०३ ०३ नागपाशबन्धनम्

१. (राक्षसेन्द्रस्तथा) श्रुत्वा प्राप्तं रामं महाबलम्।
२. जातोद्वेगोऽभवत् किञ्चित् (स्वालयं प्रविवेश च ॥)
३. ततो राक्षसमादाय विद्युज्जिह्वं महाबलम्।
४. मायाविनं महामायं प्राविशद् यत्र मैथिली ॥
५. विद्युज्जिह्वं च मायाज्ञमब्रवीत् राक्षसाधिपः ।
६. मोहयिष्यावहे सीतां मायया जनकात्मजाम्॥
७. शिरो मायामयं गृह्य राघवस्य निशाचर ।
८. मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः ॥
९. एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः ।
१०. दर्शयामास तां मायां सुप्रयुक्तां स रावणे ॥
११. तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम्।
१२. अशोकवनिकायां च संविवेश महाबलः ॥
१३. ततो दीनामदैन्यार्हां ददर्श धनदानुजः ।
१४. उपसृत्य ततः सीतां प्रहर्षं नाम कीर्तयन् ।
१५. इदं च वचनं धृष्टमुवाच जनकात्मजाम्॥
१६. सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे ।
१७. खरहन्ता स ते भर्ता राघवः समरे हतः ॥
१८. छिन्नं ते सर्वथा मूलं दर्पश्च निहतो मया ।
१९. व्यसनेनात्मनः सीते मम भार्या भविष्यसि ॥
२०. अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ।
२१. शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा ॥
२२. समायातः समुद्रान्तं हन्तुं मां किल राघवः ।
२३. वानरेन्द्रप्रणीतेन बलेन महता मम ॥
२४. बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः ।
२५. अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ।
२६. असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥
२७. दिशः प्रव्राजितः सैन्यैः लक्ष्मणः प्लवगैः सह ।
२८. सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः ।
२९. निरस्तहनुकः सीते हनूमान् राक्षसैर्हतः ॥
३०. एवं तव हतो भर्ता ससैन्यो मम सेनया ।
३१. क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥
३२. तमब्रवीत् ततो राजा रावणो राक्षसं स्थितम्।
३३. विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम्॥
३४. अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः ।
३५. अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥
३६. एवमुक्तं तु तद्रक्षः शिरस्तद् प्रियदर्शनम्।
३७. उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥
३८. रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् ।
३९. त्रिषु लोकेषु विख्यातं रामस्यैतदिति ब्रुवन् ॥
४०. सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्।
४१. नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम्।
४२. केशान् केशान्तदेशं च तं च चूडामणिं शुभम्।
४३. एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता ।
४४. विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा ॥
४५. सकामा भव कैकेयि हतोऽयं कुलनन्दनः ।
४६. कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥
४७. आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम्।
४८. यन्मया चीरवसनं दत्त्वा प्रव्राजितो वनम्॥
४९. एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी ।
५०. जगाम जगतीं बाला छिन्ना तु कदली यथा ॥
५१. सा मुहूर्तात् समाश्वस्य परिलभ्याथ चेतनाम्।
५२. तच्छिरः समुपास्थाय विललापायतेक्षणा ।
५३. भर्तुः शिरो धनुस्तत्र समीक्ष्य च पुनः पुनः ॥
५४. एवं लालप्यमानायां सीतायां तत्र राक्षसः ।
५५. अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥
५६. न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम्।
५७. अमात्यैः सहितैः सर्वैः प्रहस्तः समुपस्थितः ।
५८. किञ्चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥
५९. एतच्छ्रुत्वा दशग्रीवः राक्षसप्रतिवेदितम्।
६०. अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥
६१. अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम्।
६२. जगाम रावणस्यैव निर्याणसमनन्तरम्॥
६३. सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी ।
६४. रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ।
६५. तां समाश्वासयामास सखीस्नेहेन सुव्रताम्॥
६६. समाश्वसिहि वैदेहि मा भूत् ते मनसो व्यथा ।
६७. न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः ॥
६८. अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना ।
६९. एवं प्रयुक्ता रौद्रेण माया मायाविना त्वयि ॥
७०. न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः ।
७१. वधश्च पुरुषव्याघ्रे तस्मिन् नैवोपपद्यते ॥
७२. न त्वेवं वानरा हन्तुं शक्या पादपयोधिनः ।
७३. सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥
७४. शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम्।
७५. ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं श्रुणु ॥
७६. उत्तीर्य सागरं रामः सह वानरसेनया ।
७७. सन्निविष्टः समुद्रस्य तीरमासाद्य दक्षिणम्॥
७८. अनेन प्रेषिता ये च राक्षसा लघुविक्रमाः ।
७९. राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता ॥
८०. स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः ।
८१. एष मन्त्रयते सर्वैः सचिवैः सह रावणः ॥
८२. इति ब्रुवाणा सरमा राक्षसी सीतया सह ।
८३. सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम्॥
८४. दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम्।
८५. उवाच सरमा सीतामिदं मधुरभाषिणी ॥
८६. घण्टानां श्रुणु निर्घोषं रथानां श्रुणु निस्वनम्।
८७. हयानां हेषमाणानां श्रुणु तूर्यध्वनिं तथा ॥
८८. उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम्।
८९. सम्भ्रमो रक्षसामेष तुमुलो रोमहर्षणः ॥
९०. रामः कमलपत्राक्षोऽदैत्यानामिव वासवः ।
९१. विनिर्जित्य जितक्रोधः त्वामचिन्त्यपराक्रमः ।
९२. रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति ॥
९३. अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने ।
९४. समागम्य परिष्वज्य तस्योरसि महोरसः ॥
९५. अचिरान्मोक्ष्यते देवि सीते ते जघनं गताम्।
९६. धृतानेतां बहून् मासान् वेणीं रामो महाबलः ॥
९७. रावणं समरे हत्वा न चिरादेव मैथिलि ।
९८. त्वया समग्रः प्रियया सुखार्हो लप्स्यते सुखम्॥
९९. समागता त्वं वीर्येण मोदिष्यसि महात्मना ।
१००. सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥
१०१. एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः ।
१०२. श्रुतो वै सर्वसैन्यानां कंपयन् धरणीतलम्॥
१०३. तेन शङ्खविमिश्रेण भेरीशब्देन नादिना ।
१०४. उपयाति महाबाहू रामः परपुरञ्जयः ॥
१०५. तं निनादं निशम्याथ रावणो राक्षसेश्वरः ।
१०६. मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ॥
१०७. सभां सन्नादयन् सर्वामित्युवाच महाबलः ।
१०८. तरणं सागरस्यास्य विक्रमं बलपौरुषम्।
१०९. यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम्॥
११०. भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् ।
१११. तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम्॥
११२. ततस्तु सुमहाप्राज्ञो माल्यवान् नाम राक्षसः ।
११३. रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् ॥
११४. विद्यास्वभिविनीतो यो राजा राजन् नयानुगः ।
११५. स शास्ति चिरमैश्वर्यमरीन्श्च कुरुते वशे ॥
११६. सन्दधानो हि कालेन विगृह्णन्श्चारिभिः सह ।
११७. स्वपक्षे वर्धनं कुर्वन् महदैश्वर्यमश्नुते ॥
११८. हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च ।
११९. न शत्रुमवमन्येत ज्यायान् कुर्वीत विग्रहम्॥
१२०. तन्मह्यं रोचते सन्धिः सह रामेण रावण ।
१२१. यदर्थमभियुक्तोऽसि सीता तस्मै प्रदीयताम्॥
१२२. तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः ।
१२३. विरोधं मा गमः तेन सन्धिस्ते तेन रोचताम्॥
१२४. धर्मो वै ग्रसतेऽधर्मं यदा कृतमभूद्युगम्।
१२५. अधर्मो ग्रसते धर्मं यदा तिष्यः प्रवर्तते ॥
१२६. तत् त्वया चरता लोकान् धर्मोऽपि निहतो महान् ।
१२७. अधर्मः प्रगृहीतश्च तेनास्मद् बलिनः परे ॥
१२८. स प्रवृद्धः प्रमादात् तेऽधर्मोऽभिग्रसते हि नः ॥
१२९. विषयेषु प्रसक्तेन यत्किञ्चित्कारिणा त्वया ।
१३०. ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ॥
१३१. तेषु तेषु च देशेषु पुण्येष्वेव दृढव्रतैः ।
१३२. चर्यमाणं तपस्तीव्रं सन्तापयति राक्षसान् ॥
१३३. देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया ।
१३४. मनुष्या वानरा ऋक्षा गोलाङ्गूला महाबलाः ।
१३५. बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥
१३६. उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधांस्तथा ।
१३७. विनाशमनुपश्यामि सर्वेषां रक्षसामहम्॥
१३८. ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम्॥
१३९. तत् तु माल्यवतो वाक्यं हितमुक्तं दशाननः ।
१४०. न मर्षयति दुष्टात्मा कालस्य वशमागतः ॥
१४१. स बद्ध्वा भ्रुकुटिं वक्त्रे माल्यवन्तमथाब्रवीत् ।
१४२. मानुषं कृपणं राममेकं शाखामृगाश्रयम्।
१४३. समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम्॥
१४४. रक्षसामीश्वरं मां च देवानां च भयङ्करम्।
१४५. हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः ॥
१४६. वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः ।
१४७. त्वयाहं परुषान्युक्तो परप्रोत्साहनेन वा ॥
१४८. प्रभवन्तं पदस्थं हि परुषं कोऽभिभाषते ।
१४९. पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद् रिपोः ॥
१५०. द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे ।
१५१. स कस्मात् रावणो युद्धे भयमाहारयिष्यति ॥
१५२. द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् ।
१५३. एष मे सहजो दोषः स्वभावो दुरतिक्रमः ॥
१५४. यदि तावत् समुद्रे तु सेतुर्बद्धो यदृच्छया ।
१५५. रामेण विस्मयः कोऽत्र येन ते भयमागतम्॥
१५६. स तु तीर्त्वार्णवं रामः सह वानरसेनया ।
१५७. प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति ॥
१५८. एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्।
१५९. व्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत ॥
१६०. रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च ।
१६१. लङ्कायास्तु तदा गुप्तिं कृत्वा राक्षसपुङ्गवः ।
१६२. कृतकृत्यमिवात्मानं मन्यते कालचोदितः ॥
१६३. नरवानरराजानौ स तु वायुसुतः कपिः ।
१६४. जाम्बवान्(अङ्गदश्चैव लक्ष्मणश्च) विभीषणः ।
१६५. अमित्रविषयं प्राप्ताः समवेताः समर्थयन् ॥
१६६. इयं स लक्ष्यते लङ्का पुरी रावणपालिता ।
१६७. सासुरोरगगन्धर्वैरमरैरपि दुर्जया ॥
१६८. कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये ।
१६९. नित्यं सन्निहितो यत्र रावणो राक्षसाधिपः ॥
१७०. अथ तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् ।
१७१. वाक्यमग्राम्यपदवत् पुष्कलार्थं विभीषणः ॥
१७२. गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः ।
१७३. विधानं विहितं यच्च तद् दृष्ट्वा समुपस्थिताः ॥
१७४. पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति ।
१७५. दक्षिणं च महावीर्यौ महापार्श्वमहाबलौ ॥
१७६. इन्द्रजित् पश्चिमं द्वारं राक्षसैर्बहुभिर्वृतः ।
१७७. उत्तरं नगरद्वारं रावणः स्वयमास्थितः ॥
१७८. विरूपाक्षस्तु सबलो मध्यमं गुल्ममाश्रितः ॥
१७९. गजानां दशसाहस्रं रथानामयुतं तथा ।
१८०. हयानामयुते द्वे च साग्रकोटिश्च रक्षसाम्॥
१८१. विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः ।
१८२. इष्टा राक्षसराजस्य नित्यमेते निशाचराः ॥
१८३. एकैकस्यात्र युद्धार्थे राक्षसस्य विशांपते ।
१८४. परीवारः सहस्राणां सहस्रमुपतिष्ठते ॥
१८५. कुबेरं तु यदा राम रावणः प्रतियुद्ध्यति ।
१८६. षष्ठिः शतसहस्राणि तदा निर्यान्ति राक्षसाः ॥
१८७. पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् ।
१८८. सदृशाह्यत्र दर्पेण रावणस्य दुरात्मनः ॥
१८९. अत्र मन्युर्न कर्तव्यः कोपये त्वां न भीषये ।
१९०. समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे ॥
१९१. रावणावरजे वाक्यमेवं ब्रुवति राघवः ।
१९२. शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् ॥
१९३. पूर्वद्वारं तु लङ्काया नीलो वानरपुङ्गवः ।
१९४. प्रहस्तं प्रतियोद्धा स्यात् वानरैर्बहुभिर्वृतः ॥
१९५. अङ्गदो वालिपुत्रस्तु बलेन महता वृतः ।
१९६. दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ ॥
१९७. हनुमान् पश्चिमद्वारं निष्पीड्य पवनात्मजः ।
१९८. प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः ॥
१९९. उत्तरं नगरद्वारमहं सौमित्रिणा सह ।
२००. निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ॥
२०१. वानरेन्द्रश्च बलवान् ऋक्षराजश्च वीर्यवान् ।
२०२. राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे ॥
२०३. एषा भवतु नः संज्ञा युद्धेऽस्मिन् वानरे बले ।
२०४. वानरा एव नश्चिह्नं स्वजनेऽस्मिन् भविष्यति ॥
२०५. वयं तु मानुषेणैव सप्त योत्स्यामहे परान् ।
२०६. अहमेव सहभ्रात्रा लक्ष्मणेन महौजसा ।
२०७. आत्मना पञ्चमश्चायं सखा मम विभीषणः ॥
२०८. स रामः कृत्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम्।
२०९. सुवेलारोहणे बुद्धिं चकार मतिमान् प्रभुः ॥
२१०. ततो रामः सुवेलाग्रं योजनद्वयमण्डलम्।
२११. उपारोहत् ससुग्रीवो हरियूथैः समन्वितः ॥
२१२. शिखरं तु त्रिकूटस्य स ददर्श दिविस्पृशम्।
२१३. मनसापि दुरारोहं किं पुनः कर्मणा जनैः ॥
२१४. निविष्टा तस्य शिखरे लङ्का रावणपालिता ।
२१५. दशयोजनविस्तीर्णा विंशद्योजनमायता ॥
२१६. तां समृद्धां समृद्धार्थां लक्ष्मीवान् लक्ष्मणाग्रजः ।
२१७. रावणस्य पुरीं रामो ददर्श सह वानरैः ॥
२१८. तस्य गोपुरशृङ्गस्थं राक्षसेन्द्रं ददर्श ह ।
२१९. नीलजीमूतसङ्काशं हेमसन्छादिताम्बरम्।
२२०. सन्ध्यातपेन सन्छन्नं मेघराशिमिवाम्बरे ॥
२२१. दर्शनात् राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ।
२२२. क्रोधवेगेन संयुक्तः सत्त्वेन च बलेन च ।
२२३. अचलाग्रातथोत्थाय पुप्लुवे गोपुरस्थले ॥
२२४. स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना ।
२२५. तृणीकृत्य च तद्रक्षः सोऽब्रवीत् परुषं वचः ॥
२२६. लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस ।
२२७. न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा ॥
२२८. इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि ।
२२९. आकृष्य मुकुटं चित्रं पातयामास तद् भुवि ॥
२३०. समीक्ष्य तूर्णमायान्तं बभाषे तं निशाचरः ।
२३१. सुग्रीवस्त्वं परोक्षं मे हीनग्रीवो भविष्यसि ॥
२३२. इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत् तले ।
२३३. कन्दुवत् स समुत्थाय बाहुभ्यामाक्षिपत् हरिः ॥
२३४. तौ परस्परमासाद्य यत्तौ अन्योन्यसूदने ।
२३५. मार्जाराविव भक्षार्थेऽवतस्थाते मुहुर्मुहुः ॥
२३६. मण्डलानि विचित्राणि स्थानानि विविधानि च ।
२३७. तौ विचेरतुरन्योन्यं वानरेन्द्रश्च रावणः ॥
२३८. मुष्टिप्रहारैश्च तलप्रहारैः
२३९. अरत्निघातैश्च कराग्रघातैः ।
२४०. तौ चक्रतुर्युद्धमसह्यरूपम्
२४१. महाबलौ राक्षसवानरेन्द्रौ ॥
२४२. एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः ।
२४३. आरब्धुमुपसम्पेदे ज्ञात्वा तं वानराधिपः ।
२४४. उत्पपात तदाकाशं जितकाशि जितक्लमः ।
२४५. रावणः स्थित एवात्र हरिराजेन वञ्चितः ॥
२४६. अथ हरिवरनाथः प्राप्तसङ्ग्रामकीर्तिः
२४७. निशिचरपतिमाजौ योजयित्वा श्रमेण ।
२४८. गगनमतिविशालं लङ्घयित्वार्कसूनुः
२४९. हरिगणबलमध्ये रामपार्श्वं जगाम ॥
२५०. अथ तस्मिन् निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः ।
२५१. सुग्रीवं सम्परिष्वज्य रामो वचनमब्रवीत् ॥
२५२. असम्मन्त्र्य मया सार्धं तदिदं साहसं कृतम्।
२५३. एवं साहसयुक्तानि न कुर्वन्ति जनेश्वराः ॥
२५४. संशये स्थाप्य मां चेदं बलं चेमं विभीषणम्।
२५५. कष्टं कृतमिदं वीर साहसं साहसप्रिय ॥
२५६. इदानीं मा कृथा वीर एवंविधमरिन्दम ।
२५७. त्वयि किञ्चित् समापन्ने किं कार्यं सीतया मम ॥
२५८. तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत ।
२५९. तव भार्यापहर्तारं दृष्ट्वा राघव रावणम्।
२६०. मर्षयामि कथं वीर जानन् विक्रममात्मनः ॥
२६१. इत्येवं वादिनं वीरमभिनन्द्य च राघवः ।
२६२. लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् ॥
२६३. लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्।
२६४. निबर्हणं प्रवीराणां ऋक्षवानरराक्षसाम्॥
२६५. मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः ।
२६६. क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥
२६७. आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम्।
२६८. दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ॥
२६९. युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ।
२७०. शैलैः शूलैश्च खड्गैश्च विमुक्तैः कपिराक्षसैः ।
२७१. भविष्यत्यावृता भूमिः मांसशोणितकर्दमा ॥
२७२. क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम्।
२७३. अभियाम जवेनैव सर्वतो हरिभिर्वृताः ॥
२७४. इत्येवं तु वदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः ।
२७५. तस्मादवातरत् शीघ्रं पर्वताग्रात् महाबलः ॥
२७६. ततः काले महाबाहुर्बलेन महता वृतः ।
२७७. प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम्॥
२७८. ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम्।
२७९. प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम्॥
२८०. ते तु वानरशार्दूलाः शार्दूला इव दंष्‍ट्रिणः ।
२८१. गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे ॥
२८२. दशनागबलाः केचित् केचित् दशगुणोत्तराः ।
२८३. केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥
२८४. परिपूर्णमिवाकाशं सम्पूर्णेव च मेदिनी ।
२८५. लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः ॥
२८६. वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः ।
२८७. सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना ॥
२८८. महान् शब्दोऽभवत् तत्र बलौघस्याभिवर्ततः ।
२८९. सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः ॥
२९०. राघवः सन्निवेश्यैवं स्वसैन्यं रक्षसां वधे ।
२९१. विभीषणस्यानुमते राजधर्ममनुस्मरन् ।
२९२. अङ्गदं वालितनयं समाहूयेदमब्रवीत् ॥
२९३. गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात् कपे ।
२९४. लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः ॥
२९५. ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा ।
२९६. यच्च पापं कृतं मोहादवलिप्तेन राक्षस ।
२९७. तस्य पापस्य सम्प्राप्ता व्युष्टिरद्य दुरासदा ॥
२९८. बलेन येन वै सीतां मायया राक्षसाधम ।
२९९. मामतिक्रामयित्वा त्वं हृतवान्स्तन्निदर्शय ॥
३००. अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ।
३०१. न चेच्छरणमभ्येषि तामादाय तु मैथिलीम्॥
३०२. धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तोऽयं विभीषणः ।
३०३. लङ्कैश्वर्यं ध्रुवं श्रीमानिदं प्राप्नोत्यकण्टकम्॥
३०४. युध्यस्व मा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस ।
३०५. मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ॥
३०६. ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदैहिकम्।
३०७. सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम्॥
३०८. इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा ।
३०९. जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ॥
३१०. सोऽतिपत्य मुहूर्तेन श्रीमान् रावणमन्दिरम्।
३११. ददर्शासीनमव्यग्रं रावणं सचिवैः सह ॥
३१२. तद् रामवचनं सर्वमन्यूनाधिकमुत्तमम्।
३१३. सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥
३१४. श्रुत्वा तद् रोषमापन्नो निशाचरगणेश्वरः ।
३१५. गृह्यतामिति दुर्मेधा शशास सचिवान्स्तदा ॥
३१६. जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ॥
३१७. ग्राहयामास तारेयः स्वयमात्मानमात्मवान् ।
३१८. बलं दर्शयितुं वीरो यातुधानगणे तदा ॥
३१९. स तान् बाहुद्वयासक्तानादाय पतगानिव ।
३२०. प्रासादं शैलसङ्काशं उत्पपाताङ्गदस्तदा ॥
३२१. तस्योत्पतनवेगेन निर्धूतास्तत्र राक्षसाः ।
३२२. भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ॥
३२३. ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम्।
३२४. चक्राम राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ॥
३२५. पफाल च तदाक्रान्तं दशग्रीवस्य पश्यतः ।
३२६. पुरा हिमवतः शृङ्गं वज्रेणेव विदारितम्॥
३२७. भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः ।
३२८. विनद्य सुमहानादमुत्पपात विहायसा ॥
३२९. व्यथयन् राक्षसान् सर्वान् हर्षयन्श्चापि वानरान् ।
३३०. स वानराणां मध्ये तु रामपार्श्वमुपागतः ॥
३३१. रामस्तु बहुभिर्हृष्टैर्विनदद्भिः प्लवङ्गमैः ।
३३२. वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ॥
३३३. दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम्।
३३४. निपीड्यमानां धर्मात्मा वैदेहीमनुचिन्तयन् ।
३३५. क्षिप्रमाज्ञापयद् रामो वानरान् द्विषतां वधे ॥
३३६. ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ।
३३७. लङ्कामेवाभ्यवर्तन्त सालभूधरयोधिनः ॥
३३८. जयत्युरुबलो रामो लक्ष्मणश्च महाबलः ।
३३९. राजा जयति सुग्रीवो राघवेणाभिपालितः ॥
३४०. इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
३४१. अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥
३४२. ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ।
३४३. निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत् तदा ॥
३४४. रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः ।
३४५. निर्ययू राक्षसा वीरा नादयन्तो दिशो दश ॥
३४६. एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम्।
३४७. रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ॥
३४८. हरिराक्षसदेहेभ्यः प्रभूताः केशशाद्वलाः ।
३४९. शरीरसङ्घाटवहाः प्रसुस्रुः शोणितापगाः ॥
३५०. अङ्गदेनेन्द्रजित् सार्धं वालिपुत्रेण राक्षसः ।
३५१. अयुध्यत महातेजाः त्र्यम्बकेण यथान्धकः ॥
३५२. आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः ।
३५३. अङ्गदं गदया वीरं शत्रुसैन्यविदारणम्॥
३५४. तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्।
३५५. जघान गदया श्रीमानङ्गदो वेगवान् हरिः ॥
३५६. इन्द्रजित् तु रथं त्यक्त्वा हताश्वो हतसारथिः ।
३५७. अङ्गदेन महाकायस्तत्रैवान्तरधीयत ॥
३५८. सोऽन्तर्धानगतः पापो रावणी रणकर्शितः ।
३५९. अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः ॥
३६०. रामं च लक्ष्मणं चैव घोरैर्नागमयैः शरैः ।
३६१. बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ॥
३६२. ततः पर्यन्तरक्षाक्षो भिन्नाञ्जनचयोपमः ।
३६३. रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ॥
३६४. युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः ।
३६५. द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम्॥
३६६. प्रापिताविषुजालेन राघवौ कङ्कपत्रिणा ।
३६७. एष रोषपरीतात्मा नयामि यमसादनम्॥
३६८. एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ ।
३६९. निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ॥
३७०. भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः ।
३७१. भूय एव शरान् घोरान् विससर्ज महामृधे ॥
३७२. ततो मर्मसु मर्मज्ञो मज्जयन् निशितान् शरान् ।
३७३. रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ॥
३७४. बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि ।
३७५. निपेततुर्महेश्वासौ जगत्यां जगतीपती ॥
३७६. न ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम्।
३७७. नानिर्विण्णं न चाध्वस्तमाकराग्रादजिह्मगैः ॥
३७८. तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा ।
३७९. असृक् सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ॥
३८०. बद्धौ तु तौ वीरशये शयानौ
३८१. ते वानराः सम्परिवार्य तस्थुः ।
३८२. समागता वायुसुतप्रमुख्याः
३८३. विषादमार्ता परमं च जग्मुः ॥
३८४. इन्द्रजित् त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ।
३८५. उवाच परमप्रीतो हर्षयन् सर्वराक्षसान् ॥
३८६. दूषणस्य च हन्तारौ खरस्य च महाबलौ ।
३८७. सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ ॥
३८८. यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम ।
३८९. अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी ॥
३९०. कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ।
३९१. सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया ॥
३९२. रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम्।
३९३. विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ॥
३९४. एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः ।
३९५. हतो राम इति ज्ञात्वा रावणिं समपूजयन् ॥
३९६. निष्पन्दौ तु तदा दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
३९७. वसुधायां निरुच्‍छ्वासौ हतौ इत्यन्वमन्यत ॥
३९८. हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः ।
३९९. प्रविवेश पुरीं लङ्कां हर्षयन् सर्वराक्षसान् ॥
४००. तत्र रावणमासाद्य अभिवाद्य कृताञ्जलिः ।
४०१. आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ॥
४०२. स हर्षवेगानुगतान्तरात्मा
४०३. श्रुत्वा गिरं तस्य महारथस्य ।
४०४. जहौ ज्वरं दाशरथेः समुत्थम्
४०५. प्रहृष्टवाचाभिननन्द पुत्रम्॥
४०६. रावणस्त्वथ संहृष्टो विसृज्येन्द्रजितं सुतम्।
४०७. आजुहाव ततः सीतारक्षणी राक्षसीस्तदा ॥
४०८. ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ।
४०९. हतौ इन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ ॥
४१०. पुष्पकं तत् समारोप्य दर्शयध्वं रणे हतौ ।
४११. यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठते ॥
४१२. सोऽस्या भर्ता सह भ्रात्रा निहतो रणमूर्धनि ।
४१३. अवेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती ।
४१४. निरपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम्॥
४१५. ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया ।
४१६. अशोकवनिकास्थां तां मैथिलीं समुपानयन् ॥
४१७. ततः पुष्पकमारोप्य सीतां त्रिजटया सह ।
४१८. जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ ॥
४१९. ततः सीता ददर्शोभौ शयानौ शरतल्पगौ ।
४२०. लक्ष्मणं चैव रामं च विसञ्ज्ञौ शरपीडितौ ॥
४२१. विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ ।
४२२. सायकैः छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ ।
४२३. प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा ॥
४२४. भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम्।
४२५. विललाप भृशं सीता करुणं शोककर्शिता ॥
४२६. ऊचुर्लाक्षणिका ये मां पुत्रिण्यविधवेति च ।
४२७. तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥
४२८. यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः ।
४२९. तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥
४३०. आधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह ।
४३१. कृतान्तकुशलैरुक्तं तत् सर्वं वितथीकृतम्॥
४३२. शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च ।
४३३. तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥
४३४. न कालस्यातिभारोऽस्ति कृतान्तस्य सुदुर्जयः ।
४३५. यत्र रामः सहभ्रात्रा शेते युधि निपातितः ॥
४३६. न शोचामि तथा रामं लक्ष्मणं च महारथम्।
४३७. नात्मानं जननीं चापि यथा श्वश्रूं तपस्विनीम्॥
४३८. परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत् ।
४३९. मा विषादं कृथा देवि भर्तायं तव जीवति ॥
४४०. इदं विमानं वैदेहि पुष्पकं नाम नामतः ।
४४१. दिव्यं त्वां धारयेन्नेदं यद्येतौ गतजीवितौ ॥
४४२. इदं तु सुमहच्चिह्नं शनैः पश्यस्व मैथिलि ।
४४३. निस्सञ्ज्ञौ अप्युभौ एतौ नैव लक्ष्मीर्वियुज्यते ॥
४४४. प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम्।
४४५. दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम्॥
४४६. अनृतं नोक्तपूर्वं मे न च वक्ष्यामि मैथिलि ।
४४७. चारित्रसुखशीलत्वात् प्रविष्टासि मनो मम ॥
४४८. सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः ।
४४९. अहतौ पश्य काकुत्स्थौ स्नेहादेतद् ब्रवीमि ते ॥
४५०. श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा ।
४५१. कृताञ्जलिरुवाचेमां एवमस्त्विति मैथिली ॥
४५२. विमानं पुष्पकं तत्तु सन्निवर्त्य मनोजवम्।
४५३. दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ॥
४५४. तस्मिन् प्रविष्टे लङ्कायां कृतार्थे रावणात्मजे ।
४५५. राघवं परिवार्याथ ररक्षुर्वानरर्षभाः ॥
४५६. वीक्षमाणा दिशः सर्वाः तिर्यगूर्ध्वं च वानराः ।
४५७. तृणेष्वपि तु चेष्टत्सु राक्षसा इति मेनिरे ॥
४५८. रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते ।
४५९. सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ॥
४६०. तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः ।
४६१. अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम्॥
४६२. एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ॥
४६३. सभाग्यशेषतास्माकं यदि वीर भविष्यति ।
४६४. मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ॥
४६५. न कालः कपिराजेन्द्र वैक्लव्यमवलम्बितुम्।
४६६. अतिस्नेहोऽपि कालेऽस्मिन् मरणायोपकल्पते ॥
४६७. नैतत् किञ्चन रामस्य न च रामो मुमूर्षति ।
४६८. नह्येनं हास्यते लक्ष्मीः दुर्लभा या गतायुषाम्॥
४६९. तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम्।
४७०. यावद् सैन्यानि सर्वाणि पुनः संस्थापयाम्यहम्॥
४७१. समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः ।
४७२. विद्रुतं वानरानीकं तत् समाश्वासयत् पुनः ॥
४७३. एतस्मिन्नन्तरे रामः प्रत्यबुद्ध्यत वीर्यवान् ।
४७४. स्थिरत्वात् सत्त्वयोगाच्च शरैः सन्दानितोऽपि सन् ॥
४७५. ततो दृष्ट्वा सुरुचिरं निषण्णं गाढमर्पितम्।
४७६. भ्रातरं दीनवदनं पर्यदेवयदातुरः ॥
४७७. किं नु मे सीतया कार्यं लब्धया जीवितेन वा ।
४७८. शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम्॥
४७९. शक्या सीतासमा नारी मर्त्यलोके विचिन्वता ।
४८०. न लक्ष्मणसमो भ्राता सचिवः सांपरायिकः ॥
४८१. यथैव मां वनं यान्तमनुयातो महाद्युतिः ।
४८२. अहमप्यनुयास्यामि तथैवैनं यमक्षयम्॥
४८३. यत्तु शक्यं वयस्येन सुहृदा वा परं मम ।
४८४. कृतं सुग्रीव तत् सर्वं भवता धर्मभीरुणा ॥
४८५. मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।
४८६. अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ॥
४८७. शुश्रुवुः तस्य ये सर्वे वानराः परिदेवितम्।
४८८. वर्तयाञ्चक्रिरेऽश्रूणि नेत्रैः कृष्णेतरेक्षणाः ॥
४८९. एतस्मिन्नन्तरे वायुर्मेघाश्चापि सविद्युतः ।
४९०. पर्यस्यन् सागरे तोयं कंपयन्निव मेदिनीम्॥
४९१. महता पक्षवातेन सर्वद्वीपमहाद्रुमाः ।
४९२. निपेतुर्भग्नविटपाः सलिले लवणाम्भसि ॥
४९३. अभवन् पन्नगास्त्रस्ता भोगिनस्तत्र वासिनः ।
४९४. शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम्॥
४९५. ततो मुहूर्तात् गरुडं वैनतेयं महाबलम्।
४९६. वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम्॥
४९७. तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः ।
४९८. यैस्तु तौ पुरुषौ बद्धौ शरभूतैर्महाबलैः ॥
४९९. ततः सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च ।
५००. विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥
५०१. वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः ।
५०२. सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ॥
५०३. तावुत्थाप्य महातेजा गरुडो वासवोपमौ ।
५०४. उभौ च सस्वजे हृष्टो रामश्चैनमुवाच ह ॥
५०५. भवत्प्रसादात् व्यसनं रावणिप्रभवं महत् ।
५०६. उपायेन व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ ॥
५०७. को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः ।
५०८. वसानो विरजे वस्त्रे दिव्याभरणभूषितः ॥
५०९. तमुवाच महातेजा वैनतेयो महाबलः ।
५१०. पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणम्॥
५११. अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः ।
५१२. गरुत्मानिह सम्प्राप्तो युवयोः साह्यकारणात् ॥
५१३. एते नागाः काद्रवेयाः तीक्ष्णदंष्‍ट्राः विषोल्बणाः ।
५१४. रक्षोमायाप्रभावेण शरभूतास्त्वदाश्रयाः ॥
५१५. इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः ।
५१६. सहसैवावयोः स्नेहात् सखित्वमनुपालयन् ॥
५१७. सखे राघव धर्मज्ञ रिपूणामपि वत्सल ।
५१८. अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथासुखम्॥
५१९. न च कौतूहलं कार्यं सखित्वं प्रति राघव ।
५२०. कृतकर्मा रणे वीर सखित्वं प्रतिवेत्स्यसि ॥
५२१. बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः ।
५२२. रावणं तु रिपुं हत्वा सीतां त्वमुपलप्स्यसे ॥
५२३. इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः ।
५२४. रामं च नीरुजं कृत्वा परिष्वज्य च वीर्यवान् ।
५२५. जगामाकाशमाविश्य मध्ये तेषां वनौकसाम्॥
५२६. नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः ।
५२७. सिंहनादं तदा नेदुः लाङ्गूलं दुधुवुश्च ते ॥
५२८. तेषां सुभीमस्तुमुलो निनादो
५२९. बभूव शाखामृगयूथपानाम्।
५३०. क्षये निदाघस्य यथा घनानाम्
५३१. नादः सुभीमो नदतां निशीथे ॥
५३२. तेषां तु तुमुलं शब्दं श्रुत्वा तं (रावणो) भृशम्।
५३३. सचिवानां (ततस्तस्य) मध्ये वचनमब्रवीत् ॥
५३४. अयं च सुमहान् नादः शङ्कां जनयतीव मे ।
५३५. ज्ञायतां तूर्णमेतेषां सर्वेषां च वनौकसाम्।
५३६. शोककाले समुत्पन्ने हर्षकारणमुत्थितम्॥
५३७. तथोक्तास्ते सुसम्भ्रान्ताः प्राकारमधिरुह्य च ।
५३८. ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥
५३९. तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ ।
५४०. तदप्रियं दीनमुखा रावणस्य च राक्षसाः ।
५४१. कृत्स्नं निवेदयामासुर्यथावत् वाक्यकोविदाः ॥
५४२. तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ।
५४३. उवाचात्महितं काले प्रहस्तं युद्धकोविदम्॥
५४४. पुरस्योपनिविष्टस्य सहसा पीडितस्य वा ।
५४५. नान्यं युद्धात् प्रपश्यामि मोक्षं युद्धविशारद ॥
५४६. अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम ।
५४७. इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम्॥
५४८. स त्वं बलमतः शीघ्रमादाय परिगृह्य च ।
५४९. विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥
५५०. रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ।
५५१. राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥
५५२. राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः ।
५५३. प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया ।
५५४. अप्रदाने पुनर्युद्धं दृष्टमेव तदैव नः ॥
५५५. सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया ।
५५६. सान्त्वैश्च विविधैः काले किं न कुर्यां हितं तव ॥
५५७. न हि मे जीवितं रक्ष्यं पुत्रदारधनानि च ।
५५८. त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि ॥
५५९. एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ।
५६०. लङ्काया निर्ययौ तूर्णं बलेन महता वृतः ॥
५६१. तस्य निर्याणघोषेण राक्षसानां च नर्दताम्।
५६२. लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥
५६३. प्रहस्तं तं हि निर्यान्तं प्रख्यातगुणपौरुषम्।
५६४. युधि नानाप्रहरणा कपिसेनाभ्यवर्तत ॥
५६५. अभिसञ्जातघोषाणां प्रहस्तमभिगर्जताम्।
५६६. गदाश्च परिघा प्रासा विविधाश्च परश्वधाः ।
५६७. धनूंषि च विचित्राणि राक्षसानां जयैषिणाम्।
५६८. प्रगृहीतान्यराजन्त वानरानभिधावताम्॥
५६९. जगृहुः पादपान्श्चापि पुष्पितान्स्तु गिरीन्स्तथा ।
५७०. शिलाश्च विपुला दीर्घा योद्धुकामा प्लवङ्गमाः ॥
५७१. बहवो राक्षसा युद्धे बहून् वानरपुङ्गवान् ।
५७२. वानरा राक्षसान्श्चापि निर्जघ्नुर्बहवो बहून् ॥
५७३. महता हि शरौघेण राक्षसो रणदुर्मदः ।
५७४. अर्दयामास सङ्क्रुद्धो वानरान् परमाहवे ॥
५७५. वानराणां शरीरैस्तु राक्षसानां च मेदिनी ।
५७६. बभूवातिचिता घोरैः पर्वतैरिव संवृता ॥
५७७. सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते ।
५७८. सम्छन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥
५७९. शोणितौघमहातोयां यमसागरगामिनीम्।
५८०. यकृत्प्लीनमहापङ्कां विनिकीर्णान्त्रशैवलाम्।
५८१. भिन्नकायशिरोमीनां अङ्गावयवशाद्वलाम्।
५८२. गृध्रहंसवराकीर्णामार्तस्वनितनिस्वनाम्।
५८३. राक्षसा कपिमुख्यास्ते तेरुस्तां दुस्तरां नदीम्॥
५८४. ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम्।
५८५. ददर्श तरसा नीलो विधमन्तं प्लवङ्गमान् ॥
५८६. समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ।
५८७. रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ॥
५८८. स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ।
५८९. नीलाय व्यसृजत् बाणान् प्रहस्तो वाहिनीपतिः ॥
५९०. यथैव गोवृषो वर्षं शारदं शीघ्रमागतम्।
५९१. एवमेव प्रहस्तस्य शरवर्षं दुरासदम्।
५९२. निमीलिताक्षः सहसा नीलः सेहे सुदारुणम्॥
५९३. ततो रोषपरीतात्मा धनुस्तस्य दुरात्मनः ।
५९४. बभञ्ज तरसा नीलो ननाद च पुनः पुनः ॥
५९५. विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः ।
५९६. प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ॥
५९७. आजघान तदा नीलं ललाटे मुसलेन सः ।
५९८. तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् ।
५९९. अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम्॥
६००. ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम्।
६०१. तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः ।
६०२. प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ॥
६०३. नीलेन कपिमुख्येन विमुक्ता महती शिला ।
६०४. बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥
६०५. स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः ।
६०६. पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥
६०७. हते प्रहस्ते नीलेन तदकंप्यं महाबलम्।
६०८. रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ॥
६०९. ततस्तु नीलो विजयी महाबलः
६१०. प्रशस्यमानः सुकृतेन कर्मणा ।
६११. समेत्य रामेण सलक्ष्मणेन
६१२. प्रहृष्टरूपस्तु बभूव यूथपः ॥
६१३. सङ्ख्ये प्रहस्तं निहतं निशम्य
६१४. (रक्षोऽधिपः) शोकपरीतचेताः ।
६१५. ऊवाच तान् राक्षसयूथमुख्यान्
६१६. इन्द्रो यथा निर्जरयूथमुख्यान् ॥
६१७. नावज्ञा रिपवे कार्या यैरिन्द्रबलसादनः ।
६१८. सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥
६१९. सोऽहं रिपुविनाशाय विजयायाविचारयन् ।
६२०. स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम्॥
६२१. अद्य तद् वानरानीकं रामं च सहलक्ष्मणम्।
६२२. निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः ॥
६२३. द्वारेषु चर्यागृहगोपुरेषु
६२४. सुनिर्वृतास्तिष्ठत निर्विशङ्काः ।
६२५. (ते त्वागतम्) मां सहितं भवद्भिः
६२६. वनौकसश्छिद्रमिदं विदित्वा ।
६२७. शून्यां पुरीं दुष्प्रसहां प्रमथ्य
६२८. प्रधर्षयेयुः सहसा समेताः ॥
६२९. विसर्जयित्वा सचिवान्स्ततस्तान्
६३०. गतेषु रक्षःसु यथानियोगम्।
६३१. व्यदारयद् वानरसागरौघम्
६३२. महाझषः पूर्णमिवार्णवौघम्॥
६३३. ते वध्यमानाः पतिताश्च वीराः
६३४. नानद्यमाना भयशल्यविद्धाः ।
६३५. शाखामृगा रावणसायकार्ता
६३६. जग्मुः शरण्यं शरणं स्म रामम्॥
६३७. ततो महात्मा स धनुर्धनुष्मान्
६३८. आदाय रामः सहसा जगाम ।
६३९. तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य
६४०. उवाच रामं परमार्थयुक्तम्॥
६४१. काममार्य सुपर्याप्तो वधस्यास्य दुरात्मनः ।
६४२. विधमिष्याम्यहं चैनमनुजानीहि मां विभो ॥
६४३. तमब्रवीन्महातेजा रामः सत्यपराक्रमः ।
६४४. गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ॥
६४५. रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः ।
६४६. त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः ॥
६४७. तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च रक्षय ।
६४८. चक्षुषा धनुषात्मानं गोपायस्व समाहितः ॥
६४९. राघवस्य वचः श्रुत्वा परिष्वज्याभिपूज्य च ।
६५०. अभिवाद्य च रामाय ययौ सौमित्रिराहवे ॥
६५१. स रावणं वारणहस्तबाहुम्
६५२. ददर्श दीप्तोद्यतभीमचापम्।
६५३. प्रच्छादयन्तं शरवृष्टिजालैः
६५४. तान् वानरान् भिन्नविकीर्णदेहान् ॥
६५५. रथेनाम्बुदनादेन दशग्रीवो रणोत्सुकः ।
६५६. आसाद्य रणमध्ये तं सौमित्रिमभिदुद्रुवे ॥
६५७. तमाह सौमित्रिरदीनसत्त्वो
६५८. विस्फारयन्तं धनुरप्रमेयम्।
६५९. अवेहि मामद्य निशाचरेन्द्र
६६०. न वानरान्स्त्वं प्रतियोद्धुमर्हसि ॥
६६१. स एवमुक्तः कुपितो विसर्ज
६६२. रक्षोऽधिपः सप्तशरान् सुपुङ्खान् ।
६६३. तान् लक्ष्मणः काञ्चनचित्रपुङ्खैः
६६४. चिच्छेद बाणैः निशिताग्रधारैः ॥
६६५. स लक्ष्मणश्चापि शितान् शिताग्रान्
६६६. महेन्द्रवज्राशनितुल्यवेगान् ।
६६७. सन्धाय चापे ज्वलनप्रकाशान्
६६८. ससर्ज रक्षोऽधिपतेर्वधाय ॥
६६९. स तान् प्रचिच्छेद हि राक्षसेन्द्रः
६७०. छित्त्वा च तान् लक्ष्मणमाजघान ।
६७१. शरेण कालाग्निसमप्रभेन
६७२. स्वयम्भुदत्तेन ललाटदेशे ॥
६७३. स लक्ष्मणो रावणसायकार्तः
६७४. चचाल चापं शिथिलं प्रगृह्य ।
६७५. पुनश्च संज्ञां प्रतिलभ्य कृच्छ्रात्
६७६. चिच्छेद चापं त्रिदशेन्द्रशत्रोः ॥
६७७. स कृन्तचापः शरताडितश्च
६७८. मेदार्द्रगात्रो रुधिरावसिक्तः ।
६७९. जग्राह शक्तिं समुदग्रशक्तिः
६८०. स्वयम्भुदत्तां युधि देवशत्रुः ॥
६८१. स तां विधूमानिलसन्निकाशाम्
६८२. वित्रासिनीं वानरवाहिनीनाम्।
६८३. चिक्षेप शक्तिं तरसा ज्वलन्तीम्
६८४. सौमित्रये राक्षसराष्‍ट्रनाथः ॥
६८५. तामापतन्तीं भरतानुजोऽस्त्रैः
६८६. जघान बाणैश्च हुताग्निकल्पैः ।
६८७. तथापि सा तस्य विवेश शक्तिः
६८८. भुजान्तरं दाशरथेर्विशालम्॥
६८९. स शक्तिमान् शक्तिसमाहतः सन्
६९०. जज्वाल भूमौ स रघुप्रवीरः ।
६९१. तं विह्वलन्तं सहसाभ्युपेत्य
६९२. जग्राह राजा तरसा भुजाभ्याम्॥
६९३. हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः ।
६९४. शक्यं भुजाभ्यामुद्धर्तुं न शक्यो भरतानुजः ॥
६९५. शक्त्या ब्राह्म्यापि सौमित्रिस्ताडितस्तु स्तनान्तरे ।
६९६. विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत् ॥
६९७. हनुमानथ तेजस्वी लक्ष्मणं रावणार्दितम्।
६९८. आनयद् राघवाभ्याशं बाहुभ्यां परिगृह्य तम्॥
६९९. वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।
७००. शत्रूणामप्यकंप्योऽपि लघुत्वमगमत् कपेः ॥
७०१. तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि निर्जितम्।
७०२. रावणस्य रथे तस्मिन् स्थानं पुनरुपागमत् ॥
७०३. आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ।
७०४. विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥
७०५. निपातितमहावीरां वानराणां महाचमूम्।
७०६. राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥
७०७. अथैनमनुसङ्क्रम्य हनुमान् वाक्यमब्रवीत् ।
७०८. मम पृष्ठं समारुह्य राक्षसं शास्तुमर्हसि ॥
७०९. तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम्।
७१०. अथारुरोह सहसा हनुमन्तं महाकपिम्॥
७११. गिरा गम्भीरया वाचा राक्षसेन्द्रमुवाच ह ॥
७१२. यदीन्द्रवैवस्वतभास्करान् वा
७१३. स्वयम्भुवैश्वानरशङ्करान् वा ।
७१४. गमिष्यसि त्वं दशधा दिशो वा
७१५. तथापि मे नाद्य गतो विमोक्ष्यसे ॥
७१६. राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाबलः ।
७१७. वायुपुत्रं महावेगं पूर्ववैरमनुस्मरन् ।
७१८. आजघान शरैर्दीप्तैः कालानलशिखोपमैः ॥
७१९. राक्षसेनाहवे तस्य ताडितस्यापि सायकैः ।
७२०. स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत ॥
७२१. ततो रामो महातेजा रावणेन कृतव्रणम्।
७२२. दृष्ट्वा प्लवगशर्दूलं क्रोधस्य वशमेयिवान् ॥
७२३. तस्याभिचङ्क्रम्य रथं सचक्रम्
७२४. साश्वध्वजच्छत्रमहापताकम्।
७२५. ससारथिं साशनिशूलखड्गम्
७२६. रामः प्रचिच्छेद शरैः सुपुङ्खैः ॥
७२७. अथेन्द्रशत्रुं तरसा जघान
७२८. बाणेन वज्राशनिसन्निभेन ।
७२९. भुजान्तरे व्यूढसुजातरूपे
७३०. वज्रेण मेरुं भगवानिवेन्द्रः ॥
७३१. यो वज्रपाताशनिसन्निपाता-
७३२. न्न चुक्षुभे नापि चचाल राजा ।
७३३. स रामबाणाभिहतो भृशार्तः
७३४. चचाल चापं च मुमोच वीरः ॥
७३५. तं विह्वलन्तं प्रसमीक्ष्य रामः
७३६. समाददे दीप्तमथार्धचन्द्रम्।
७३७. तेनार्कवर्णं सहसा किरीटम्
७३८. चिच्छेद रक्षोऽधिपतेर्महात्मा ॥
७३९. तं निर्विषाशीविषसन्निकाशम्
७४०. शान्तार्चिषं सूर्यमिवाप्रकाशम्।
७४१. गतश्रियं कृन्तकिरीटकूटम्
७४२. उवाच रामो युधि राक्षसेन्द्रम्॥
७४३. प्रयाहि जानामि रणार्दितस्त्वम्
७४४. प्रविश्य रात्रिञ्चरराज लङ्काम्।
७४५. आश्वास्य निर्याहि रथी च धन्वी
७४६. तदा बलं प्रेक्ष्यसि मे रथस्थः ॥
७४७. स एवमुक्तो हतदर्पहर्षो
७४८. निकृत्तचापः स हताश्वसूतः ।
७४९. शरार्दितो भग्नमहाकिरीटो
७५०. विवेश लङ्कां सहसा स राजा ॥