०५६ मित्रा-वरुणोर्ह्वशी-कामाः

[षट्पञ्चाशः सर्गः]

भागसूचना
  1. ब्रह्माजीके कहनेसे वसिष्ठका वरुणके वीर्यमें आवेश, वरुणका उर्वशीके समीप एक कुम्भमें अपने वीर्यका आधान तथा मित्रके शापसे उर्वशीका भूतलमें राजा पुरूरवाके पास रहकर पुत्र उत्पन्न करना
विश्वास-प्रस्तुतिः

रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।
उवाच प्राञ्जलिर्भूत्वा राघवं दीप्ततेजसम् ॥ १ ॥

मूलम्

रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।
उवाच प्राञ्जलिर्भूत्वा राघवं दीप्ततेजसम् ॥ १ ॥

अनुवाद (हिन्दी)

श्रीरामचन्द्रजीके मुखसे कही गयी यह कथा सुनकर शत्रुवीरोंका संहार करनेवाले लक्ष्मण उद्दीप्त तेजवाले श्रीरघुनाथजीसे हाथ जोड़कर बोले— ॥ १ ॥

विश्वास-प्रस्तुतिः

निक्षिप्य देहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ ।
पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ ॥ २ ॥

मूलम्

निक्षिप्य देहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ ।
पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ ॥ २ ॥

अनुवाद (हिन्दी)

‘ककुत्स्थकुलभूषण! वे ब्रह्मर्षि और वे भूपाल दोनों देवताओंके भी सम्मानपात्र थे । उन्होंने अपने शरीरोंका त्याग करके फिर नूतन शरीर कैसे ग्रहण किया?’ ॥ २ ॥

विश्वास-प्रस्तुतिः

लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ।
प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ॥ ३ ॥

मूलम्

लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ।
प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ॥ ३ ॥

अनुवाद (हिन्दी)

लक्ष्मणके इस प्रकार पूछनेपर इक्ष्वाकुकुलनन्दन महातेजस्वी पुरुषप्रवर श्रीरामने उनसे इस प्रकार कहा— ॥ ३ ॥

विश्वास-प्रस्तुतिः

तौ परस्परशापेन देहमुत्सृज्य धार्मिकौ ।
अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ॥ ४ ॥

मूलम्

तौ परस्परशापेन देहमुत्सृज्य धार्मिकौ ।
अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ॥ ४ ॥

अनुवाद (हिन्दी)

‘सुमित्रानन्दन! एक-दूसरेके शापसे देह त्याग करके तपस्याके धनी वे धर्मात्मा राजर्षि और ब्रह्मर्षि वायुरूप हो गये ॥ ४ ॥

विश्वास-प्रस्तुतिः

अशरीरः शरीरस्य कृतेऽन्यस्य महामुनिः ।
वसिष्ठस्तु महातेजा जगाम पितुरन्तिकम् ॥ ५ ॥

मूलम्

अशरीरः शरीरस्य कृतेऽन्यस्य महामुनिः ।
वसिष्ठस्तु महातेजा जगाम पितुरन्तिकम् ॥ ५ ॥

अनुवाद (हिन्दी)

‘महातेजस्वी महामुनि वसिष्ठ शरीररहित हो जानेपर दूसरे शरीरकी प्राप्तिके लिये अपने पिता ब्रह्माजीके पास गये ॥ ५ ॥

विश्वास-प्रस्तुतिः

सोऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् ।
पितामहमथोवाच वायुभूत इदं वचः ॥ ६ ॥

मूलम्

सोऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् ।
पितामहमथोवाच वायुभूत इदं वचः ॥ ६ ॥

अनुवाद (हिन्दी)

‘धर्मके ज्ञाता वायुरूप वसिष्ठजीने देवाधिदेव ब्रह्माजीके चरणोंमें प्रणाम करके उन पितामहसे इस प्रकार कहा— ॥ ६ ॥

विश्वास-प्रस्तुतिः

भगवन् निमिशापेन विदेहत्वमुपागमम् ।
देवदेव महादेव वायुभूतोऽहमण्डज ॥ ७ ॥

मूलम्

भगवन् निमिशापेन विदेहत्वमुपागमम् ।
देवदेव महादेव वायुभूतोऽहमण्डज ॥ ७ ॥

अनुवाद (हिन्दी)

‘ब्रह्माण्डकटाहसे प्रकट हुए देवाधिदेव महादेव! भगवन्! मैं राजा निमिके शापसे देहहीन हो गया हूँ; अतः वायुरूपमें रह रहा हूँ ॥ ७ ॥

विश्वास-प्रस्तुतिः

सर्वेषां देहहीनानां महद् दुःखं भविष्यति ।
लुप्यन्ते सर्वकार्याणि हीनदेहस्य वै प्रभो ॥ ८ ॥
देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ।

मूलम्

सर्वेषां देहहीनानां महद् दुःखं भविष्यति ।
लुप्यन्ते सर्वकार्याणि हीनदेहस्य वै प्रभो ॥ ८ ॥
देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ।

अनुवाद (हिन्दी)

‘प्रभो! समस्त देहहीनोंको महान् दुःख होता है और होता रहेगा; क्योंकि देहहीन प्राणीके सभी कार्य लुप्त हो जाते हैं । अतः दूसरे शरीरकी प्राप्तिके लिये आप मुझपर कृपा करें’ ॥ ८ १/२ ॥

विश्वास-प्रस्तुतिः

तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः ॥ ९ ॥
मित्रावरुणजं तेज आविश त्वं महायशः ।
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम ।
धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ॥ १० ॥

मूलम्

तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः ॥ ९ ॥
मित्रावरुणजं तेज आविश त्वं महायशः ।
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम ।
धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ॥ १० ॥

अनुवाद (हिन्दी)

तब अमित तेजस्वी स्वयम्भू ब्रह्माने उनसे कहा—‘महायशस्वी द्विजश्रेष्ठ! तुम मित्र और वरुणके छोड़े हुए तेज (वीर्य)-में प्रविष्ट हो जाओ । वहाँ जानेपर भी तुम अयोनिज रूपसे ही उत्पन्न होओगे और महान् धर्मसे युक्त हो पुत्ररूपसे मेरे वशमें आ जाओगे (मेरे पुत्र होनेके कारण तुम्हें पूर्ववत् प्रजापतिका पद प्राप्त होगा ।)’ ॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तु देवेन अभिवाद्य प्रदक्षिणम् ।
कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ॥ ११ ॥

मूलम्

एवमुक्तस्तु देवेन अभिवाद्य प्रदक्षिणम् ।
कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ॥ ११ ॥

अनुवाद (हिन्दी)

‘ब्रह्माजीके ऐसा कहनेपर उनके चरणोंमें प्रणाम तथा उनकी परिक्रमा करके वायुरूप वसिष्ठजी वरुणलोकको चले गये ॥ ११ ॥

विश्वास-प्रस्तुतिः

तमेव कालं मित्रोऽपि वरुणत्वमकारयत् ।
क्षीरोदेन सहोपेतः पूज्यमानः सुरेश्वरैः ॥ १२ ॥

मूलम्

तमेव कालं मित्रोऽपि वरुणत्वमकारयत् ।
क्षीरोदेन सहोपेतः पूज्यमानः सुरेश्वरैः ॥ १२ ॥

अनुवाद (हिन्दी)

‘उन्हीं दिनों मित्रदेवता भी वरुणके अधिकारका पालन कर रहे थे । वे वरुणके साथ रहकर समस्त देवेश्वरोंद्वारा पूजित होते थे ॥ १२ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नेव काले तु उर्वशी परमाप्सराः ।
यदृच्छया तमुद्देशमागता सखिभिर्वृता ॥ १३ ॥

मूलम्

एतस्मिन्नेव काले तु उर्वशी परमाप्सराः ।
यदृच्छया तमुद्देशमागता सखिभिर्वृता ॥ १३ ॥

अनुवाद (हिन्दी)

‘इसी समय अप्सराओंमें श्रेष्ठ उर्वशी सखियोंसे घिरी हुई अकस्मात् उस स्थानपर आ गयी ॥ १३ ॥

विश्वास-प्रस्तुतिः

तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये ।
तदाविशत् परो हर्षो वरुणं चोर्वशीकृते ॥ १४ ॥

मूलम्

तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये ।
तदाविशत् परो हर्षो वरुणं चोर्वशीकृते ॥ १४ ॥

अनुवाद (हिन्दी)

‘उस परम सुन्दरी अप्सराको क्षीरसागरमें नहाती और जलक्रीडा करती देख वरुणके मनमें उर्वशीके लिये अत्यन्त उल्लास प्रकट हुआ ॥ १४ ॥

विश्वास-प्रस्तुतिः

स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् ।
वरुणो वरयामास मैथुनायाप्सरोवराम् ॥ १५ ॥

मूलम्

स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् ।
वरुणो वरयामास मैथुनायाप्सरोवराम् ॥ १५ ॥

अनुवाद (हिन्दी)

‘उन्होंने प्रफुल्ल कमलके समान नेत्र और पूर्ण चन्द्रमाके समान मनोहर मुखवाली उस सुन्दरी अप्सराको समागमके लिये आमन्त्रित किया ॥ १५ ॥

विश्वास-प्रस्तुतिः

प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता ।
मित्रेणाहं वृता साक्षात् पूर्वमेव सुरेश्वर ॥ १६ ॥

मूलम्

प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता ।
मित्रेणाहं वृता साक्षात् पूर्वमेव सुरेश्वर ॥ १६ ॥

अनुवाद (हिन्दी)

‘तब उर्वशीने हाथ जोड़कर वरुणसे कहा—‘सुरेश्वर! साक्षात् मित्रदेवताने पहलेसे ही मेरा वरण कर लिया है’ ॥ १६ ॥

विश्वास-प्रस्तुतिः

वरुणस्त्वब्रवीद् वाक्यं कन्दर्पशरपीडितः ।
इदं तेजः समुत्स्रक्ष्ये कुम्भेऽस्मिन् देवनिर्मिते ॥ १७ ॥
एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि ।
कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम् ॥ १८ ॥

यह सुनकर वरुणने कामदेवके बाणोंसे पीड़ित होकर कहा—‘सुन्दर रूप-रंगवाली सुश्रोणि! यदि तुम मुझसे समागम करना नहीं चाहती तो मैं तुम्हारे समीप इस देवनिर्मित कुम्भमें अपना यह वीर्य छोड़ दूँगा और इस प्रकार छोड़कर ही सफलमनोरथ हो जाऊँगा’ ॥ १७-१८ ॥

विश्वास-प्रस्तुतिः

तस्य तल्लोकनाथस्य वरुणस्य सुभाषितम् ।
उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ॥ १९ ॥

मूलम्

तस्य तल्लोकनाथस्य वरुणस्य सुभाषितम् ।
उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ॥ १९ ॥

अनुवाद (हिन्दी)

लोकनाथ वरुणका यह मनोहर वचन सुनकर उर्वशीको बड़ी प्रसन्नता हुई और वह बोली— ॥ १९ ॥

विश्वास-प्रस्तुतिः

काममेतद् भवत्वेवं हृदयं मे त्वयि स्थितम् ।
भावश्चाप्यधिकं तुभ्यं देहो मित्रस्य तु प्रभो ॥ २० ॥

मूलम्

काममेतद् भवत्वेवं हृदयं मे त्वयि स्थितम् ।
भावश्चाप्यधिकं तुभ्यं देहो मित्रस्य तु प्रभो ॥ २० ॥

अनुवाद (हिन्दी)

‘प्रभो! आपकी इच्छाके अनुसार ऐसा ही हो । मेरा हृदय विशेषतः आपमें अनुरक्त है और आपका अनुराग भी मुझमें अधिक है; इसलिये आप मेरे उद्देश्यसे उस कुम्भमें वीर्याधान कीजिये । इस शरीरपर तो इस समय मित्रका अधिकार हो चुका है’ ॥ २० ॥

विश्वास-प्रस्तुतिः

उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् ।
ज्वलदग्निसमप्रख्यं तस्मिन् कुम्भे न्यवासृजत् ॥ २१ ॥

मूलम्

उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् ।
ज्वलदग्निसमप्रख्यं तस्मिन् कुम्भे न्यवासृजत् ॥ २१ ॥

अनुवाद (हिन्दी)

‘उर्वशीके ऐसा कहनेपर वरुणने प्रज्वलित अग्निके समान प्रकाशमान अपने अत्यन्त अद्भुत तेज (वीर्य)-को उस कुम्भमें डाल दिया ॥ २१ ॥

विश्वास-प्रस्तुतिः

उर्वशी त्वगमत् तत्र मित्रो वै यत्र देवता ।
तां तु मित्रः सुसङ्क्रुद्ध उर्वशीमिदमब्रवीत् ॥ २२ ॥

मूलम्

उर्वशी त्वगमत् तत्र मित्रो वै यत्र देवता ।
तां तु मित्रः सुसङ्क्रुद्ध उर्वशीमिदमब्रवीत् ॥ २२ ॥

अनुवाद (हिन्दी)

‘तदनन्तर उर्वशी उस स्थानपर गयी, जहाँ मित्रदेवता विराजमान थे । उस समय मित्र अत्यन्त कुपित हो उस उर्वशीसे इस प्रकार बोले— ॥ २२ ॥

विश्वास-प्रस्तुतिः

मयाभिमन्त्रिता पूर्वं कस्मात् त्वमवसर्जिता ।
पतिमन्यं वृतवती किमर्थं दुष्टचारिणि ॥ २३ ॥

मूलम्

मयाभिमन्त्रिता पूर्वं कस्मात् त्वमवसर्जिता ।
पतिमन्यं वृतवती किमर्थं दुष्टचारिणि ॥ २३ ॥

अनुवाद (हिन्दी)

‘दुराचारिणि! पहले मैंने तुझे समागमके लिये आमन्त्रित किया था; फिर किसलिये तूने मेरा त्याग किया और क्यों दूसरे पतिका वरण कर लिया? ॥ २३ ॥

विश्वास-प्रस्तुतिः

अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता ।
मनुष्यलोकमास्थाय कञ्चित् कालं निवत्स्यसि ॥ २४ ॥

मूलम्

अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता ।
मनुष्यलोकमास्थाय कञ्चित् कालं निवत्स्यसि ॥ २४ ॥

अनुवाद (हिन्दी)

‘अपने इस पापके कारण मेरे क्रोधसे कलुषित हो तू कुछ कालतक मनुष्यलोकमें जाकर निवास करेगी ॥ २४ ॥

विश्वास-प्रस्तुतिः

बुधस्य पुत्रो राजर्षिः काशिराजः पुरूरवाः ।
तमभ्यागच्छ दुर्बुद्धे स ते भर्ता भविष्यति ॥ २५ ॥

मूलम्

बुधस्य पुत्रो राजर्षिः काशिराजः पुरूरवाः ।
तमभ्यागच्छ दुर्बुद्धे स ते भर्ता भविष्यति ॥ २५ ॥

अनुवाद (हिन्दी)

‘दुर्बुद्धे! बुधके पुत्र राजर्षि पुरूरवा, जो काशिदेशके राजा हैं, उनके पास चली जा, वे ही तेरे पति होंगे’ ॥

विश्वास-प्रस्तुतिः

ततः सा शापदोषेण पुरूरवसमभ्यगात् ।
प्रतिष्ठाने पुरूरवं बुधस्यात्मजमौरसम् ॥ २६ ॥

मूलम्

ततः सा शापदोषेण पुरूरवसमभ्यगात् ।
प्रतिष्ठाने पुरूरवं बुधस्यात्मजमौरसम् ॥ २६ ॥

अनुवाद (हिन्दी)

‘तब वह शाप-दोषसे दूषित हो प्रतिष्ठानपुर (प्रयाग-झूसी)-में बुधके औरस पुत्र पुरूरवाके पास गयी ॥ २६ ॥

विश्वास-प्रस्तुतिः

तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः ।
नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः ॥ २७ ॥

मूलम्

तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः ।
नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः ॥ २७ ॥

अनुवाद (हिन्दी)

‘पुरूरवाके उर्वशीके गर्भसे श्रीमान् आयु नामक महाबली पुत्र हुआ, जिसके पुत्र इन्द्रतुल्य तेजस्वी महाराज नहुष थे ॥ २७ ॥

विश्वास-प्रस्तुतिः

वज्रमुत्सृज्य वृत्राय श्रान्तेऽथ त्रिदिवेश्वरे ।
शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ॥ २८ ॥

मूलम्

वज्रमुत्सृज्य वृत्राय श्रान्तेऽथ त्रिदिवेश्वरे ।
शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ॥ २८ ॥

अनुवाद (हिन्दी)

‘वृत्रासुरपर वज्रका प्रहार करके जब देवराज इन्द्र ब्रह्महत्याके भयसे दुःखी हो छिप गये थे, तब नहुषने ही एक लाख वर्षोंतक ‘इन्द्र’ पदपर प्रतिष्ठित हो त्रिलोकीके राज्यका शासन किया था ॥ २८ ॥

विश्वास-प्रस्तुतिः

सा तेन शापेन जगाम भूमिं
तदोर्वशी चारुदती सुनेत्रा ।
बहूनि वर्षाण्यवसच्च सुभ्रूः
शापक्षयादिन्द्रसदो ययौ च ॥ २९ ॥

मूलम्

सा तेन शापेन जगाम भूमिं
तदोर्वशी चारुदती सुनेत्रा ।
बहूनि वर्षाण्यवसच्च सुभ्रूः
शापक्षयादिन्द्रसदो ययौ च ॥ २९ ॥

अनुवाद (हिन्दी)

‘मनोहर दाँत और सुन्दर नेत्रवाली उर्वशी मित्रके दिये हुए उस शापसे भूतलपर चली गयी । वहाँ वह सुन्दरी बहुत वर्षोंतक रही । फिर शापका क्षय होनेपर इन्द्रसभामें चली गयी’ ॥ २९ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें छप्पनवाँ सर्ग पूरा हुआ ॥ ५६ ॥