०४ ०४ कुम्भकर्णहननम्

१. स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः ।
२. मातङ्ग इव सिंहेन गरुडेनेव पन्नगः ।
३. अभिभूतोऽभवद् राजा राघवेण महात्मना ॥
४. ब्रह्मदण्डप्रतीकानां विद्युच्चलितवर्चसाम्।
५. स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः ॥
६. स काञ्चनमयं दिव्यमाश्रित्य परमासनम्।
७. विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ॥
८. सर्वं तत् खलु मे मोघं यत् तप्तं परमं तपः ।
९. यत् समानो महेन्द्रेण मानुषेण विनिर्जितः ॥
१०. अवध्यत्वं मया प्रोक्तं मानुषेभ्यो न याचितम्॥
११. स चाप्रतिमगाम्भीर्यो देवदानवदर्पहा ।
१२. ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम्॥
१३. नव सप्त दशाष्टौ च मासान् स्वपिति राक्षसः ।
१४. मन्त्रं कृत्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि ॥
१५. स हि सङ्ख्ये महाबाहुः ककुदः सर्वरक्षसाम्।
१६. वानरान् राजपुत्रौ च क्षिप्रमेव हनिष्यति ॥
१७. किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ।
१८. ईदृशे व्यसने घोरे यो न साह्याय कल्पते ॥
१९. ते तु तद् वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ।
२०. जग्मुः परमसम्भ्रान्ताः राक्षसेन्द्रनिवेशनम्॥
२१. कुम्भकर्णस्य निःश्वासादवधूता महाबलाः ।
२२. प्रतिष्ठमाना कृच्छ्रेण यत्नात् प्रविविशुर्गुहाम्॥
२३. तां प्रविश्य गुहां रम्यां रत्नकाञ्चनकुट्टिमाम्।
२४. ददृशुर्नैरृतव्याघ्राः शयानं भीमविक्रमम्।
२५. ऊर्ध्वलोमाञ्चिततनुं श्वसन्तमिव पन्नगम्।
२६. भीमनासापुटं तं तु पातालविपुलाननम्।
२७. शयने न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम्॥
२८. ततश्चक्रुर्महात्मानः कुम्भकर्णस्य चाग्रतः ।
२९. मृगाणां महिषाणां च वराहाणां च सञ्चयान् ॥
३०. ततः शोणितकुम्भान्श्च राशिमन्नस्य चाद्भुतम्।
३१. पुरस्तात् कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः ॥
३२. लिलिपुश्च परार्घ्येन चन्दनेन परन्तपम्।
३३. दिव्यैराच्छादयामासुः माल्यैर्गन्धैश्च गन्धिभिः ॥
३४. तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः ।
३५. राक्षसाः कुम्भकर्णस्य स्थातुं नाशक्नुवन् पुरः ॥
३६. मृदङ्गपणवान् भेरीः शङ्खकुम्भगणान्स्तदा ।
३७. दशराक्षससाहस्रा युगपत् पर्यवादयन् ॥
३८. तेन नादेन महता लङ्का समभिपूरिता ।
३९. सपर्वतवना सर्वा सोऽपि नैव प्रबुद्ध्यते ॥
४०. ततः कोपसमाविष्टाः सर्वे भीमपराक्रमाः ।
४१. तद् रक्षो बोधयिष्यन्तः चक्रुरन्ये पराक्रमम्॥
४२. केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ।
४३. उदकुम्भशतानन्ये समसिञ्चन्त कर्णयोः ॥
४४. न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ॥
४५. अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः ।
४६. मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् ॥
४७. रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः ।
४८. वध्यमानो महाकायो न प्राबुद्ध्यत राक्षसः ॥
४९. वारणानां सहस्रं च शरीरेऽस्य प्रधावितम्।
५०. कुम्भकर्णस्तदा बुद्ध्वा स्पर्शं परमबुद्ध्यत ॥
५१. स पात्यमानैः गिरिशृङ्गवृक्षैः
५२. अचिन्तयन् तान् विपुलान् प्रहारान् ।
५३. निद्राक्षयात् क्षुद्भयपीडितश्च
५४. विजृम्भमाणः सहसोत्पपात ॥
५५. तस्य जाजृम्भमाणस्य वक्त्रं पातालसन्निभम्।
५६. ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ॥
५७. निःश्वासश्चास्य सञ्जज्ञे पर्वतादिव मारुतः ।
५८. तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ।
५९. ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ॥
६०. अदन् बुभुक्षितो मांसं शोणितं तृशितोऽपिबन् ।
६१. मेदःकुम्भान्श्च मद्यान्श्च पपौ शक्ररिपुस्तदा ॥
६२. ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः ।
६३. शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥
६४. चारयन् सर्वतो दृष्टिं कलुषीकृतलोचनः ।
६५. बोधनात् विस्मितश्चापि राक्षसानिदमब्रवीत् ॥
६६. किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः ।
६७. कच्चित् सुकुशलं राजा भयं वा नेह किञ्चन ॥
६८. न ह्यल्पकारणे सुप्तं बोधयिष्यति मां गुरुः ।
६९. तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम्॥
७०. एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिन्दमम्।
७१. यूपाक्षः सचिवो राज्ञः कृताञ्जलिरभाषत ॥
७२. न नो देवकृतं किञ्चित् भयमस्ति कदाचन ।
७३. मानुषान्नो भयं राजन् तुमुलं सम्प्रबाधते ॥
७४. वानरैः पर्वताकारैर्लङ्केयं परिवारिता ।
७५. सीताहरणसन्तप्तात् रामान्नस्तुमुलं भयम्॥
७६. स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः ।
७७. व्रजेति संयुगे मुक्तो रामेणादित्यवर्चसा ॥
७८. यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः ।
७९. कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥
८०. द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः ।
८१. गमने क्रियतां बुद्धिः भ्रातरं सम्प्रहर्षय ॥
८२. कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम्।
८३. पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे ॥
८४. ईषत् समुत्कटो मत्तः कालान्तकयमोपमः ।
८५. कुम्भकर्णो बभौ रुष्टः तेजोबलसमन्वितः ॥
८६. भ्रातुः स भवनं गच्छन् रक्षोबलसमन्वितः ।
८७. कुम्भकर्णः पदन्यासैरकंपयत मेदिनीम्॥
८८. तमद्रिशृङ्गप्रतिमं किरीटिनम्
८९. स्पृशन्तमादित्यमिवात्मतेजसा ।
९०. वनौकसः प्रेक्ष्य विवृद्धमद्भुतम्
९१. भयार्दिता दुद्रुविरे यतस्ततः ॥
९२. सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च ।
९३. ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम्॥
९४. अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम्।
९५. तूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ॥
९६. अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः ।
९७. भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ॥
९८. स भ्रात्रा सम्परिष्वक्तो यथावच्चाभिनन्दितः ।
९९. संरक्तनयनः क्रोधात् रावणं वाक्यमब्रवीत् ॥
१००. किमर्थमहमादृत्य त्वया राजन् प्रबोधितः ।
१०१. शंस कस्मात् भयं तेऽत्र को वा प्रेतो भविष्यति ॥
१०२. भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम्।
१०३. रोषेण परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ॥
१०४. सुषुप्तस्त्वं न जानीषे मम रामकृतं भयम्।
१०५. एष दाशरथिः श्रीमान् सुग्रीवसहितो बली ।
१०६. समुद्रं लङ्घयित्वा तु मूलं नः परिकृन्तति ॥
१०७. हन्त पश्यस्व लङ्कायां वनान्युपवनानि च ।
१०८. सेतुना सुखमागत्य वानरैकार्णवीकृतम्॥
१०९. ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि ।
११०. वानराणां क्षयं युद्धे न पश्यामि कथञ्चन ॥
१११. नाशय त्वमिमानद्य तदर्थं बोधितो भवान् ।
११२. भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम्॥
११३. मयैवं नोक्तपूर्वो हि भ्राता कश्चित् परन्तप ।
११४. त्वय्यस्ति मम च स्नेहः परा सम्भावना च मे ॥
११५. न हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥
११६. कुरुष्व मे प्रियहितमेतदुत्तमम्
११७. यथाप्रियं प्रियरण बान्धवप्रिय ।
११८. स्वतेजसा व्यथय सपत्नवाहिनीम्
११९. शरद्‍घनं पवन इवोद्यतो महान् ॥
१२०. तस्य राक्षसराजस्य निशम्य परिदेवितम्।
१२१. कुम्भकर्णो बभाषेदं वचनं प्रजहास च ॥
१२२. दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये ।
१२३. हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया ॥
१२४. प्रथमं वै महाराज कृत्यमेतदचिन्तितम्।
१२५. केवलं वीर्यदर्पेण नानुबन्धो विचारितः ॥
१२६. काले धर्मार्थकार्यान् यः सम्मन्त्र्य सचिवैः सह ।
१२७. निषेवेतात्मवान् लोके न स व्यसनमाप्नुयात् ॥
१२८. अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।
१२९. प्रागल्भ्यात् वक्तुमिच्छन्ति मन्त्रिष्वभ्यन्तरीकृताः ॥
१३०. अशास्त्रविदुषां तेषां न कार्यमहितं वचः ॥
१३१. तान् भर्ता मित्रसङ्काशानमित्रान् मन्त्रनिर्णये ।
१३२. व्यवहारेण जानीयात् सचिवानुपसंहितान् ॥
१३३. यदुक्तमिह ते पूर्वं क्रियतामनुजेन च ।
१३४. तदेव नो हितं कार्यं यथेच्छसि तथा कुरु ॥
१३५. तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम्।
१३६. भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमभाषत ॥
१३७. मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससे ।
१३८. किमेवं वाक्श्रमं कृत्वा यद्युक्तं तद् विधीयताम्॥
१३९. विभ्रमात् चित्तमोहाद्वा बलवीर्याश्रयेण वा ।
१४०. नाभिपन्नमिदानीं यद् व्यर्था तस्य पुनः कथाः ॥
१४१. अस्मिन् काले तु यद्युक्तं तदिदानीं विचिन्त्यताम्।
१४२. गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥
१४३. ममापनयजं दोषं विक्रमेण समीकुरु ॥
१४४. अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम्।
१४५. कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ॥
१४६. अलं राक्षसराजेन्द्र सन्तापमुपमद्य ते ।
१४७. रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ॥
१४८. सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ।
१४९. मुञ्च रामाद् भयं घोरं निहनिष्यामि संयुगे ।
१५०. राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम्।
१५१. हनूमन्तं च रक्षोघ्नं येन लङ्का प्रदीपिता ॥
१५२. असाधारणमिच्छामि तव दातुं महद् यशः ।
१५३. अपि चेन्द्रात् भयं राजन् यदि चापि स्वयम्भुवः ।
१५४. ततोऽहं नाशयिष्यामि नैशं तम इवांशुमान् ॥
१५५. यमं च शमयिष्यामि भक्षयिष्यामि पावकम्।
१५६. आदित्यं पातयिष्यामि सनक्षत्रं महीतले ।
१५७. पर्वतान्श्चूर्णयिष्यामि दारयिष्यामि मेदिनीम्॥
१५८. दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम्।
१५९. अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ॥
१६०. रमस्व राजन् पिब चाद्य वारुणीम्
१६१. कुरुष्व कृत्यानि विनीय दुःखम्।
१६२. मयाद्य रामे गमिते यमक्षयम्
१६३. चिराय सीता वशगा भविष्यति ॥
१६४. एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः ।
१६५. प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः ॥
१६६. कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च ।
१६७. गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ॥
१६८. शयानः शत्रुनाशार्थं भवान् सम्बोधितो मया ।
१६९. वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ ॥
१७०. सङ्गच्छ शूलमादाय पाशहस्त इवान्तकः ।
१७१. सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः ॥
१७२. समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः ।
१७३. रामलक्ष्मणयोश्चापि हृदये प्रस्फुठिष्यतः ॥
१७४. एवमुक्त्वा महातेजाः कुम्भकर्णं महाबलम्।
१७५. पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ॥
१७६. राज्ञस्तु वचनं श्रुत्वा योद्धुमुद्युक्तवान्स्तदा ।
१७७. आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः ।
१७८. सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम्।
१७९. देवदानवगन्धर्वयक्षपन्नगसूदनम्।
१८०. रक्तमाल्यमहादामं स्वतश्चोद्गतपावकम्॥
१८१. अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम्।
१८२. आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ॥
१८३. अङ्गदान्यंगुलीवेष्टान् वराण्याभरणानि च ।
१८४. हारं च शशिसङ्काशमाबबन्ध महात्मनः ॥
१८५. दिव्यानि च सुगन्धीनि माल्यदामानि रावणः ।
१८६. गात्रेषु सज्जयामास श्रोत्रयोश्चापि कुण्डले ॥
१८७. काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः ।
१८८. कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ॥
१८९. स काञ्चनं भारसहं निवातम्
१९०. विद्युत्प्रभं दीप्तमिवात्मभासा ।
१९१. आबध्यमानः कवचं रराज
१९२. सन्ध्याभ्रसंवीत इवाद्रिराजः ॥
१९३. सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः ।
१९४. त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥
१९५. भ्रातरं सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम्।
१९६. प्रणम्य शिरसा तस्मै प्रतस्थे स महाबलः ॥
१९७. तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ॥
१९८. तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः ।
१९९. अनुजग्मुर्महात्मानो रथिनो रथिनां वरम्॥
२००. पदातयश्च बहवो महानादा महाबलाः ।
२०१. अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥
२०२. धनुःशतपरीणाहः स षट्शतसमुच्छ्रितः ।
२०३. रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ।
२०४. सन्निपत्य च रक्षांसि दग्धशैलोपमो महान् ।
२०५. कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥
२०६. अद्य वानरमुख्यानां तानि यूथानि भागशः ।
२०७. निर्दहिष्यामि सङ्क्रुद्धः पतङ्गानिव पावकः ॥
२०८. नापराध्यन्ति मे कामं वानरा वनचारिणः ।
२०९. जातिरस्मद्विधानां स पुरोद्यानविभूषणम्॥
२१०. पुररोधस्य मूलं तु राघवः सहलक्ष्मणः ।
२११. हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ॥
२१२. एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः ।
२१३. नादं चक्रुर्महाघोरं कंपयन्त इवार्णवम्॥
२१४. तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः ।
२१५. बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥
२१६. प्रास्फुरन्नयनं चास्य सव्यो बाहुरकंपत ।
२१७. आदित्यो निष्प्रभश्चासीत् न वाति च सुखोऽनिलः ॥
२१८. अचिन्तयन् महोत्पातानुदितान् रोमहर्षणान् ।
२१९. निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥
२२०. तमवध्यं मघवता यमेन वरुणेन वा ।
२२१. प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥
२२२. तान्स्तु विप्रद्रुतान् दृष्ट्वा राजपुत्रोऽङ्गदोऽब्रवीत् ।
२२३. आत्मनस्तानि विस्मृत्य वीर्याण्यभिजनानि च ।
२२४. क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥
२२५. निरायुधानां क्रमतामसङ्गगतिपौरुषाः ।
२२६. दारा ह्युपहसिष्यन्ति स वै घातः सुजीविनाम्॥
२२७. विकत्थनानि वो यानि भवद्भिः जनसंसदि ।
२२८. तानि वः क्व नु यातानि सोदग्राणि हितानि च ॥
२२९. अवाप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे ।
२३०. निहता वीरलोकस्य भोक्ष्यामो वसु वानराः ॥
२३१. नालं युद्धाय वै रक्षो महतीयं बिभीषिका ।
२३२. महतीमुत्थितामेषां राक्षसानां बिभीषिकाम्।
२३३. विक्रमाद् विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥
२३४. कृच्छ्रेण तु समाश्वस्य सङ्गम्य च ततस्ततः ।
२३५. वृक्षान् गृहीत्वा हरयः सम्प्रतस्थू रणाजिरे ॥
२३६. ते निवर्त्य तु संरब्धाः कुम्भकर्णं वनौकसः ।
२३७. निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥
२३८. प्रांशुभिः गिरिशृङ्गैश्च शिलाभिश्च महाबलाः ।
२३९. पादपैः पुष्पिताग्रैश्च हन्यमानो न कंपते ॥
२४०. सोऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम्।
२४१. ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥
२४२. लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः ।
२४३. निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥
२४४. लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ।
२४५. केचित् समुद्रे पतिताः केचित् गगनमास्थिताः ॥
२४६. सागरा येन ते तीर्णाः पथा तेनैव दुद्रुवुः ।
२४७. ऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः ॥
२४८. केचित् भूमौ निपतिताः केचित् सुप्ता मृता इव ।
२४९. द्रवमाणास्तु ते वीरा अङ्गदेन बलीमुखाः ।
२५०. सान्त्वनैश्चानुमानैश्च ततः सर्वे निवर्तिताः ॥
२५१. पर्यवस्थापिता वाक्यैरङ्गदेन बलीयसा ।
२५२. चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥
२५३. अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च ।
२५४. वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् ॥
२५५. तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः ।
२५६. समारुह्य समुत्पत्य ददंशुश्च महाबलाः ॥
२५७. तं नखैर्दशनैश्चापि मुष्टिभिर्बाहुभिस्तथा ।
२५८. कुम्भकर्णं महाबाहुं निजघ्नुः वानरर्षभाः ॥
२५९. बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः ।
२६०. भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव ॥
२६१. प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसन्निभे ।
२६२. नासापुटाभ्यां सञ्जग्मुः कर्णाभ्यां चैव वानराः ॥
२६३. भक्षयन् भृशसङ्क्रुद्धो हरीन् पर्वतसन्निभः ।
२६४. मांसशोणितसङ्क्लेदां कुर्वन् भूमिं स राक्षसः ।
२६५. चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः ॥
२६६. वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः ।
२६७. शूलहस्तो बभौ युद्धे कुम्भकर्णो महाबलः ॥
२६८. यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः ।
२६९. तथा वानरसैन्यानि कुम्भकर्णो ददाह सः ॥
२७०. प्रभग्नान् वानरान् दृष्ट्वा सुग्रीवो वानराधिपः ।
२७१. अभिदुद्राव वेगेन कुम्भकर्णं महाबलम्॥
२७२. कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् ।
२७३. कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥
२७४. त्यज तद् वानरानीकं प्राकृतैः किं करिष्यसि ।
२७५. सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस ॥
२७६. तद् वाक्यं हरिराजस्य सत्यधैर्यसमन्वितम्।
२७७. श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः ॥
२७८. प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजः सुतः ।
२७९. धृतिपौरुषसम्पन्नः तस्मात् गर्जसि वानर ॥
२८०. स कुम्भकर्णस्य वचो निशम्य
२८१. व्याविध्य शैलं सहसा मुमोच ।
२८२. तेनाजघानोरसि कुम्भकर्णम्
२८३. शैलेन वज्राशनिसन्निभेन ॥
२८४. तच्छैलशृङ्गं सहसा विभिन्नम्
२८५. भुजान्तरे तस्य तदा विशाले ।
२८६. ततो विषेदुः सहसा प्लवङ्गा
२८७. रक्षोगणाश्चापि मुदा विनेदुः ॥
२८८. स शैलशृङ्गाभिहतश्चुकोप
२८९. ननाद रोषाच्च विवृत्य वक्त्रम्।
२९०. व्याविध्य शूलं स तडित्प्रकाशम्
२९१. चिक्षेप हर्यृक्षपतेर्वधाय ॥
२९२. तत् कुम्भकर्णस्य भुजप्रणुन्नम्
२९३. शूलं शितं काञ्चनधामयष्टिम्।
२९४. क्षिप्रं समुत्पत्य निगृह्य दोर्भ्याम्
२९५. बभञ्ज वेगेन सुतोऽनिलस्य ॥
२९६. कृतं भारसहस्रस्य शूलं कालायसं महत् ।
२९७. बभञ्ज जानुमारोप्य तदा हृष्टः प्लवङ्गमः ॥
२९८. स तत् तथा भग्नमवेक्ष्य शूलम्
२९९. चुकोप रक्षोधिपतिर्महात्मा ।
३००. उत्पाट्य लङ्कामलयात् स शृङ्गम्
३०१. जघान सुग्रीवमुपेत्य तेन ॥
३०२. स शैलशृङ्गाभिहतो विसञ्ज्ञः
३०३. पपात भूमौ युधि वानरेन्द्रः ।
३०४. तं वीक्ष्य भूमौ पतितं विसञ्ज्ञम्
३०५. स कुम्भकर्णो युधि वानरेन्द्रम्।
३०६. जहार सुग्रीवमभिप्रगृह्य
३०७. यथानिलो मेघमिव प्रचण्डः ॥
३०८. विद्रुतां वाहिनीं दृष्ट्वा वानराणामितस्ततः ।
३०९. कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम्।
३१०. हनूमान्श्चिन्तयामास मतिमान् मारुतात्मजः ॥
३११. भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसम्।
३१२. अथवा स्वयमप्येष मोक्षं प्राप्स्यति वानरः ॥
३१३. मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः ।
३१४. अप्रीतिश्च भवेत् कष्टा कीर्तिनाशच शाश्वतः ॥
३१५. तस्मान् मुहूर्तं कांक्षिष्ये विक्रमं मोक्षितस्य तु ।
३१६. भिन्नं च वानरानीकं तावदाश्वासयाम्यहम्॥
३१७. इत्येवं चिन्तयित्वाथ हनुमान् मारुतात्मजः ।
३१८. भूयः संस्तम्भयामास वानराणां महाचमूम्॥
३१९. स कुम्भकर्णोऽथ विवेश लङ्काम्
३२०. स्फुरन्तमादाय महाहरिं तम्।
३२१. विमानचर्यागृहगोपुरस्थैः
३२२. पुष्पाग्र्यवर्षैरभिपूज्यमानः ॥
३२३. लाजगन्धोदवर्षैस्तु सेच्यमानः शनैः शनैः ।
३२४. राजवीथ्यास्तु शीतत्वात् सञ्ज्ञां प्राप महाबलः ॥
३२५. कपिः स सञ्ज्ञामुपलभ्य कृच्छ्रात्
३२६. बलीयसस्तस्य भुजान्तरस्थः ।
३२७. ततः कराग्रैः सहसा समेत्य
३२८. राजा हरीणाममरेन्द्रशत्रोः ।
३२९. खरैश्च कर्णौ दशनैश्च नासाम्
३३०. ददंश पादैर्विददार पार्श्वौ ॥
३३१. स कुम्भकर्णो हृतकर्णनासो
३३२. विदारितस्तेन विमर्दितश्च ।
३३३. रोषाभिभूतः क्षतजार्द्रगात्रः
३३४. सुग्रीवमाविध्य पिपेष भूमौ ॥
३३५. स भूतले भीमबलाभिपिष्टः
३३६. सुरारिभिस्तैरभिहन्यमानः ।
३३७. जगाम खं कन्दुकवज्जवेन
३३८. पुनश्च रामेण समाजगाम ॥
३३९. कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः ।
३४०. रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव ॥
३४१. शोणिताद्रो महाकायो राक्षसो भीमदर्शनः ।
३४२. नीलाञ्जनचयप्रख्यः ससन्ध्य इव तोयदः ।
३४३. युद्धायाभिमुखो भूयो मनश्चक्रे निशाचरः ॥
३४४. ततः स पुर्याः सहसा महौजा
३४५. निष्क्रम्य तद्वानरसैन्यमुग्रम्।
३४६. बभक्ष रक्षो युधि कुम्भकर्णः
३४७. प्रजायुगान्ताग्निरिव प्रवृद्धः ॥
३४८. ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम्।
३४९. स ददर्श महात्मानं किरीटिनमरिन्दमम्।
३५०. शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम्॥
३५१. तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम्।
३५२. विष्फारयामास तदा कार्मुकं पुरुषर्षभः ॥
३५३. स तस्य चापनिर्घोषात् कुपितो राक्षसर्षभः ।
३५४. अमृष्यमाणस्तं घोषमभिदुद्राव राघवम्॥
३५५. ततस्तु वातोद्धतमेघकल्पम्
३५६. भुजङ्गराजोत्तमभोगबाहुम्।
३५७. तमापतन्तं धरणीधराभम्
३५८. उवाच रामो युधि कुम्भकर्णम्॥
३५९. आगच्छ रक्षोऽधिप मा विषाद-
३६०. मवस्थितोऽहं प्रगृहीतचापः ।
३६१. अवेहि मां राक्षसवंशनाशनम्
३६२. यस्त्वं मुहूर्ताद् भविता विचेताः ॥
३६३. रामोऽयमिति विज्ञाय जहास विकृतस्वनम्।
३६४. अभ्यधावत सङ्क्रुद्धो हरीन् विद्रावयन् रणे ॥
३६५. दारयन्निव सर्वेषां हृदयानि वनौकसाम्।
३६६. कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ॥
३६७. नाहं विराधो विज्ञेयो न कबन्धः खरो न च ।
३६८. न वाली न च मारीचः कुम्भकर्णः समागतः ॥
३६९. स्वल्पापि हि न मे पीडा कर्णनासाविपर्ययात् ।
३७०. विकर्णनास इति मां नावज्ञातुं त्वमर्हसि ॥
३७१. दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मेऽनघ ।
३७२. ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम्॥
३७३. स कुम्भकर्णस्य वचो निशम्य
३७४. रामः सपुङ्खान् विससर्ज बाणान् ।
३७५. तैराहतो वज्रसमप्रवेगै-
३७६. र्न चुक्षुभे न व्यतथे सुरारिः ॥
३७७. यैः सायकैः सालवरा निकृत्ता
३७८. वाली हतो वानरपुङ्गवश्च ।
३७९. ते कुम्भकर्णस्य तदा शरीरम्
३८०. वज्रोपमा न व्यथयांप्रचक्रुः ॥
३८१. वायव्यमादाय ततो वरास्त्रम्
३८२. रामः प्रचिक्षेप निशाचराय ।
३८३. समुद्गरं तेन जहार बाहुम्
३८४. स कृत्तबाहुस्तुमुलं ननाद ॥
३८५. स कुम्भकर्णोऽस्त्रनिकृत्तबाहु-
३८६. र्महासिकृत्ताग्र इवाचलेन्द्रः ।
३८७. उत्पाटयामास करेण वृक्षम्
३८८. ततोऽभिदुद्राव रणे नरेन्द्रम्॥
३८९. तं तस्य बाहुं सहतालवृक्षम्
३९०. समुद्यतं पन्नगभोगकल्पम्।
३९१. ऐन्द्रास्त्रयुक्तेन जघान रामो
३९२. बाणेन जाम्बूनदचित्रितेन ॥
३९३. तं छिन्नबाहुं समवेक्ष्य रामः
३९४. समापतन्तं सहसा नदन्तम्।
३९५. द्वावर्धचन्द्रौ निशितौ प्रगृह्य
३९६. चिच्छेद पादौ युधि राक्षसस्य ॥
३९७. निकृत्तबाहुर्विनिकृत्तपादो
३९८. विदार्य वक्त्रं वदवामुखाभम्।
३९९. दुद्राव रामं सहसा विगर्जन्
४००. राहुर्यथा चन्द्रमिवान्तरिक्षे ॥
४०१. अपूरयत् तस्य मुखं शिताग्रै
४०२. रामः शरैर्हेमपिनद्धपुङ्खैः ।
४०३. सम्पूर्णवक्त्रो न शशाक वक्तुम्
४०४. चुकूज कृच्छ्रेण मुमूर्च्छ चापि ॥
४०५. अथाददे सूर्यमरीचिकल्प-
४०६. मरिष्टमैन्द्रं निशितं सुपुङ्खम्।
४०७. तं वज्रजाम्बूनदचारुपुङ्खम्
४०८. रामः प्रचिक्षेप निशाचराय ॥
४०९. स सायको राघवबाहुचोदितो
४१०. सुवृत्तदंष्‍ट्रं चलचारुकुण्डलम्।
४११. चकर्त रक्षोऽधिपतेः शिरस्तदा
४१२. यथैव वृत्रस्य पुरा पुरन्दरः ॥
४१३. कुम्भकर्णशिरो भाति कुण्डलालंकृतं महत् ।
४१४. आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ॥
४१५. तद्रामबाणाभिहतं पपात
४१६. रक्षःशिरः पर्वतसन्निकाशम्।
४१७. बभञ्ज चर्यागृहगोपुराणि
४१८. प्राकारमुच्चं तमपातयच्च ॥
४१९. तच्चातिकायं हिमवत्प्रकाशम्
४२०. रक्षस्तदा तोयनिधौ पपात ।
४२१. ग्राहान् परान् मीनवरान् भुजङ्गमान्
४२२. ममर्द भूमिं च तथा विवेश ॥
४२३. तस्मिन् हते ब्राह्मणदेवशत्रौ
४२४. महाबले संयति कुम्भकर्णे ।
४२५. चचालभूर्भूमिधराश्च सर्वे
४२६. हर्षाच्च देवास्तुमुलं प्रणेदुः ॥
४२७. स कुम्भकर्णं सुरसैन्यमर्दनम्
४२८. महत्सु युद्धेषु कदाचनाजितम्।
४२९. ननन्द हत्वा भरताग्रजो रणे
४३०. महासुरं वृत्रमिवामराधिपः ॥