मन्त्र-ध्यानादि

सुन्दरकाण्डे

(कस्तूरिणोक्तम् )

मूलमन्त्रः -

उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता।
विक्रमश्च प्रभावश्च सन्ति वानर राघवे॥ १५॥

ध्यानम्

स्रक्-चन्दनाभरण-भूषित-भास्वराङ्गं
वामोरुसंस्थितमहीतनयोपगूढम्।
उत्फुल्ल-पद्मनयनं स्मित-सुन्दरास्यं
रामं कृपा-जल-निधिं मनसा स्मरामि॥