१२ अयोध्याकाण्डका विनियोग तथा ऋष्यादिन्यास

अनुवाद (हिन्दी)

ॐ अस्य श्रीअयोध्याकाण्डमहामन्त्रस्य भगवान् वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । भरतो दाशरथिः परमात्मा देवता । भं बीजम् । नमः शक्तिः । भरतायेति कीलकम् । मम भरतप्रसादसिद्ध्यर्थमयोध्याकाण्डपारायणे विनियोगः । ॐ वसिष्ठऋषये नमः शिरसि । ॐ अनुष्टुप्छन्दसे नमः मुखे । ॐ दाशरथिभरतपरमात्मदेवतायै नमः हृदि । ॐ भं बीजाय नमः गुह्ये । ॐ नमः शक्तये नमः पादयोः । ॐ भरताय कीलकाय नमः सर्वाङ्गे ।