०८ रामायणको नमस्कार

विश्वास-प्रस्तुतिः

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥
वाल्मीकिगिरिसम्भूता रामाम्भोनिधिसङ्गता ।
श्रीमद्रामायणी गङ्गा पुनाति भुवनत्रयम् ॥
वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।
शृण्वन् रामकथानादं को न याति परां गतिम् ॥

मूलम्

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥
वाल्मीकिगिरिसम्भूता रामाम्भोनिधिसङ्गता ।
श्रीमद्रामायणी गङ्गा पुनाति भुवनत्रयम् ॥
वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।
शृण्वन् रामकथानादं को न याति परां गतिम् ॥

अनुवाद (हिन्दी)

पाठ आरम्भ करनेके बाद अध्यायके बीचमें रुकना नहीं चाहिये । रुक जानेपर फिर उसी अध्यायको आरम्भसे पढ़ना चाहिये । मध्यम स्वरसे, स्पष्ट उच्चारण करते हुए श्रद्धा तथा प्रेमसे पाठ करना चाहिये । गीत गाकर, सिर हिलाकर, जल्दबाजीसे तथा बिना अर्थ समझे पाठ करना ठीक नहीं है । संध्या-समय निम्नलिखित स्थलोंपर प्रतिदिन विश्राम करते जाना चाहिये ।
प्रथम दिन - अयोध्याकाण्डके - ६ ठे - सर्गकी समाप्तिपर - प्रथम विश्राम ।
द्वितीय दिन - अयोध्याकाण्डके - ८०वें सर्गकी समाप्तिपर - द्वितीय विश्राम ।
तृतीय दिन - अरण्यकाण्डके - २०वें - सर्गकी समाप्तिपर - तृतीय विश्राम ।
चतुर्थ दिन - किष्किन्धाकाण्डके - ४६वें सर्गकी समाप्तिपर - चतुर्थ विश्राम ।
पञ्चम दिन - सुन्दरकाण्डके - ४७वें सर्गकी समाप्तिपर - पञ्चम विश्राम ।
षष्ठ - दिन - युद्धकाण्डके - ५०वें सर्गकी समाप्तिपर - षष्ठ विश्राम ।
सप्तम दिन - ९९वें सर्गकी समाप्तिपर सप्तम विश्राम ।
अष्टम दिन - उत्तरकाण्डके - ३६वें सर्गकी समाप्तिपर - अष्टम विश्राम ।
नवम दिन - उत्तरकाण्डके अन्तिम सर्गके बाद पुनः युद्धकाण्डका अन्तिम सर्ग पढ़कर विश्राम करना चाहिये ।*

पादटिप्पनी

१. प्रथमे तु अयोध्यायाः षट्सर्गान्ते शुभा स्थितिः ।
तस्यैवाशीतिसर्गान्ते द्वितीये दिवसे स्थितिः ॥
तथा विंशतिसर्गान्ते चारण्यस्य तृतीयके ।
दिने चतुर्थे षट्चत्वारिंशत्सर्गे कथास्थितिः ॥
किष्किन्धाख्यस्य काण्डस्य पाठविद्भिरुदाहृता ।
सुसप्तचत्वारिंशत्के सर्गान्ते सुन्दरेस्थितिम् ॥
पञ्चमे दिवसे कुर्यादथ षष्ठे तथोच्यते ।
युद्धकाण्डस्य पञ्चाशत्सर्गान्ते विमला स्थितिः ॥
एकोनशतसंख्याके सर्गान्ते सप्तमे दिने ।
युद्धस्यैव तु काण्डस्य विश्रामः सम्प्रकीर्तितः ॥
तथा चोत्तरकाण्डस्य षट्त्रिंशत्सर्गपूरणे ।
अष्टमे दिवसे कृत्वा स्थितिं च नवमे दिने ॥
शेषं समाप्य युद्धस्य चान्त्यं सर्गं पुनः पठेत् ।
रामराज्यकथा यस्मिन् सर्ववाञ्छितदायिनी ॥
एवं पाठक्रमः पूर्वैराचार्यैश्च विनिर्मितः ।
(अनुष्ठानप्रकाश)

अनुवाद (हिन्दी)

इसके अन्य भी विश्रामस्थल हैं । एक पारायण-क्रम ऐसा भी है, जिसमें उत्तरकाण्डका पाठ नहीं किया जाता । उसके विश्रामस्थल क्रमशः इस प्रकार हैं—
प्रथम दिवस - बालकाण्डके - ७७ वें - सर्गकी समाप्तिपर ।
द्वितीय दिवस - अयोध्याकाण्डके - ६० वें - सर्गकी समाप्तिपर ।
तृतीय दिवस - अयोध्याकाण्डके - ११९ वें - सर्गकी समाप्तिपर ।
चतुर्थ दिवस - अरण्यकाण्डके - ६८ वें- सर्गकी समाप्तिपर ।
पञ्चम दिवस - किष्किन्धाकाण्डके - ४९ वें - सर्गकी समाप्तिपर ।
षष्ठ दिवस - सुन्दरकाण्डके - ५६ वें - सर्गकी समाप्तिपर ।
सप्तम दिवस - युद्धकाण्डके - ५० वें - सर्गकी समाप्तिपर ।
अष्टम दिवस - युद्धकाण्डके - १११ वें - सर्गकी समाप्तिपर ।
नवम - युद्धकाण्डके - १३१ वें - सर्गकी समाप्तिपर ।
प्रतिदिन कथा-समाप्तिके समय निम्नाङ्कित श्लोकोंके द्वारा मङ्गलाशासन करके पारायण पूरा करे ।

विश्वास-प्रस्तुतिः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्याय्येन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु ॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं प्रोक्तं महापातकनाशनम् ॥
शृण्वन् रामायणं भक्त्या यः पादं पदमेव वा ।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ।
वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम् ॥
यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा ।
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥
मङ्गलं कोसलेन्द्राय महनीयगुणात्मने ।
चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ।
अदितिर्मङ्गलं प्रादात् तत् ते भवतु मङ्गलम् ॥
त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः ।
यदासीन्मङ्गलं राम तत् ते भवतु मङ्गलम् ॥
ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते ।
मङ्गलानि महाबाहो दिशन्तु तव सर्वदा ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतिस्वभावात् ।
करोमि यद् यत् सकलं परस्मै
नारायणायेति समर्पये तत् ॥

मूलम्

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्याय्येन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु ॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं प्रोक्तं महापातकनाशनम् ॥
शृण्वन् रामायणं भक्त्या यः पादं पदमेव वा ।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ।
वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम् ॥
यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा ।
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥
मङ्गलं कोसलेन्द्राय महनीयगुणात्मने ।
चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ।
अदितिर्मङ्गलं प्रादात् तत् ते भवतु मङ्गलम् ॥
त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः ।
यदासीन्मङ्गलं राम तत् ते भवतु मङ्गलम् ॥
ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते ।
मङ्गलानि महाबाहो दिशन्तु तव सर्वदा ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतिस्वभावात् ।
करोमि यद् यत् सकलं परस्मै
नारायणायेति समर्पये तत् ॥

अनुवाद (हिन्दी)

अलग-अलग काण्डोंके सकाम२ पाठका ऋष्यादिन्यास इस प्रकार है—