०४१ हनुमता रावणदर्शनचिन्तनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकचत्वारिंशः सर्गः

स च वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया ।

तस्माद्देशादपक्रम्य चिन्तयामास वानरः ॥ 5.41.1॥

स चेत्यादि ॥ 5.41.1॥

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा ।

त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥ 5.41.2॥

अल्पेति । “अभिगम्य तु वैदेहीं निलयं रावणस्य च” इत्युक्तकार्यद्वये सीतादर्शनरूपं कार्यं जातम् । इदं कार्यं रावणनिलयपरिज्ञानरूपम् । अल्पशेषम् अल्पावशिष्टम् । सान्तःपुरलङ्कायाः सम्यक् परिज्ञातत्वे ऽपि राक्षसबलाबलरावणहृदयाद्यपरिज्ञानात्कार्यस्याल्पशेषत्वोक्तिः । इह राक्षसबलाबलरावणहृदयपरिज्ञानरूपकार्ये । त्रीनुपायानतिक्रम्य सामदानभेदानतिक्रम्य । चतुर्थो लक्ष्यते साधनतया दण्ड एव दृश्यत इत्यर्थः ॥ 5.41.2॥

न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते ।

न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ॥ 5.41.3॥

न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते ।

हतप्रवीरा हि रणे राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥ 5.41.4॥

उपपत्तिपूर्वकमेतदेव विवृणोति न सामेति । “अनित्यो विजयो यस्माद्दृश्यते युद्ध्यमानयोः । पराजयश्च संग्रामे तस्माद्युद्धं विसर्जयेत् ॥” इति युद्धस्य अव्यवस्थितफलकत्वेऽपि सर्वं बलवतः पथ्यम्’ इति न्यायेन सर्वातिशायिबलपराक्रमस्य मम पराजयप्रसङ्ग एव नास्तीत्यभिप्रायेणाह पराक्रम इति। मम तु इह रक्षोविषये पराक्रम एव रोचत इति संबन्धः॥ 5.41.34 ॥

कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् ।

पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ 5.41.5॥

“अभिगम्य तु वैदेहीं निलयं रावणस्य च” इत्यनुज्ञातस्यातिरिक्तकार्यकरणे दोषमाशङ्क्य परिहरति कार्य इति । कार्ये विहिते कर्तव्ये, बहूनि कार्याणि ॥ 5.41.5॥

न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।

यो ह्यर्थं बहुधा वेद स समर्थो ऽर्थसाधने ॥ 5.41.6॥

न हीति । अल्पस्यापि कर्मणः एको हेतुस्साधको न किमुत महतः कर्मण इति भावः । बहुधा बहुभिर्हेतुभिः ॥ 5.41.6॥

इहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम् ।

परात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ॥ 5.41.7॥

पूर्वोक्तसमर्थनायाह इहैवेति । अहमिहैव । परात्मसंमर्दविशेषतत्त्ववित् परात्मनोर्युद्धतारतम्यतत्त्ववित् कृतनिश्चयः कृतबलाबलनिश्चयः सन् यदि प्लवगेश्वरालयं व्रजेयं ततः भर्तृशासनं सीतादर्शनरावणनिलयसम्यक्परिज्ञानविषयं शासनम् । तावत् साकल्येन कृतं स्यात् । अन्यथा राक्षसबलाबलं कीदृशमिति भर्त्रा पृष्टे निरुत्तरः स्यामिति भावः ॥ 5.41.7॥

कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह ।

तथैव खल्वात्मबलं च सारवत् संमानयेन्मां च रणे दशाननः ॥ 5.41.8॥

कथं न्विति । युद्धं कथं सुखागतं सुखेन प्राप्तं भवेत्तथा कर्तव्यमित्यर्थः । युद्धस्य फलमाह तथैवेत्यादिना सार्द्धश्लोकेन । तथैव खलु युद्धकरणे खलु । सः दशाननः । रणे आत्मबलं स्वपक्षबलं मां च । सारवत् मानयेत्परिच्छिन्द्यात् ॥ 5.41.8॥

ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम् ।

हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वा ऽहमितः पुनर्व्रजे ॥ 5.41.9॥

बलप्रयायिना सेनान्या सह वर्तत इति सबलप्रयायी तम् । तस्य हृदि स्थितं मतं सीताविषयाध्यवसायं बलं च मत्वा सुखेन इतः अस्मात् स्थानात् पुनः व्रजे व्रजिष्यामि ॥ 5.41.9॥

इदमस्य नृशंसस्य नन्दनोपममुत्तमम् ।

वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥ 5.41.10॥

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः ।

अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः ॥ 5.41.11॥

इदमिति । नेत्रमनःकान्तम्, वर्तत इति शेषः ॥ 5.41.1011॥

ततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः ।

त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ॥ 5.41.12॥

अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः ।

निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ 5.41.13॥

तत इति । समादेक्ष्यति नियोजयिष्यति । इदम् अव्यवहितोत्तरकालिकम् । कपीश्वरालयमित्यनन्तरमितिकरणं द्रष्टव्यम् । इति चिन्तयामासेत्यन्वयः ॥ 5.41.1213॥

ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः ।

उरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ॥ 5.41.14॥

ततः तेन चिन्तितेन हेतुना ॥ 5.41.14॥

ततस्तु हनुमान् वीरो बभञ्च प्रमदावनम् ।

मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ 5.41.15॥

प्रमदावनम् अन्तःपुरवनम् । “प्रमदावनमन्तः पुरोचितम्” इत्यमरः ॥ 5.41.15॥

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः ।

चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ 5.41.16॥

नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः ।

ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ।

न बभौ तद्वनं तत्र दावानलहतं यथा ॥ 5.41.17॥

पर्वताग्रैः क्रीडापर्वताग्रैः ॥ 5.41.1617॥

व्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥ 5.41.18॥

व्याकुलावरणाः आवरणादुपघ्नाद्व्याकुलाः । विह्वलाः स्त्रियः इव ॥ 5.41.18॥

लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः ।

शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ॥ 5.41.19॥

व्यालमृगैः श्वापदादिहिंस्रमृगैः । निर्धुतैः पीडितैः । गृहैः केवलगृहैः ॥ 5.41.19॥

सा विह्वला ऽशोकलताप्रताना वनस्थली शोकलताप्रताना ।

जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ॥ 5.41.20॥

सेति । शोच्यत इति शोकः । प्रतानं विततिः । अशोकम् अशोच्यम् लताप्रतानं यस्यास्सा अशोकलताप्रताना । दशास्यप्रमदावनस्य भोगवर्धनेन रावणवनितारक्षकस्य । प्रमदावनस्य अन्तःपुरोद्यानस्य । सा वनस्थली तृणगुल्मलतादिविशिष्टप्रदेशः । कपेर्बलाद्धि विह्वला लुलिता शोकलताप्रताना च जाता । यद्वा शोकलताश्शोकरताः । रलयोरभेदः । अप्प्रतानाः अप्सु प्रतानाः कमलकल्हारादयो ऽस्यां सा शोकलताप्प्रताना । म्लानजलजेति यावत् । दशास्यप्रमदावनस्य रावणप्रमदावनस्य ‘ङ्यापोस्संज्ञाच्छान्दसोर्बहुलम्” इति बहुलवचनाद्ध्रस्वाभावः । दशास्यप्रमदावनस्य वनस्थलीत्यत्र शिलापुत्रकस्य शरीरमितिवदुपचारात् षष्ठी । प्रमदावनस्य सीतारूपप्रमदापालकस्य । वनस्थली कपेर्बलाद्विह्वला शोकलताप्रताना च जाता । अशोकलतेत्युपलक्षणम् ॥ 5.41.20॥

स तस्य कृत्वा ऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः ।

युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः ॥ 5.41.21॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥ 5.41॥

स इति । अर्थपतेः राज्ञो रावणस्य । मनसः व्यलीकम् अप्रियम् पीडनं वा । “अलीकं त्वप्रियाकार्यवैलक्ष्यानृतपीडने” इति निघण्टुः । युयुत्सुः योद्धुमिच्छुः । तोरणम् उद्यानबहिर्द्वारम् । “तोरणो ऽस्त्री बहिर्द्वारम्” इत्यमरः ॥ 5.41.21॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकचत्वारंशः सर्गः ॥ 5.41॥