०४४ रावणेन जम्बुमालिप्रेक्षणम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दकाण्डे चतुश्चत्वारिंशः सर्गः

सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।

जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ 5.44.1॥

संदिष्ट इत्यादि ॥ 5.44.1॥

रक्तमाल्याम्बरधरः स्रग्वी रुचिरगुण्डलः ।

महान् विवृत्तनयनश्चण्डः समरदुर्जयः ॥ 5.44.2॥

विवृत्तनयनः मण्डलीकृतनयनः ॥ 5.44.2॥

धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् ।

विस्फारयानो वेगेन वज्राशनिसमस्वनम् ॥ 5.44.3॥

रुचिरसायकं रुचिरसायकार्हम् । विस्फारयानः विस्फारयमाणः, ज्याकर्षणं कुर्वन्नित्यर्थः । वज्राशनिसमस्वनमिति विस्फारणक्रियाविशेषणम् ॥ 5.44.3॥

तस्य विस्फारघोषेण धनुषो महता दिशः ।

प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ 5.44.4॥

रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।

हनुमान् वेगसम्पन्नौ जहर्ष च ननाद च ॥ 5.44.5॥

तस्येति । नभस्समपूर्यत, दिशः प्रदिशश्च समपूर्यन्तेति विपरिणामेनानुषङ्गः ॥ 5.44.45॥

तं तोरणविटङ्कस्थं हनुमन्तं महाकिपम् ।

जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ 5.44.6॥

तोरणविटङ्कं तोरणस्य कपोतपालिका । “कपोतपालिकायां तु विटङ्कं पुन्नपुंसकम्” इत्यमरः । स्तम्भोपरि तिर्यङ्निहितदार्वित्यर्थः ॥ 5.44.6॥

अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ।

बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ 5.44.7॥

एकेनेत्येतदर्धचन्द्रस्यापि विशेषणम् । अर्धचन्द्राकाराग्रशरेणेत्यर्थः । कर्णिना कर्णवच्छरेण ॥ 5.44.7॥

तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।

शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ॥ 5.44.8॥

अम्बुजं रक्तपद्मम् । भास्कररश्मिना विद्धम् अत एव फुल्लमित्यर्थः ॥ 5.44.8॥

तत्तस्य रक्तं रक्तेन ऱञ्जितं शुशुभे मुखम् ।

यथा ऽ ऽकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥ 5.44.9॥

रक्तं स्वत एव रक्तम् । रक्तेन शोणितेन । महापद्मं रक्तोत्पलम् । चन्दनबिन्दुभिः रक्तचन्दनबिन्दुभिः ॥ 5.44.9॥

चुकोप बाणाभिहतो राक्षसस्य महाकपिः ॥ 5.44.10॥

ततः पार्श्वे ऽतिविपुला ददर्श महतीं शिलाम् ।

तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।

तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ 5.44.11॥

विपन्नं कर्म तद् दृष्ट्वा हनुमांश्चण्डविक्रमः ।

सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ 5.44.12॥

भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।

चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ॥ 5.44.13॥

चुकोपेत्यर्धम् । राक्षसस्य राक्षसविषये ॥ 5.44.1013॥

सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ।

उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ 5.44.14॥

स शरैः पूरिततनुः क्रोधेन महता वृतः ।

तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ 5.44.15॥

अतिवेगो ऽतिवेगेन भ्रामयित्वा बलोत्कटः ।

परिघं पातयामास जम्बुमालेर्महोरसि ॥ 5.44.16॥

सालमिति । प़ञ्चभिर्भुजे इत्यादौ विव्याधेत्यध्याहारः ॥ 5.44.1416॥

तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।

न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ 5.44.17॥

स हतस्तरसा तेन जम्बुमाली महाबलः ।

पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ॥ 5.44.18॥

जम्बुमालिं च निहतं किङ्करांश्च महाबलान् ।

चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ॥ 5.44.19॥

स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले ।

अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ॥ 5.44.20॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दकाण्डे चतुश्चत्वारिंशः सर्गः ॥ 5.44॥

तस्य चैवेति । नाश्वा इति अश्वशब्देनात्र खरा उच्यन्ते । “रथेन खरयुक्तेन” इति पूर्वमुक्तत्वात् ॥ 5.44.1720॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ 5.44॥