०६ श्रीरामके ध्यानका क्रम

विश्वास-प्रस्तुतिः

वैदेहीसहितं सुरद्रुमतले
हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये
वीरासने संस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते
तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं
रामं भजे श्यामलम् ॥
वामे भूमिसुता पुरस्तु हनुमान्
पश्चात् सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयो-
र्वाय्वादिकोणेषु च ।
सुग्रीवश्च विभीषणश्च युवराट्
तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं
रामं भजे श्यामलम् ॥

मूलम्

वैदेहीसहितं सुरद्रुमतले
हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये
वीरासने संस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते
तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं
रामं भजे श्यामलम् ॥
वामे भूमिसुता पुरस्तु हनुमान्
पश्चात् सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयो-
र्वाय्वादिकोणेषु च ।
सुग्रीवश्च विभीषणश्च युवराट्
तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं
रामं भजे श्यामलम् ॥