११ करन्यास

अनुवाद (हिन्दी)

ॐ सुप्रसन्नाय अङ्गुष्ठाभ्यां नमः । ॐ शान्तमनसे तर्जनीभ्यां नमः । ॐ सत्यसन्धाय मध्यमाभ्यां नमः । ॐ जितेन्द्रियाय अनामिकाभ्यां नमः । ॐ धर्मज्ञाय नयसारज्ञाय कनिष्ठिकाभ्यां नमः । ॐ राज्ञे दाशरथये जयिने करतलकरपृष्ठाभ्यां नमः ।
इन्हीं मन्त्रोंसे पूर्वोक्त प्रकारसे हृदयादि न्यास कर निम्न प्रकारसे ध्यान करे—

विश्वास-प्रस्तुतिः

श्रीराममाश्रितजनामरभूरुहेश-
मानन्दशुद्धमखिलामरवन्दिताङ्घ्रिम् ।
सीताङ्गनासुमिलितं सततं सुमित्रा-
पुत्रान्वितं धृतधनुःशरमादिदेवम् ॥
ॐ सुप्रसन्नः शान्तमनाः सत्यसन्धो जितेन्द्रियः ।
धर्मज्ञो नयसारज्ञो राजा दाशरथिर्जयी ॥

मूलम्

श्रीराममाश्रितजनामरभूरुहेश-
मानन्दशुद्धमखिलामरवन्दिताङ्घ्रिम् ।
सीताङ्गनासुमिलितं सततं सुमित्रा-
पुत्रान्वितं धृतधनुःशरमादिदेवम् ॥
ॐ सुप्रसन्नः शान्तमनाः सत्यसन्धो जितेन्द्रियः ।
धर्मज्ञो नयसारज्ञो राजा दाशरथिर्जयी ॥

अनुवाद (हिन्दी)

इस मन्त्रसे श्रीरामकी पूजा करे और इसीसे अथवा श्रीराममन्त्रसे सम्पुटित कर बालकाण्डका पाठ करे । इससे ग्रहशान्ति, ईति-भीति-शान्ति तथा पुत्रप्राप्ति सम्भव है ।