०९४ राम-मेलनम्

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्नवतितमः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्नवतितमः सर्गः

विषयाः

प्रभाते निर्वर्तिताह्निकाभ्यां कुश-लवाभ्यां
यज्ञ-वाटम् एत्य
मधुर-तर-स्वरेण
श्रीरामायण-गानोपक्रमः ॥ १ ॥
तद्-आकर्णन-हृष्टेन रामेण
यागावसाने सभायां
सकल-कला-कुशल–निखिल-जन-मेलन-पूर्वकं
कुश-लव-गीयमान–रामायण-श्रवणम् ॥ २ ॥
गानावसाने कुश-लवाभ्यां राम-चोदनया तं प्रति
आत्मनोर् वाल्मीकि-शिष्यत्व–निवेदन-पूर्वकं
रामायणस्य तत्-प्रणीतत्व-निवेदनेन सह
तस्य मुनेर् यज्ञ-वाट-निकट-संनिधानस्य चनिवेदनम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ।
यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ॥ १ ॥

मूलम्

तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ।
यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ॥ १ ॥

व्याख्या

हुतहुताशनौ कृतसमिदाधानौ ॥ १ ॥

विश्वास-प्रस्तुतिः

तां स शुश्राव काकुत्स्थः पूर्वाचार्यविनिर्मिताम् ।
अपूर्वां पाठ्यजातिं च गेयेन समलंकृताम् ॥ २ ॥

मूलम्

तां स शुश्राव काकुत्स्थः पूर्वाचार्यविनिर्मिताम् ।
अपूर्वां पाठ्यजातिं च गेयेन समलंकृताम् ॥ २ ॥

व्याख्या

पूर्वेति । गायकाभ्यां पूर्वमाचार्येण निर्मितां अपूर्वां प्रागश्रुतां पाठ्यस्य गेयस्य जातिः षड्जादिः । गेयेन गानधर्मेण ॥ २ ॥

विश्वास-प्रस्तुतिः

प्रमाणैर्बहुभिर्युक्तां तन्त्रीलयसमन्विताम् ।
बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत् ॥ ३ ॥

मूलम्

प्रमाणैर्बहुभिर्युक्तां तन्त्रीलयसमन्विताम् ।
बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत् ॥ ३ ॥

व्याख्या

प्रमाणैः ध्वनिपरिच्छेदसाधनैः । कौतूहलपरः विस्मयवान् ॥ ३ ॥

विश्वास-प्रस्तुतिः

अथ कर्मान्तरे राजा समाहूय महामुनीन् ।
पार्थिवांश्च नरव्याघ्रः पण्डितान्नैग मांस्तथा ॥ ४ ॥

मूलम्

अथ कर्मान्तरे राजा समाहूय महामुनीन् ।
पार्थिवांश्च नरव्याघ्रः पण्डितान्नैग मांस्तथा ॥ ४ ॥

व्याख्या

कर्मान्तरे अश्वमेधस्य प्रयोगावसाने ॥ ४ ॥

विश्वास-प्रस्तुतिः

पौराणिकाञ्शब्दविदो ये च वृद्धा द्विजातयः ।
स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ॥ ५ ॥

मूलम्

पौराणिकाञ्शब्दविदो ये च वृद्धा द्विजातयः ।
स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ॥ ५ ॥

व्याख्या

स्वराणां षड्जादिस्वराणां । उत्सुकान् रामायणश्रवणोत्सुकानित्यर्थः ॥ ५ ॥

विश्वास-प्रस्तुतिः

लक्षणज्ञांश्च गन्धर्वान्नैगमांश्च विशेषतः ।
पादाक्षरसमासज्ञांश्छन्दस्सु परिनिष्ठितान् ॥ ६ ॥

मूलम्

लक्षणज्ञांश्च गन्धर्वान्नैगमांश्च विशेषतः ।
पादाक्षरसमासज्ञांश्छन्दस्सु परिनिष्ठितान् ॥ ६ ॥

व्याख्या

गान्धर्वान् गान्धर्वशास्त्रज्ञान् । पादाक्षरसमासज्ञान् पादाक्षराणां गुरुलघुसामान्यज्ञान् । छन्दस्सु वेदेषु ॥ ६ ॥

विश्वास-प्रस्तुतिः

कलामात्र विभागज्ञाञ्ज्यौतिषे च परं गतान् ।
क्रियाकल्पविदश्चैव तथा काव्यविदो जनान् ॥ ७ ॥

मूलम्

कलामात्र विभागज्ञाञ्ज्यौतिषे च परं गतान् ।
क्रियाकल्पविदश्चैव तथा काव्यविदो जनान् ॥ ७ ॥

व्याख्या

कलामात्रविभागज्ञान कलाः स्वराः तेषां मात्राः एकद्वित्रिलक्षणाः तेषां विभागज्ञान् । परं पारङ्गतान् । क्रियाकल्पविदः क्रियाकल्पः क्रियाप्रयोगप्रतिपादकं कल्पसूत्रं तद्विदस्तज्ज्ञान् । काव्यविदः काव्यलक्षणलक्ष्यविद इत्यर्थः । काव्यविदो जनानिति च पाठः ॥ ७ ॥

विश्वास-प्रस्तुतिः

भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः ।
हेतूपचारकुंशलान्वचने चापि हैतुकान् ॥ ८ ॥

मूलम्

भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः ।
हेतूपचारकुंशलान्वचने चापि हैतुकान् ॥ ८ ॥

व्याख्या

भाषाज्ञान् अष्टादशभाषास्वरूपज्ञान् । इङ्गितज्ञान् अभिप्रायविदः । नैगमान्वणिजः । पूर्वत्रपौरानित्यर्थः । वचने चापि केवलव्यवहारेपि हेतूपचारकुशलान् युक्तिप्रयोगसमर्थान् । हैतुकान् तार्किकान् ॥ ८ ॥

विश्वास-प्रस्तुतिः

छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् ।
चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ॥ ९ ॥

मूलम्

छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् ।
चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ॥ ९ ॥

वृत्तज्ञान् वृत्तशास्त्रज्ञान् । चित्रज्ञान् चक्रबन्धादिसहितचित्रकाव्यरचनानिपुणान् ॥ ९ ॥

विश्वास-प्रस्तुतिः

शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् ।
एतान्सर्वान्त्समानीय गातारौ समवेशयत् ॥ १० ॥
दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः ।
पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तो ॥ ११ ॥
ऊचुः परस्परं चेदं सर्व एव समन्ततः ।
उभौ रामस्य सदृशौ बिम्बाद्बिम्वमिवोत्थितौ ॥ १२ ॥
जटिलौ यदि न स्यातां न वल्कलधरौ यदि ।
विशेषं नाधिगच्छामो गायतो राघवस्य च ॥ १३ ॥
तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम् ।
गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥ १४ ॥
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ।
न च तृप्तिं ययुः सर्वे श्रोतारो गानसंपदा ॥ १५ ॥

शास्त्रज्ञान व्याकरणादिशास्त्रज्ञान् । समवेशयत् । सभामध्ये इति शेषः ॥ १०-१५ ॥

विश्वास-प्रस्तुतिः

प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् ।
ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ॥ १६ ॥
ततोपराह्णसमये राघवः समभाषत ।
श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ॥ १७ ॥
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः ।
प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् ।
ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ॥ १८ ॥

प्रवृत्तमिति तत्र गेयेन नारददर्शितंपूर्वसर्गमादितः प्रवृत्तम् ॥ १६-१८ ॥

विश्वास-प्रस्तुतिः

दीयमानं सुवर्ण तु नागृह्णीतां कुशीलवौ ।
ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥ १९ ॥

मूलम्

दीयमानं सुवर्ण तु नागृह्णीतां कुशीलवौ ।
ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥ १९ ॥

कुशीलवौ विस्मितौ सकृदेव बहुप्रदानतः विस्मयवन्तौ किमनेनेत्येवोचतुश्च ॥ १९ ॥

विश्वास-प्रस्तुतिः

वन्येन फलमूलेन निरतौ वनवासिनौ ।
सुवर्णेन हिरण्येन किं करिष्यावहे वने ॥ २० ॥
तथा तयोः प्रब्रुवतोः कुतूहलसमन्विताः ।
श्रोतारचैव रामश्च सर्व एव सुविस्मिताः ॥ २१ ॥

मूलम्

वन्येन फलमूलेन निरतौ वनवासिनौ ।
सुवर्णेन हिरण्येन किं करिष्यावहे वने ॥ २० ॥
तथा तयोः प्रब्रुवतोः कुतूहलसमन्विताः ।
श्रोतारचैव रामश्च सर्व एव सुविस्मिताः ॥ २१ ॥

तदेव स्पष्टीकरोति – वन्येनेत्यादि ॥ निरतौ निरताहारौ ॥ २०-२१ ॥

विश्वास-प्रस्तुतिः

तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ।
प्रपच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥ २२ ॥

मूलम्

तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ।
प्रपच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥ २२ ॥

आगमं प्राप्तिम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ।
कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ॥ २३ ॥
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ॥ २४ ॥

मूलम्

किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ।
कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ॥ २३ ॥
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ॥ २४ ॥

किंप्रमाणमिदमित्यादि ॥ का प्रतिष्ठा कियत्पर्यन्तमित्याशयः । काव्यस्य कः कर्तेत्यनुकर्षः । मुनिपुङ्गव इति । आस्त इति शेषः ॥ २३-२४ ॥

विश्वास-प्रस्तुतिः

वाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंविधम् ।
येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम् ॥ २५ ॥

मूलम्

वाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंविधम् ।
येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम् ॥ २५ ॥

येन कृतमिदमशेषं चरितं काव्यं तुभ्यं संप्रदर्शितं सोस्य काव्यस्य कर्ता भगवान् वाल्मीकिः । यज्ञसंविधं । बिन्दुश्छान्दसः । यज्ञवाटसविधदेशं प्राप्तः ॥ २५ ॥

विश्वास-प्रस्तुतिः

सन्निबद्धं हि श्लोकानां चतुर्विंशत्सहस्रकम् ।
उपाख्यानशतं चैव भार्गवेण तपस्विना ॥ २६ ॥

मूलम्

सन्निबद्धं हि श्लोकानां चतुर्विंशत्सहस्रकम् ।
उपाख्यानशतं चैव भार्गवेण तपस्विना ॥ २६ ॥

चतुर्विंशतिसाहस्रमित्यादिकमग्रे स्पष्टीकरिष्यामः । चतुर्विंशतिसाहस्रं श्लोकानां सन्निबन्धनमिति च पाठः । उपाख्यानशतं इलोपाख्यानान्तं । भार्गवेण भृगुवंश्येन । वाल्मीकेरेव भार्गवत्वं प्राचेतसत्वं चाविरुद्धमिति दर्शितं तपस्स्वाध्यायनिरतं इति श्लोकव्याख्याने ॥ २६ ॥

विश्वास-प्रस्तुतिः

आदिप्रभृति वै राजन्पञ्च सर्गशतानि च ।
काण्डानि षट् कृतानीह सोत्तराणि महात्मना ।
कृतानि गुरुणाऽस्माकमृषिणा चरितं तव ॥ २७ ॥

मूलम्

आदिप्रभृति वै राजन्पञ्च सर्गशतानि च ।
काण्डानि षट् कृतानीह सोत्तराणि महात्मना ।
कृतानि गुरुणाऽस्माकमृषिणा चरितं तव ॥ २७ ॥

पञ्च सर्गशतानीति षट्काण्डाभिप्रायेण । चकारादुत्तरकाण्डसर्गसंख्यासमुच्चयः ॥ २७ ॥

विश्वास-प्रस्तुतिः

प्रतिष्ठाऽऽजीवितं यावत्तावत्सर्वस्य वर्तते ॥ २८ ॥

मूलम्

प्रतिष्ठाऽऽजीवितं यावत्तावत्सर्वस्य वर्तते ॥ २८ ॥

आजीवितमिति पदं । यावत् काव्यनायकस्य जीवितं तावत्तस्य यत् शुभाशुभं तस्य सर्वस्यात्र प्रतिष्ठानिबन्धनमस्ति ॥ २८ ॥

विश्वास-प्रस्तुतिः

यदि बुद्धिः कृता राजश्रवणाय महारथ ।
कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ॥ २९ ॥
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् ।
प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ॥ ३० ॥
रामोपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ।
श्रुत्वा तङ्गीतिमाधुर्यं कर्मशालामुपागमत् ॥ ३१ ॥
शुश्राव तत्ताललयोपपत्रं सर्गान्वितं स स्वरशब्दयुक्तम् ।
तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ॥ ३२ ॥

हे राजन्यदि तस्य सर्वस्य श्रवणाय बुद्धिः कृता तदा कर्मान्तरे क्षणीभूतः सुखीभूतः शृणु ॥ २९-३२ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्नवतितमः सर्गः ॥ ९४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुर्नवतितमः सर्गः ॥ ९४ ॥

मूलम्

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्नवतितमः सर्गः ॥ ९४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुर्नवतितमः सर्गः ॥ ९४ ॥