०३ सरस्वतीका स्मरण

विश्वास-प्रस्तुतिः

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयी-
मक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं
पुस्तकं चापरेण ।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा
भासमानासमाना
सा मे वाग्देवतेयं निवसतु वदने
सर्वदा सुप्रसन्ना ॥

मूलम्

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयी-
मक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं
पुस्तकं चापरेण ।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा
भासमानासमाना
सा मे वाग्देवतेयं निवसतु वदने
सर्वदा सुप्रसन्ना ॥