१५ करन्यास

अनुवाद (हिन्दी)

ॐ सहस्रनयनाय अङ्गुष्ठाभ्यां नमः । ॐ देवाय तर्जनीभ्यां नमः । ॐ सर्वदेवनमस्कृताय मध्यमाभ्यां नमः । ॐ दिव्यवज्रधराय अनामिकाभ्यां नमः । ॐ महेन्द्राय कनिष्ठिकाभ्यां नमः । ॐ शचीपतये करतलकरपृष्ठाभ्यां नमः ।
इन्हीं मन्त्रोंसे हृदयादिन्यास करके इस श्लोकसे ध्यान करना चाहिये ।

विश्वास-प्रस्तुतिः

शचीपतिं सर्वसुरेशवन्द्यं
सर्वार्तिहर्तारमचिन्त्यशक्तिम् ।
श्रीरामसेवानिरतं महान्तं
वन्दे महेन्द्रं धृतवज्रमीड्यम् ॥

मूलम्

शचीपतिं सर्वसुरेशवन्द्यं
सर्वार्तिहर्तारमचिन्त्यशक्तिम् ।
श्रीरामसेवानिरतं महान्तं
वन्दे महेन्द्रं धृतवज्रमीड्यम् ॥

अनुवाद (हिन्दी)

फिर—

विश्वास-प्रस्तुतिः

सहस्रनयनं देवं सर्वदेवनमस्कृतम् ।
दिव्यवज्रधरं वन्दे महेन्द्रं च शचीपतिम् ॥

मूलम्

सहस्रनयनं देवं सर्वदेवनमस्कृतम् ।
दिव्यवज्रधरं वन्दे महेन्द्रं च शचीपतिम् ॥

अनुवाद (हिन्दी)

इस मन्त्रसे इन्द्रकी पूजा करे और नष्ट द्रव्य-प्राप्ति आदिकी कामनासे इसीसे सम्पुटित कर पाठ करे ।