०४३ हनुमता लङ्कादहनचिन्तनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः

ततः स किङ्करान् हत्वा हनुमान् स्थानमास्थितः ॥ 5.43.1॥

ततः स किङ्करानित्यादि ॥ 5.43.1॥

वनं भग्नं मया चैत्यप्रसादो न विनाशितः ।

तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम् ।

इति स़ञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम् ॥ 5.43.2॥

वनमित्यादि । ध्वंसनफलमाह दर्शयन् बलमिति । बलदर्शनार्थमित्यर्थः ॥ 5.43.2॥

चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् ।

आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः ॥ 5.43.3॥

आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः ।

बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ॥ 5.43.4॥

ध्वंसनप्रकारमाह चैत्येति । चैत्यं देवायतनम्, तद्रूपः प्रासादः चैत्यप्रसादः तम् । आप्लुत्य तोरणाल्लङ्घयित्वा । हरिश्रेष्ठो हनुमान् मारुतात्मज इत्यस्योत्तश्लोकेनान्वयः । हरियूथपत्वेप्यहरिर्भविष्यतीति तद्व्यावृत्त्यर्थं हरिश्रेष्ठ इत्युक्तम् । प्रतिसूर्यः द्वितीयसूर्य इत्यर्थः । अनेन सूर्योदयस्सूचितः ॥ 5.43.34॥

संप्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम् ।

हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमो ऽभवत् ॥ 5.43.5॥

स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः ।

धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ 5.43.6॥

तस्यास्फोटितशब्देन महता श्रोत्रघातिना ।

पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ॥ 5.43.7॥

अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः ।

राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 5.43.8॥

दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।

हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ 5.43.9॥

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।

शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ 5.43.10॥

अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।

समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ 5.43.11॥

संप्रधृष्येति । संप्रधृष्य आक्रम्य । पारियात्रो नाम कुलपर्वतः ॥ 5.43.511॥

एमुक्त्वा विमानस्थश्चैत्यस्थान् हरियूथपः ।

ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् ॥ 5.43.12॥

तेन शब्देन महता चैत्यपालाः शतं ययुः ।

गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् ।

विसृजन्तो महाकाया मारुतिं प्रर्यवारयन् ॥ 5.43.13॥

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।

आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः ॥ 5.43.14॥

आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ।

परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ॥ 5.43.15॥

ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः ॥ 5.43.16॥

चैत्यस्थान् चैत्यपालान् ॥ 5.43.1216॥

प्रासादस्य महान्तस्य स्तम्भं हेमपरिष्कृतम् ।

उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः ।

ततस्तं भ्रामयामास शताधारं महाबलः ॥ 5.43.17॥

प्रासादस्येति । पवनात्मजः भ्रामयामासेत्यन्वयः । शतधारं धारा कोटिः । वज्रवत् स्थितमित्यर्थः, यद्वा शतधा अरमिति च्छेदः । अरं शीघ्रम् ॥ 5.43.17॥

तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत ॥ 5.43.18॥

दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः ।

स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ।

अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ 5.43.19॥

तत्रेति । अग्निः समभवत्, भ्रामितस्तम्भैः स्तम्भान्तरसङ्घट्टनादिति भावः ॥ 5.43.1819॥

मादृशानां सहस्राणि विसृष्टानि महात्मनाम् ।

बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् ॥ 5.43.20॥

अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ 5.43.21॥

दशनागबलाः केचित् केचिद्दशगुणोत्तराः ।

केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ 5.43.22॥

राक्षसानामुत्साहभङ्गं कारयितुमाह मादृशानामित्यादि ॥ 5.43.2022॥

सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः ।

अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ॥ 5.43.23॥

ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः ।

शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ।

आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः ॥ 5.43.24॥

नेयमस्ति पुरी लङ्का न यूयं न च रावणः ।

यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ॥ 5.43.25॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥ 5.43॥

ओघबलाः ओघाख्यसङ्ख्याकबलाः ॥ 5.43.2325॥

इति श्रीगोविन्दराजविचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ 5.43॥