् गतौ)।
  • ‘तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत्’ (आप० ध० १।१।१२)। समुदेतम्=सम्पन्नम्।
  • ‘अन्यं वाऽसमुदेतम्’ (आप० ध० २।२।५।७)। असमुदेतो विद्यादिभी रहितः।

चर्

  • {समुदाचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘न हि रागकाले क्रोधः समुदाचरति’ (यो० सू० भाष्ये २।४)। समुदाचरति=आविर्भवति।
  • ‘ते यद् ब्रूयुर्महाप्राज्ञास्तच्चैव समुदाचर’ (भा० अनु० ८४।३८)। समदाचर=समाचर=आचर।
  • ‘अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्’ (रा० ३।१२।२९)। समुदाचरन्=आचरन्।
  • ‘बालानपि च गर्भस्थान् सान्त्वेन समुदाचरन्’ (भा० शां० ३३।४४)। उक्तोऽर्थः।
  • ‘समुदाचारहीनाया न ते साधु भविष्यति’ (भा० आदि० ७८।८)। समुदाचारः शोभन आचारः।
  • ‘आर्ये सखीजनसमुदाचारेणातिक्रान्तः समुदाचारः।’ (स्वप्न० ६)। सम्यगुदित आचारः समुदाचारः।
  • ‘आश्रमपदविभवेनानुष्ठितो देवसमुदाचारः’ (प्रतिमा० ५)। देवसमुदाचारः=देवपूजा।
  • ‘तस्मै …चक्रिरे समुदाचारं पद्मकोषनिभैः करैः’ (बुद्ध० ४।२)। समुदाचार आदरः।
  • ‘समुदाचारलक्षणं सर्वमनुव्याख्यास्यामः’ (भा० शां० १९१।१०)। समुदाचाराः सामयिका धर्माः।
  • ‘प्रजानां समुदाचारं बहुकर्मकृतं वदन्’ (भा० वि० २।३०)। समीचीनमुत्कृष्टतरमाचारम् इत्यर्थः।

नी

  • {समुदानी}
  • नी (णीञ् प्रापणे)।
  • ‘महानयं कृष्णकृतः क्षत्रस्य समुदानयः’ (भा० उ० १४१।२८)। समुदानयः समुदायीकरणम्।
  • ‘दुष्करशतसमुदानीतोऽयमस्मदर्थं तेन भगवता सद्धर्मः’ (अवदा० जा० २)। समुदानीतः=उन्नीयोपस्थापितः।

हृ

  • {समुदाहृ}
  • हृ (हृञ् हरणे)।
  • ‘सिद्धैर्वा वसिष्ठाख्यैस्तैरहं समुदाहृतः’ (यो० वा० ६(२)।९५।९)।
  • ‘दीक्षां च समुदाहर’ (रा० १।६२।२२)। कुर्वित्यर्थः।